2023-11-03 11:35:51 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

६८६
 
कादम्बरी ।
 
[ कथायाम्-
वस्थञ्श्च शिथिलायमानपक्षतिरत्र पताम्यत्र पतामीति परवा[^१]परवा- नेवान्यतमस्य तमस्विनीतिमिर-
संघातस्येवार्क कर [^२]वार्ककरतिर- स्कारिणो घनहरितपल्लवभरावनम्रस्यासन्नतरस्य सरस्तीर- तरुनिकुञ्जस्यो-
पर्यात्मानममुञ्चम् । चिरादिवोन्मुक्ताध्वश्रमकु-
क्ल
मोऽवतीर्य शीतलत रुतलच्छायास्थितो दलग-
नसंरोधशिशिर- मरविन्द किंजल्करजोवाससुरभि [^३]बिसरसर्केवा [^४]कषायमापीय- मानमेवोत्पादित [^५]पुन-
रुत्कपानस्पृहमा तृप्तेः पयो [^६]निपीयें, यथाप्राप्तैरकठोर कम कमलकर्णिकाबीजैवरर्वीर [^७]तरुपर्णाङ्क- [^८]रफलैश्
कृत्वा क्षुधः प्रतीकारम् अपराह्नसमये पुनः कियन्तमध्- मप्यध्वानं यास्यामीति मनसि कृत्वा,
अध्व श्रम श्रमनिःसहान्यङ्गानि [^९]विश्रामयितुमन्यतमामविच्छिन्नच्छायां शाखामारुह्य तरोर्मूल- भाग
एवावातिष्ठम् । तथास्थितश्चान्ध्वश्रमसुलभां निदाद्रामगच्छम् ॥
 

 
चिरा [^१०]दिवं च लब्धप्रबोधो बद्धमात्मानमनुम्मोचनीयैस्तन्तु-
पाशैरपत्र्श्यम् । अग्रतश्च पाश-
J
 

 
[ टि ]--
नेनाकम्पितः प्रचलितः कण्ठो निगरणो यस्य स तादृश्य- वस्था यस्य सः । तदवस्थश्च शिथिलायमाना श्लथाय-
माना पक्षतिः पक्षमूलं यस्यैवंभूतः । 'स्त्री पक्षतिः पक्षमूलम्' इत्यमरः । अत्र पतामि अत्र पतामीति परवानेव
परायत्त एव सरस्तीरे यस्तरु- निकुञ्जस्तस्योपर्यात्मानं स्वममुञ्चं मुक्तवान् । 'निकुञ्जकुञ्जौ वा क्लीबे लतादिपिहितो-
दरे' इत्यमरः । इतो निकुञ्जं विशेषयन्नाह - अन्येति । अन्यतमस्यानिर्दिष्ट नामकस्य तमखिस्विनी यामिनी तस्या-

स्तिमिरसंघातस्येव ध्वान्तसमूहस्येवार्ककर तिरस्कारिणो रविकिरणन्यक्कृतिविधायिनो घनो निबिडो हरितो नीलो

यः पल्लवभरः किसलयसंभारस्तेनावनम्रस्यांवनतस्यासन्नतरयावनतस्यासन्नतर-
स्यातिसमीपवर्तिनोऽतिनिकटवर्तिनः । चिरादिव चिर-
कालेन बहुवर्षे दिवसेनोन्मुक्तो गतः अध्वश्रमक्लमः प्रवासखेदो यस्य सोऽवतीर्यावरोहणं कृत्वा शीतला
शिशिरा या तरोश्छाया आतपाभवस्तस्यां स्थितः कृतावस्थानः । 'छाया सूर्यप्रिया कान्तिः प्रतिबिम्बमनातपः'
इत्यमरः । दलैः पत्रैर्गहनं निबिडम् । अर्था-
[^2]द्व
नान्तरस्य संरोधेनावरणेन शिशिरं शीतलम् अरविन्दं कमलं तस्य
किंजल्कं केसरं तस्य रजः परागस्तस्य वासो गन्धस्तेन सुरभि सुगन्धं बिसरसेन तन्तुलमधुना कषायं तुवर-
रसम् । 'तुवरस्तु कषायोऽस्त्री' इत्यमरः । आपीयमानमेवा स्वाद्यमानमेवोत्पादिता पुनरुत्कै [^3]त्कयोत्कण्ठयां पानस्पृहा
वाञ्छा येन तत् । यद्वानुत्पा- दिता पुनः पानस्पृहा वाञ्छा येन तदित्यर्थः । आ तृप्तेः सौहित्य- पर्यन्तं पयो जलं
निपीय पानं कृत्वा जलं पीत्वा, यथाप्राप्तैर्यथा लब्धैरकठोरा सुकुमाराऽकठिना या कमलकर्णिका वराटकस्तस्या

बीजैः फलैर्वीरतरुररुष्करः । 'वीरवृक्षोऽरुष्करोऽग्निमुखी भल्ला- तकी त्रिषु' इत्यमरः । तस्य पर्णानि पत्राण्यङ्कुराः
प्ररोहा नवाङ्कुराः फलानि सस्यानि च तैः क्षुधो बुभुक्षायाः प्रतीकारं तत्प्रशमनोपायं कृत्वा विधायापराह्नसमये
तृतीयप्रहरे पुनः कियन्तमप्यध्वानं मार्गं यास्यामि गमिष्यामीति मनसि कृत्वेति चित्ते विचिन्त्य विचारयित्वा-
ध्वश्रमेण मार्गखेदेन निःसहान्यशक्तान्य- समर्थान्यङ्गानि विश्रामयितुं विश्रामं कारयितुमन्यतमामन्यतरा- मविच्छि-
न्नात्रुटिता छाया यस्यां निरन्तरा छाया यस्यामेतादृशीं शाखामारुह्यारोहणं कृत्वा तरोर्मूलभाग एवावाति [^4]ष्ठैमुपा-

विशम् । तथास्थितश्च तथावस्थश्चाध्वश्रमेण मार्गखेदेन सुलभां सुप्रापां निद्रां प्रमीलाम गच्छमप्रापम् ।
 

 
चिरादिव च चिरकालसदृशमिव बहुकालसदृशमिव । अत्रेवशब्दः सदृशार्थे । लब्धः प्रातः प्रबोधो जागरो
येन सोऽनुन्मोचनीयै- रुन्मोचयितु मशक्यैस्तन्तुपाशैरात्मानं स्वं बद्धं संयमितमपश्यं व्यलोक्यम् । अग्रतश्च पुर
 
टिप्प० -

 
 
[^
1]F. प्रलाप एव ।
[^
2]F. न जाने किं वक्ति । दलगहन ( निबिड ) तया यः सूर्यरश्मीनां संरो-
धस्तेन शिशिरम्, इति स्पष्टोर्थ: ।
[^
3]F. उत्कण्ठापर्याय उत्काशब्दो न प्रसिद्ध: ( उत्कण्ठिता- पर्यायोस्ति )
तस्मात् 'पुनरुक्त पानस्पृहम् ' ( पुनरुक्ता द्विरावृत्ता
( अधिका) पानस्पृहा येन ) इति पाठः ।
[^
4]F. अतिष्ठ-
मित्येव ग्रन्थपाठः । 'अव' पूर्वकत्वे तु आत्मनेपदं स्यात् ।
 
पाठा० -

 
[^
]G. पतन्नेवाहितगमनप्रयत्नः .
[^
]G. दृष्टिहारिणां हरितघननिबिडपल्लवभरावनम्रासन्नतरस्य सरस्तीरजम्बूनिकु
ञ्जस्य.
[^
]G. निबिड, .
[^
]G. कषायमधुरम् .
[^
]G. अपुनरुक्त,
[^
]G. निपीयमानप्राप्तै:.
[^
]G. तीरतरु.
[^
]G. अङ्कुरपत्रैश्च; अङ्कुरैः फलैश्च.

[^
]G. विश्रमयितुम् .
[^
१०]G. इव.