कादम्बरी /721
This page has not been fully proofread.
६८८
कादम्बरी ।
[ कथायाम्-
'महात्मन्, अई खलु क्रूरकर्मा जात्या चाण्डालः । न च मया त्वमामिषलुब्धेन
कुतूहलेन वा बद्धः । मम खलु स्वामी पकणाधिपतिरितो नातिदूरे मातङ्गकप्रतिबद्धायां
भूमौ कृतावस्थानः । तस्य दुहिता कौतुकमये प्रथमे वयसि वर्तते । तस्यास्त्वं केनापि दुरा-
त्मना कथितो यथा जाबालेराश्रम एवंगुणविशिष्टो महाश्चर्यकारी शुकस्तिष्ठतीति । तया च
श्रुत्वोत्पन्न कौतुकाचहणाय बेहव एवापरे मादृशाः समादिष्टाः । तदद्य पुण्यैर्मयासादि-
तोऽसि । तदहं तत्पादमूलं त्वां प्रापयामि। बन्धमोक्षे चाधुना सा ते प्रभवति' इति ।
अहं तच्छ्रुत्वा मुक्ताशनिनेव ताडितः शिरसि, संविघ्नान्तरात्मा चेतस्यकरवम्- 'अहो
मे मन्दपुण्यस्य दारुणतरः कर्मणां विपाकः । येन मया सुरासुरशिरः शेखराभ्यर्चितचरण-
सरसिजायाः श्रियो जातेन, जगत्रयनमस्यस्य महामुनेः श्वेतकेतोः स्वहस्तसंवर्धितेन, दिव्य-
लोकाश्रमनिवासिना भूत्वा म्लेच्छजातिभिरपि दूरतः परिहृतप्रवेशमधुना पंकणं प्रवेष्टव्यम् ।
किं तदित्याह - महात्मन्निति । हे महात्मन् हे महानुभाव, अहं खलु निश्चयेन क्रूरकर्मा निस्त्रिंशकर्मा कठि-
मकर्मा जात्या जन्मना । 'जातिः सामान्यजन्मनोः' इत्यमरः । चाण्डालः श्वपचः । न च मया चाण्डालेनामिषलुब्धेन
मांसगृध्रुना कुतूहलेन कौतूहेलेन वा त्वं बद्धः संदानितः । खलु निश्चये । मम स्वामी पक्कणाधिपतिः पक्कणः
शबरावा सस्तस्याधिपतिरीश इतः स्थानान्नातिदूरे नातिदविष्ठे मातङ्गकैरन्त्यजैः प्रतिबद्धायां कृतगृहादिरचनायां
भूमौ कृप्तमवस्थानं येन सः । तत्र कृतनिवास इत्यर्थः । 'पक्कण: शबरावासो घोषस्त्वाभीर पल्लिका' इति हैमः ।
तस्य पक्कणाधीशस्य दुहिता सुता कौतुकमय आश्चर्यमयेऽत्यद्भुतरूपवत्त्वात्प्रथम आद्ये वयसि दशायां वर्तते ।
केनाप्यज्ञाताभिधानेन दुरात्मना तस्या दुहितायास्त्वं कथितो निवेदितो यथा जाबालेर्मुनेराश्रम एवंगुणैर्विशिष्टो
महाश्चर्यकारी महाकौतुककृच्छुकस्तिष्ठत्यास्त इति । तया च पक्कणाधिपतिसुतया श्रुत्वाकर्योत्पन्न कौतुकात्संजात-
कुतूहलात्त्वग्रहणाय त्वदानयनाथ बहव एवापरे मादृशा मत्सदृशाः समादिष्टा आज्ञापिताः । तदिति हेत्वर्थे ।
अद्य पुण्यैः सुकृतैस्त्वं समासादितः प्राप्तोऽसि तत्तस्माद्धेतोस्तस्याः पादमूलं चरणसमीपमहं श्वपचस्त्वां प्राप-
यामि नयामि । अधुना सांप्रतमिति हेतोस्ते तव बन्धमोक्षे सैव चाण्डालसुतैव प्रभवति समर्था भवति । नाहम् ।
अहं वैशम्पायनस्त्वाकर्ण्य मुक्तो योऽशनिर्वश्रं तेन शिरस्युत्तमाङ्गे ताडित इव संविग्न डाइग्नोऽन्तरात्मा
यस्यैवंभूत इति चेतसि चित्तेऽकरवं व्यथामन्वतिष्ठम् । अहो इति खेदे । मे मम मन्दपुण्यस्य स्वल्पसुकृतस्य
कर्मणां कृतशुभाशुभानां दारुणतरोऽतिभयावहो विपाकोऽनुभवनकालः येन कारणेन मया सुरासुराणां देवदै-
त्यानां शिरःशेखरैमलिमुकुटैरभ्यर्चितं पूजितं चरणसरसिजमङ्घ्रिपद्मं यस्या एवं बिधायाः श्रियो लक्ष्म्या जातेनो-
त्पन्नेन जगत्रयनमस्यस्य त्रिभुवननमस्करणीयस्य महामुनेः श्वेतकेतोः स्वहस्तैर्निजपाणिभिः संवर्धितेन वृद्धिं
प्रापितेन दिव्यो देवयुक्तो य आश्रमो मुनिस्थानम् । 'आश्रमस्तु मुनिस्थानम्' इति हैमः । तत्र निवासिनाव-
स्थानशीलेन भूत्वा 'पुलिन्दा नाहला निष्ठा शबरा वरुटा भटाः । माला भिल्लाः किराताश्च सर्वेऽपि म्लेच्छ-
जातयः ॥ एतैर्लेच्छजातिभिरपि दूरतः परित्यक्तः प्रवेशो यस्मिन्नेतादृशमधुना सांप्रतं पकणं प्रवेष्टव्यं तत्र
टिप्प० -- 1 पूर्व धर्मिनिर्देशादत्रापि समविशेष्यः 'कुतूहलिना (कौतुकयुक्तेन )' इत्येव पाठः सम्यक् ।
2 अज्ञानं व्याख्यातुः, कौतुकमये कौतुकबहुले । प्रथमे वयसि ( कौमारे ) सर्वस्य किल कौतुकानि प्रति-
पदं भवन्ति । 3 व्याख्यातुर्यथेच्छं व्याकरणम्, विद्यार्थिभिस्तु 'दुहितुः' इति रूपं ज्ञेयम् । 4 भ्रष्टः
पाठः । 'उत्पन्न कौतुकया' इत्येव पाठः । 5 बन्धे मोशे चेत्येव पाठः ।
पाठा० -१ कुतूहलिना. २ मातङ्ग. ३ यथा फिल. ४ तिष्ठतीति ५ बहन एवापरेऽपि; अपरिमिता. ६ नया-
म्यहम्. ७ बन्धमोक्षे च. ८ थुफाशनिना. ९ सुरासुरशिखराभ्यचिंते चरणसरसिजया श्रिया जनित्वा.
१० आश्रय. ११ पटव्यम्.
A