This page has not been fully proofread.

विन्ध्याटवी ]
 
पूर्वभागः ।
 
३९
 
लेन सबहुमानमवनिपतिना पृष्टो मुहूर्तमिव ध्यात्वा सादरमब्रवीत् - 'देव, महतीयं कथा ।
यदि कौतुकमाकर्ण्यताम्-
अस्ति पूर्वापरजलनिधिवेलावनलमा मध्यदेशालंकारभूता मेखलेव भुवः, वनकरिकुलम-
जलतविकच धषलकुसुमनि कर मत्युवतया तारकागणमिव शिखैरप्रदेशसंलग्न-
मुद्रहद्भिः पादपैरुपशोभिता, मंदकलकुररकुलदश्यमानमरिचपल्लवा, करिकलभकरमृदित-
तमालकिसलयामोदिनी, मधुमदोपरक्तकेरलीकपोलच्छविना संचरद्वनदेवताचरणालक्तकरस
रजितेनेव पल्लवचयेन संच्छादिता, शुककुलदलितदाडिमीफलद्रवाकृततलैर तिचपलकैपिक-
म्पितर्कक्कोलच्युत पल्लव फलशबलैरनवरत निपतितकुसुम
रेणुपांसुलैः पथिकजनरचितलवङ्गपल्ल-
तॆत्र बन्धनमवस्थानम् । कथं वा चाण्डालहस्तगमनम् । इहास्मिन्प्रदेशे कथं वागमनमिति । तदनन्तरं वैशम्पा
सनः । तु पुनरर्थे । उपजातं समुत्पन्नं कुतूहलं यस्यैवंभूतेन अवनिपतिना पृथ्वीपतिना सबहुमानं सह बहुमानेना
दरेण वर्तमानं यथा स्यात्तथेति क्रियाविशेषणम् । स्वयं नान्तरा पृष्ट आक्षिप्तः सन्प्रश्नानन्तरं मुहूर्तमिव घटिकां-
द्वयमिव ध्यात्वा ध्यानं कृत्वा सादरं आदरेण सह यथा स्यात्तथाब्रवीदुवाच । तत्किम् । हे देव, यत्पृष्टं तद्विषयिणी
महती कथेयम् । यदि च किं तदिति तच्छ्रवणे कौतुकं तदाकर्ण्यतां श्रूयताम्-

 
अस्तीति । नामेति प्रसिद्धम् । विन्ध्याटव्यस्तीत्यन्वयः । इतोऽटवीं विशेषयन्नाह - पूर्वेति । पूर्वश्चापरश्च
पूर्वापरौ यौ जलनिधी समुद्रौ तयोर्यद्वेलावनं तटकाननं तावत्पर्यन्तं लग्ना संबद्धा । मध्येति । सह्यहिमालययोर्मध्यं
मध्यदेशस्तस्यालंकारभूता । भूषणरूपेत्यर्थः । अत एव मध्यभूषणरूपत्वाद्भुवः पृथिव्या मेखलेव काञ्चीव । पादपै -
वृक्षैरुपशोभिता योतमाना । अथ पादपान्विशेषयन्नाह - वनेति । वने कानने करिणो गजास्तेषां कुलानि यूथानि
तेषां मदजलस्य दानवारिणः सेकः सिञ्चनं तेन सम्यग्वर्धिता वृद्धिं प्राप्तास्तैः । अतीति । अतिविकचान्यत्यन्तं
विकसितानि यानि धवलानि शुभ्राणि कुसुमानि पुष्पाणि तेषां निकरः समूहस्तम् । कीदृशम् । अत्यन्तमुच्चतया
शिखरप्रदेशः प्रान्तदेशस्तत्र संलग्नमत एवोच्चत्वाच्छुभ्रत्वाच्च तारकाणां गणमिव नक्षत्राणां समूहमिवोद्वहद्भिर्धार -
यद्भिः । पुनरटवीं विशिनष्टि - मदेति । मदेन कला मनोज्ञा ये कुररा मत्स्यनाशनास्तेषां कुलानि तैर्दश्यमाना
आखाद्यमाना मरिचक्षस्य पल्लवा यस्यां सा । करीति । करिणां गजानां कलभास्त्रिंशदब्दकास्तेषां कराः शुण्डा-
दण्डास्तैर्मृदितानि मर्दितानि यानि तमालवृक्षस्य किसलयानि तेषामामोदः परिमलो विद्यते यस्यां सा । मध्विति ।
मधु कापिशायनं तस्य यो मद आवेशस्तेनोपरक्ता लोहितैषंभूता या केरली केरलदेशोद्भवा स्त्री तस्याः कपोली
गल्लापरप्रदेशौ तयोश्छविरिव छविर्यस्य स तेन । केरलदेशोद्भवा स्त्री स्वभावतो रक्तवर्णा कोमलाङ्गी, मधुमदात्तु
विशेषतो रक्तेति भावः । केनेव । संचरन्त्य इतस्ततो गच्छन्त्यो या वनदेवता अरण्याधिष्ठात्र्यस्तासां चरणानां
योऽलक्तकरसो यावकद्रवस्तेन रञ्जितेनेव रक्तीकृतेनेव पलवानां किसलयानां चयेन समूहेन संच्छादिताच्छादिता ।
विराजितेति । लता वल्लयस्तासां मण्डपैर्जनाश्रयैर्विराजितोपशोभमाना । अथ मण्डपान्विशेषयन्नाह – शुकेति ।
शुककुलैर्दलितानि विदारितानि यानि दाडिमीफलानि तेषां द्रवो रसस्तेनाकृतमार्द्रतामुपनीतं तलं मध्यभागो येषां
ते तथा तैः । अतीति । अतिचपला अत्यन्तं चञ्चला ये कपयो गोलाङ्गूलास्तैः कम्पिता धूनिता ये ककोलाः
कोशफलवृक्षास्तेभ्यश्च्युतैः पतितैः पल्लवफलैः शबलाः कर्बुरास्तैः । अनवरतेति । अनवरतं निरन्तरं निपतितानि
यानि कुसुमानि पुष्पाणि तेषां रेणवः परागधूलयस्तैः पांसुलाः सरजस्कास्तैः । पथिकेति । पथिकजनैः
 
टिप्प०-1 सेचनमित्यर्थः ।
 
पाठा०
 
-१ कौतूहलम्. २ वेलावला. ३ तारांगणम् ४ बेशलभ, ५ कोमलच्छविना. ६ प्रचयेन. ७ कपिकुल.
८ ककोल; कम्पिल. ९ धूलीलतावनडकुसुम.