कादम्बरी /720
This page has not been fully proofread.
वृक्षे निद्रितस्य तस्य चण्डालहस्ते गमनम् ] उत्तरभागः ।
9
,
,
विरहितमिव कालपुरुषम् अतिकठिनतया कालिन्ना चं वपुषः कालायसपरमाणुभिरिव
केवलैर्निर्मितम्, प्रेतपतिमिवापरम् प्रतिपक्षमिव पुण्यराशेः आशयमिव पाप्मनः,
विनापि क्रोधकारणादाब द्वभीषणभृकुटिरौद्र
तरेणाननेना रक्तके करतरकनीनिकेन र्चे चक्षुषा
सकलजनभयंकरस्य भगवतः कृतान्तस्यापि भयमिवोपजनयन्तम्, आशये केशेषु चास्निग्धम्,
आनने ज्ञाने चान्धकारितम्, वर्णे चरिते च कृष्णम्, निवसने कर्मणि च मलिनम्, वचसि
वपुषि च परुषम्, अदृष्टाश्रुतानुरूपमध्याकार प्रत्ययादेवानुमीयमानक्रौर्यदोषं पुरुषमद्राक्षम् ।
आलोक्य च तं तादृशमात्मन उपरि निष्प्रत्याश एवापृच्छम् - 'भद्र कस्त्वम् ? किमर्थ
वा त्वया बद्धोऽस्मि । यद्यामिषतृष्णया, तत्किमिति सुप्त एव न व्यापादितोऽस्मि । किं
मया निरागसा बन्धदुःखमनुभावितेन । अथ केवलमेव कौतुकात् । ततः कृतं कौतुकम् ।
मुत्र मामिदानीं त्वं भद्रमुखः । मया खलु वल्लभजनोत्कण्ठितेन दूरं गन्तव्यम् । अकाल-
क्षेपक्षमं वर्तते मे हृदयम् । भवानपि प्रणिधर्मे वर्तते' एवमुक्तः स मामुक्तवान्-
६८७
तश्च पाशविरहितं कालपुरुषमिव यममिवातिकठिनतयातिकठोरतया वपुषो देहस्य कालिन्ना कृष्णत्वेन च केवलैः
कालायसपरमाणुभिर्लोहाणुभिरिव निर्मितं रचितमपरं प्रेतपतिं यममिव पुण्यराशेः सुकृतसङ्घातस्य प्रतिपक्षमिवा
सहनमिव पाप्मनः पापिष्ठस्याशयमिवाभिप्रायमिव । क्रोधकारणाद्विनापि मन्युहेतुं विनाप्याबद्धा या भीषणा
भैरवा भृकुटयस्ताभी रौद्रतरेण भीषणतरेणाननेन मुखेनारक्ता लोहिता केकरतरा अतिवका कनीनिका यस्यैवं-
भूतेन च चक्षुषा नयनेन कृत्वा सकलजनभयंकरस्य भगवतः कृतान्तस्यापि भयमिव भीतिमिवोपजनयन्तमुत्पा-
दयन्तं निष्पादयन्तम्, आशयेऽभिप्राये केशेषु चालकेषु चास्निग्धं रूक्षमानने मुखे ज्ञाने चावबोधे चान्धकारितं
प्राप्तान्धकारम्, वर्णे देहगुणे चरित आचरणे च कृष्णं श्यामम्, निवसने वस्त्रे कर्मणि क्रियायां च मलिनं
करमलम्, वचसि वाचि वपुषि शरीरे च परुषं कठिनम् अदृष्टश्रुतमनुरूपं स्वैरूपं यस्यैवंभूतमप्याफार प्रत्यया
दाकृतेर्ज्ञानादेवानुमीयमान मनुमानेन ज्ञायमानं क्रौर्यदोषं क्रूरतादूषणं यस्य स तमेवंविधं पुरुषं नरमद्राक्षं व्यलो-
कयम् । आलोक्य च निरीक्ष्य च तं तादृशमात्मनः स्वस्योपरि निष्प्रत्याशो निराश एवाहमपृच्छमप्रश्नयम् । हे
भद्र, कस्त्वम् । किमर्थं किंप्रयोजनं वाहं बद्धोऽस्मि । यद्यामिषतृष्णया मांसलिप्सया तत्तस्माद्धेतोः सुप्त एव निद्रां
गत एव किमिति न व्यापादितो न हतोऽस्मि । किं बन्धदुःखमनुभावितेन प्रापितेन मया निरागसा निरपरा-
धिना। अथ केवलमेव कौतुकादाश्चर्यादिति चेत्कृतं कौतुकं विहितं कुतूहलम् । 'कौतूहलं कौतुकं च कुतुकं च कुतू-
हलम्' इत्यमरः । भद्रमुखः कल्याणकृद्वदनस्त्वमिदानीं सांप्रतं मां मुञ्च त्यज । वल्लभजने प्रणयिनि जन उत्क-
ण्ठितेन मयोत्केन मया वैशम्पायनेन दूरं दविष्ठं गन्तव्यं गमनीयं चलनीयम् । मम हृदयं चेतो मानसमका-
लक्षेपक्षमं कालविलम्बे समर्थन वर्तते । भवानपि प्राणिधर्म एव वर्तते मनुष्योऽसीति तद्धर्मान्वेत्सि । एक-
मुक्तः कथितो मामित्युक्तवान्भणितवान् ।
€
टिप्प० -1 पापस्येत्युचितम् । 2 अविचार एवायम् । आश्रयमित्येव पाठः । अनुरूपं स्वरूप
मिति नवीनम् । अस्तु. 'अश्रुतानुभूतमपि आकारप्रत्ययादेवानुमीय मानक्रौर्यदोषम् इत्येव पाठः ।
न दृष्टं न श्रुतं न अनुभूतमपि, इति तदर्थः ।
पाठा० - १ आश्रयम्. २ भ्रुकुटी. ३ आरक्तके करतल; रक्ततर. ४ चक्षुषा च ५ अदृष्टश्रुतानुरूपम् अदृष्ट-
श्रुनुभूतम्. ६ च. ७ अनुभावितेनापि ८ जनदर्शन. ३ मद्धृदयम्. १० प्राणिधर्मे प्रवर्तते; प्राणिधषु वर्तत
एषेति, ११ स त्वेवमुक्तः• १२ प्रत्यवादीत्.