कादम्बरी /721
This page has been fully proofread once and needs a second look.
कादम्बरी ।
[ कथायाम्-
भूमौ कृतावस्थानः । तस्य दुहिता कौतुकमये प्रथमे वयसि वर्तते । तस्यास्त्वं केनापि दुरा
श्रुत्वोत्पन्न
अहं तच्छ्रुत्वा [^८]मुक्ताशनिनेव ताडितः शिरसि, संवि
[ टि ]-- किं तदित्याह - महात्मन्निति । हे महात्मन् हे महानुभाव, अहं खलु निश्चयेन क्रूरकर्मा निस्त्रिंशकर्मा कठि
म
तस्य पक्कणाधीशस्य दुहिता सुता कौतुकमय आश्चर्यमयेऽत्य- [^३]द्भुतरूपवत्त्वात्प्रथम आद्ये वयसि दशायां वर्तते ।
केनाप्यज्ञाताभिधानेन दुरात्मना तस्या दुहि [^३]तायास्त्वं कथितो निवेदितो यथा जाबालेर्मुनेराश्रम एवंगुणैर्विशिष्टो
अहं वैशम्पायनस्त्वाकर्ण्य मुक्तो योऽशनिर्वश्रं तेन शिरस्युत्तमाङ्गे ताडित इव संविग्न डाइग्नोऽन्तरात्मा
यस्यैवंभूत इति चेतसि चित्तेऽकरवं व्यथामन्वतिष्ठम् । अहो इति खेदे । मे मम मन्दपुण्यस्य स्वल्पसुकृतस्य
कर्मणां कृतशुभाशुभानां दारुणतरोऽतिभयावहो विपाकोऽनुभवनकालः येन कारणेन मया सुरासुराणां देवदै-
त्यानां शिरःशेखरैमलिमुकुटैरभ्यर्चितं पूजितं चरणसरसिजमङ्घ्रिपद्मं यस्या एवं बिधायाः श्रियो लक्ष्म्या जातेनो-
त्पन्नेन जगत्रयनमस्यस्य त्रिभुवननमस्करणीयस्य महामुनेः श्वेतकेतोः स्वहस्तैर्निजपाणिभिः संवर्धितेन वृद्धिं
प्रापितेन दिव्यो देवयुक्तो य आश्रमो मुनिस्थानम् । 'आश्रमस्तु मुनिस्थानम्' इति हैमः । तत्र निवासिनाव-
स्थानशीलेन भूत्वा 'पुलिन्दा नाहला निष्ठा शबरा वरुटा भटाः । माला भिल्लाः किराताश्च सर्वेऽपि म्लेच्छ-
जातयः ॥ एतैर्लेच्छजातिभिरपि दूरतः परित्यक्तः प्रवेशो यस्मिन्नेतादृशमधुना सांप्रतं पकणं प्रवेष्टव्यं तत्र
टिप्प० -- 1 पूर्व धर्मिनिर्देशादत्रापि समविशेष्यः 'कुतूहलिना (कौतुकयुक्तेन )' इत्येव पाठः सम्यक् ।
2 अज्ञानं व्याख्यातुः, कौतुकमये कौतुकबहुले । प्रथमे वयसि ( कौमारे ) सर्वस्य किल कौतुकानि प्रति-
पदं भवन्ति । 3 व्याख्यातुर्यथेच्छं व्याकरणम्, विद्यार्थिभिस्तु 'दुहितुः' इति रूपं ज्ञेयम् । 4 भ्रष्टः
पाठः । 'उत्पन्न कौतुकया' इत्येव पाठः । 5 बन्धे मोशे चेत्येव पाठः ।
पाठा० -१ कुतूहलिना. २ मातङ्ग. ३ यथा फिल. ४ तिष्ठतीति ५ बहन एवापरेऽपि; अपरिमिता. ६ नया-
म्यहम्. ७ बन्धमोक्षे च. ८ थुफाशनिना. ९ सुरासुरशिखराभ्यचिंते चरणसरसिजया श्रिया जनित्वा.
१० आश्रय. ११ पटव्यम्.
A