2023-11-03 11:12:05 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

वृक्षे निद्रितस्य तस्य चण्डालहस्ते गमनम् ] उत्तरभागः ।
 
9
 
,
 
,
 
विरहितमिव कालपुरुषम्, अतिकठिनतया कालिन्म्ना चं वपुषः कालायसपरमाणुभिरिव
केवलैर्निर्मितम्, प्रेतपतिमिवापरम्, प्रतिपक्षमिव पुण्यराशेः , [^१]आशयमिव पाप्मनः,
विनापि क्रोधकारणादाब द्भीषण [^२]भृकुटिरौद्र
तरेणानने [^३]ना रक्तरक्त-
के करतरकनीनिकेन र्चे[^४]च चक्षुषा
सकलजनभयंकरस्य भगवतः कृतान्तस्यापि भयमिवोपजनयन्तम्, आशये केशेषु चास्निग्धम्,

आनने ज्ञाने चान्धकारितम्, वर्णे चरिते च कृष्णम्, निवसने कर्मणि च मलिनम्, वचसि
वपुषि च [^५]परुषम्, अदृष्टाश्रुतानुरूपमध्याकार- क प्रत्ययादेवानुमीयमानक्रौर्यदोषं पुरुषमद्राक्षम् ।
आलोक्य च तं तादृशमात्मन उपरि निष्प्रत्याश एवापृच्छम् - 'भद्र कस्त्वम् ? किमर्
थं [^६]वा त्वया बद्धोऽस्मि । यद्यामिषतृष्णया, तत्किमिति सुप्त एव न व्यापादितोऽस्मि । किं
मया निरागसा बन्ध [^७]दुःखमनुभावितेन । अथ केवलमेव कौतुकात् । ततः कृतं कौतुकम् ।
मुत्रञ्च मामिदानीं त्वं भद्रमुखः । मया खलु [^८]वल्लभजनोत्कण्ठितेन दूरं गन्तव्यम् । अकाल-
क्षेपक्षमं वर्तते [^९]मे हृदयम् । भवानपि [^१०]प्रणिधर्मे वर्तते' [^११]एवमुक्तः स मामु [^१२]क्तवान्-
६८७
 

 
[ टि ]--
तश्च पाशविरहितं कालपुरुषमिव यममिवातिकठिन- तयातिकठोरतया वपुषो देहस्य कालिन्म्ना कृष्णत्वेन च केवलैः

कालायसपरमाणुभिर्लोहाणुभिरिव निर्मितं रचितमपरं प्रेतपतिं यममिव पुण्यराशेः सुकृतसङ्घातस्य प्रतिपक्षमिवा
सहनमिव [^1]पाप्मनः पापिष्ठस्या [^2]शयमिवाभिप्रायमिव । क्रोधकार- णाद्विनापि मन्युहेतुं विनाप्याबद्धा या भीषणा
भैरवा भृकुटयस्ताभी रौद्रतरेण भीषणतरेणाननेन मुखेनारक्ता लोहिता केकरतरा अतिवकाक्रा कनीनिका यस्यैवं-
भूतेन च चक्षुषा नयनेन कृत्वा सकलजनभयंकरस्य भगवतः कृतान्तस्यापि भयमिव भीतिमिवोपजनयन्तमुत्पा-
दयन्तं निष्पादयन्तम्, आशयेऽभिप्राये केशेषु चालकेषु चास्निग्धं रूक्षमानने मुखे ज्ञाने चावबोधे चान्धकारितं
प्राप्तान्धकारम्, वर्णे देहगुणे चरित आचरणे च कृष्णं श्यामम्, निवसने वस्त्रे कर्मणि क्रियायां च मलिनं
कर
कश्मलम्, वचसि वाचि वपुषि शरीरे च परुषं कठिनम्, अदृष्टश्रुतमनुरूपं स्वै[^3]स्वरूपं यस्यैवंभूतमप्याफार प्रत्यया
कार प्रत्ययादाकृतेर्ज्ञानादेवानुमीयमा-
मनुमानेन ज्ञायमानं क्रौर्यदोषं क्रूरतादूषणं यस्य स तमेवंविधं पुरुषं नरमद्राक्षं व्यलो-
कयम् । आलोक्य च निरीक्ष्य च तं तादृशमात्मनः स्वस्योपरि निष्प्रत्याशो निराश एवाहमपृच्छमप्रश्नयम् । हे
भद्र, कस्त्वम् । किमर्थं किंप्रयोजनं वाहं बद्धोऽस्मि । यद्यामिषतृष्णया मांसलिप्सया तत्तस्माद्धेतोः सुप्त एव निद्रां
गत एव किमिति न व्यापादितो न हतोऽस्मि । किं बन्धदुःखमनुभावितेन प्रापितेन मया निरागसा निरपरा-
धिना। अथ केवलमेव कौतुकादाश्चर्यादिति चेत्कृतं कौतुकं विहितं कुतूहलम् । 'कौतूहलं कौतुकं च कुतुकं च कुतू-
हलम्' इत्यमरः । भद्रमुखः कल्याण- कृद्वदनस्त्वमिदानीं सांप्रतं मां मुञ्च त्यज । वल्लभजने प्रणयिनि जन उत्क-
ण्ठितेन मयोत्केन मया वैशम्पायनेन दूरं दविष्ठं गन्तव्यं गमनीयं चलनीयम् । मम हृदयं चेतो मानसमका-
लक्षेपक्षमं कालविलम्बे समर्थन वर्तते । भवानपि प्राणिधर्म एव वर्तते मनुष्योऽसीति तद्धर्मान्वेत्सि । एक-
मुक्तः कथितो मामित्युक्त- वान्भणितवान् ।
 

 
टिप्प० -

 
[^
1]F. पापस्येत्युचितम् ।
[^
2]F. अविचार एवायम् । आश्रयमित्येव पाठः ।
[^3]F.
अनुरूपं स्वरूप
मिति नवीनम् । अस्तु. 'अदृष्टा- श्रुतानुभूतमपि आकारप्रत्ययादेवानुमीय मानक्रौर्यदोषम् इत्येव पाठः ।
न दृष्टं न श्रुतं न अनुभूतमपि, इति तदर्थः ।
 
पाठा० -

 
[^
]G. आश्रयम्.
[^
]G. भ्रुकुटी.
[^
]G. आरक्तके करतल; रक्ततर.
[^
]G. चक्षुषा च .
[^
]G. अदृष्टश्रुतानुरूपम् अदृष्ट-
श्रुतानुभूतम्.
[^
च. ]G. च.
[^
]G. अनुभावितेनापि .
[^
]G. जनदर्शन.
[^९]G.
मद्धृदयम्.
[^
१०]G. प्राणिधर्मे प्रवर्तते; प्राणिधर्मेषु वर्तत
एषेति, .
[^
११]G. स त्वेवमुक्तः.
[^
१२ प्रत्य]G. प्रत्ववादीत्.