कादम्बरी /72
This page has been fully proofread once and needs a second look.
लेन सबहुमानमवनिपतिना पृष्टो मुहूर्तमिव ध्यात्वा सादरमब्रवीत् - 'देव, महतीयं कथा । यदि कौ [^१]तुकमाकर्ण्यताम्-
अस्ति पूर्वापरजलनिधि [^२]वेलावनलग्ना मध्यदेशालंकारभूता मेखलेव भुवः, वनकरिकुलमदजलसेकसंवर्धिरतिविकच धव- लकुसुमनिकरमत्युच्चतया [^३]तारकागणमिव [^४]शिखरप्रदेश- संलग्नमुद्वहद्भिः पादपैरुपशोभिता, मदकलकुररकुलदश्यमान- मरिचपल्लवा, करिकलभकरमृदिततमालकिसलयामोदिनी, मधुमदोपरक्तकेरलीकपोल [^५]च्छविना संचरद्वनदेवताचरणा- लक्तकरसरञ्जितेनेव पल्लव [^६]चयेन संच्छादिता, शुककुल- दलितदाडिमीफलद्रवार्द्रीकृततलैरतिचपल [^७]कपिक-
म्पित [^८]कल्लोलच्युतपल्लवफलशबलैरनवरतनिपतित- [^९]कुसुमरेणुपांसुलैः पथिकजनरचितलवङ्गपल्ल-
[ टि ] -- तत्र बन्धनमवस्थानम् । कथं वा चाण्डालहस्तगमनम् । इहास्मिन्प्रदेशे कथं वागमनमिति । तदनन्तरं वैशम्पा
सयनः । तु पुनरर्थे । उपजातं समुत्पन्नं कुतूहलं यस्यैवंभूतेन अवनिपतिना पृथ्वीपतिना सबहुमानं सह बहुमानेना
दरेण वर्तमानं यथा स्यात्तथेति क्रियाविशेषणम् । स्वयं नान्तरा पृष्ट आक्षिप्तः सन्प्रश्नानन्तरं मुहूर्तमिव घटिकां-
द्वयमिव ध्यात्वा ध्यानं कृत्वा सादरं आदरेण सह यथा स्यात्तथाब्रवीदुवाच । तत्किम् । हे देव, यत्पृष्टं तद्विषयिणी
महती कथेयम् । यदि च किं तदिति तच्छ्रवणे कौतुकं तदाकर्ण्यतां श्रूयताम्-
अस्तीति । नामेति प्रसिद्धम् । विन्ध्याटव्यस्तीत्यन्वयः । इतोऽटवीं विशेषयन्नाह - पूर्वेति । पूर्वश्चापरश्च
पूर्वापरौ यौ जलनिधी समुद्रौ तयोर्यद्वेलावनं तटकाननं तावत्पर्यन्तं लग्ना संबद्धा । मध्येति । सह्यहिमालययोर्मध्यं
मध्यदेशस्तस्यालंकारभूता । भूषणरूपेत्यर्थः । अत एव मध्यभूषणरूपत्वाद्भुवः पृथिव्या मेखलेव काञ्चीव । पादपै -
र्वृक्षैरुपशोभिता द्योतमाना । अथ पादपान्विशेषयन्नाह - वनेति । वने कानने करिणो गजास्तेषां कुलानि यूथानि
तेषां मदजलस्य दानवारिणः सेकः [^1]सिञ्चनं तेन सम्यग्वर्धिता वृद्धिं प्राप्तास्तैः । अतीति । अतिविकचान्यत्यन्तं
विकसितानि यानि धवलानि शुभ्राणि कुसुमानि पुष्पाणि तेषां निकरः समूहस्तम् । कीदृशम् । अत्यन्तमुच्चतया
शिखरप्रदेशः प्रान्तदेशस्तत्र संलग्नमत एवोच्चत्वाच्छुभ्रत्वाच्च तारकाणां गणमिव नक्षत्राणां समूहमि- वोद्वहद्भिर्धार -
यद्भिः । पुनरटवीं विशिनष्टि - मदेति । मदेन कला मनोज्ञा ये कुररा मत्स्यनाशनास्तेषां कुलानि तैर्दश्यमाना
आखास्वाद्यमाना मरिचवृक्षस्य पल्लवा यस्यां सा । करीति । करिणां गजानां कलभास्त्रिंशदब्दकास्तेषां कराः शुण्डा-
दण्डास्तैर्मृदितानि मर्दितानि यानि तमालवृक्षस्य किसलयानि तेषामामोदः परिमलो विद्यते यस्यां सा । मध्विति ।
मधु कापिशायनं तस्य यो मद आवेशस्तेनोपरक्ता लोहितैषंभूता या केरली केरलदेशोद्भवा स्त्री तस्याः कपोली
गल्लापरप्रदेशौ तयोश्छविरिव छविर्यस्य स तेन । केरलदेशोद्भवा स्त्री स्वभावतो रक्तवर्णा कोमलाङ्गी, मधुमदात्तु
विशेषतो रक्तेति भावः । केनेव । संचरन्त्य इतस्ततो गच्छन्त्यो या वनदेवता अरण्याधिष्ठात्र्यस्तासां चरणानां
योऽलक्तकरसो यावकद्रवस्तेन रञ्जितेनेव रक्तीकृतेनेव पल्लवानां किसलयानां चयेन समूहेन संच्छादिताच्छादिता ।
विराजितेति । लता वल्लल्यस्तासां मण्डपैर्जनाश्रयैर्विराजितोपशोभमाना । अथ मण्डपान्विशेषयन्नाह – शुकेति ।
शुककुलैर्दलितानि विदारितानि यानि दाडिमीफलानि तेषां द्रवो रसस्तेनार्द्रीकृतमार्द्रतामुपनीतं तलं मध्यभागो येषां
ते तथा तैः । अतीति । अतिचपला अत्यन्तं चञ्चला ये कपयो गोलाङ्गूलास्तैः कम्पिता धूनिता ये कक्कोलाः
कोश- फलवृक्षास्तेभ्यश्च्युतैः पतितैः पल्लवफलैः शबलाः कर्बुरास्तैः । अनवरतेति । अनवरतं निरन्तरं निपतितानि
यानि कुसुमानि पुष्पाणि तेषां रेणवः परागधूलयस्तैः पांसुलाः सरजस्कास्तैः । पथिकेति । पथिकजनैः
टिप्प०-[^1]F. सेचनमित्यर्थः ।
पाठा०
-
१ कौतूहलम्.
२ वेलावलालग्ना.
३ तारांगणम् .
४बेदेशलभ, ग्न.
५ कोमलच्छविना.
६ प्रचयेन.
७ कपिकुल.
८ कङ्कोल; कम्पिल्ल.
९ धूलीलतावनडद्धकुसुम.
अस्ति पूर्वापरजलनिधि [^२]वेलावनलग्ना मध्यदेशालंकारभूता मेखलेव भुवः, वनकरिकुलमदजलसेकसंवर्धिरतिविकच धव- लकुसुमनिकरमत्युच्चतया [^३]तारकागणमिव [^४]शिखरप्रदेश- संलग्नमुद्वहद्भिः पादपैरुपशोभिता, मदकलकुररकुलदश्यमान- मरिचपल्लवा, करिकलभकरमृदिततमालकिसलयामोदिनी, मधुमदोपरक्तकेरलीकपोल [^५]च्छविना संचरद्वनदेवताचरणा- लक्तकरसरञ्जितेनेव पल्लव [^६]चयेन संच्छादिता, शुककुल- दलितदाडिमीफलद्रवार्द्रीकृततलैरतिचपल [^७]कपिक-
म्पित [^८]कल्लोलच्युतपल्लवफलशबलैरनवरतनिपतित- [^९]कुसुमरेणुपांसुलैः पथिकजनरचितलवङ्गपल्ल-
[ टि ] -- तत्र बन्धनमवस्थानम् । कथं वा चाण्डालहस्तगमनम् । इहास्मिन्प्रदेशे कथं वागमनमिति । तदनन्तरं वैशम्पा
स
अस्तीति । नामेति प्रसिद्धम् । विन्ध्याटव्यस्तीत्यन्वयः । इतोऽटवीं विशेषयन्नाह - पूर्वेति । पूर्वश्चापरश्च
तेषां मदजलस्य दानवारिणः सेकः [^1]सिञ्चनं तेन सम्यग्वर्धिता वृद्धिं प्राप्तास्तैः । अतीति । अतिविकचान्यत्यन्तं
आ
विशेषतो रक्तेति भावः । केनेव । संचरन्त्य इतस्ततो गच्छन्त्यो या वनदेवता अरण्याधिष्ठात्र्यस्तासां चरणानां
-
१ कौतूहलम्.
२ वेलाव
३ तारांगणम्
४
५ कोमलच्छविना.
६ प्रचयेन.
७ कपिकुल.
८ कङ्कोल; कम्पिल्ल.
९ धूलीलतावन