कादम्बरी /719
This page has not been fully proofread.
६८६
कादम्बरी ।
[ कथायाम्-
वस्थञ्च शिथिलायमानपक्षतिरत्र पताम्यत्र पतामीति परवानेवान्यतमस्य तमस्विनीतिमिर-
संघातस्येवार्क कर तिरस्कारिणो घनहरितपल्लवभरावनम्रस्यासन्नतरस्य सरस्तीरतरुनिकुञ्जस्यो-
पर्यात्मानममुखम् । चिरादिवोन्मुक्ताध्वश्रमकुमोऽवतीर्य शीतलत रुतलच्छायास्थितो दलग-
इनसंरोधशिशिरमरविन्द किंजल्करजोवाससुरभि बिसरसर्केवायमापीयमानमेवोत्पादितपुन-
रुत्कपानस्पृहमा तृप्तेः पयो निपीयें, यथाप्राप्तैरकठोर कम लकर्णिकाबीजैवरतरुपर्णाङ्कर फलैच
कृत्वा क्षुधः प्रतीकारम् अपराह्नसमये पुनः कियन्तमध्यध्वानं यास्यामीति मनसि कृत्वा,
अध्व श्रम निःसहान्यङ्गानि विश्रामयितुमन्यतमामविच्छिन्नच्छायां शाखामारुह्य तरोर्मूलभाग
एवावातिष्ठम् । तथास्थितश्चान्वश्रमसुलभां निदामगच्छम् ॥
चिरादिवं च लब्धप्रबोधो बद्धमात्मानमनुम्मोचनीयैस्तन्तुपाशैरपत्र्यम् । अभतश्च पाश-
J
नेनाकम्पितः प्रचलितः कण्ठो निगरणो यस्य स तादृश्यवस्था यस्य सः । तदवस्थश्च शिथिलायमाना लथाय-
माना पक्षतिः पक्षमूलं यस्यैवंभूतः । 'स्त्री पक्षतिः पक्षमूलम्' इत्यमरः । अत्र पतामि अत्र पतामीति परवानेव
परायत्त एव सरस्तीरे यस्तरुनिकुञ्जस्तस्योपर्यात्मानं स्वममुञ्चं मुक्तवान् । 'निकुञ्जकुञ्जौ वा क्लीबे लतादिपिहितो-
दरे' इत्यमरः । इतो निकुञ्ज विशेषयन्नाह - अन्येति । अन्यतमस्यानिर्दिष्ट नामकस्य तमखिनी यामिनी तस्या-
स्तिमिरसंघातस्येव ध्वान्तसमूहस्येवार्ककर तिरस्कारिणो रविकिरणन्यकृतिविधायिनो घनो निबिडो हरितो नीलो
यः पल्लवभरः किसलयसंभारस्तेनावनम्रस्यांवनतस्यासन्नतरस्यातिसमीपवर्तिनोऽतिनिकटवर्तिनः । चिरादिव चिर-
कालेन बहुवर्षे दिवसेनोन्मुक्तो गतः अध्वश्रमक्लमः प्रवासखेदो यस्य सोऽवतीर्यावरोहणं कृत्वा शीतला
शिशिरा या तरोश्छाया आतपाभवस्तस्यां स्थितः कृतावस्थानः । 'छाया सूर्यप्रिया कान्तिः प्रतिबिम्बमनातपः'
इत्यमरः । दलैः पत्रैर्गहनं निबिडम् । अर्थानान्तरस्य संरोधेनावरणेन शिशिरं शीतलम् अरविन्दं कमलं तस्य
किंजल्कं केसरं तस्य रजः परागस्तस्य वासो गन्धस्तेन सुरभि सुगन्धं बिसरसेन तन्तुलमधुना कषायं तुवर-
रसम् । 'तुवरस्तु कषायोऽस्त्री' इत्यमरः । आपीयमानमेवा स्वाद्यमानमेवोत्पादिता पुनरुत्कैयोत्कण्ठयां पानस्पृहा
वाञ्छा येन तत् । यद्वानुत्पादिता पुनः पानस्पृहा वाञ्छा येन तदित्यर्थः । आ तृप्तेः सौहित्यपर्यन्तं पयो जलं
निपीय पानं कृत्वा जलं पीत्वा, यथाप्राप्तैर्यथा लब्धैरकठोरा सुकुमाराऽकठिना या कमलकर्णिका वराटकस्तस्या
बीजैः फलैवरतरुररुष्करः । 'वीरवृक्षोऽरुष्करोऽग्निमुखी भल्लातकी त्रिषु' इत्यमरः । तस्य पर्णानि पत्राण्यङ्कुराः
प्ररोहा नवाङ्कुराः फलानि सस्यानि च तैः क्षुधो बुभुक्षायाः प्रतीकारं तत्प्रशमनोपायं कृत्वा विधायापराह्नसमये
तृतीयप्रहरे पुनः कियन्तमप्यध्वानं मार्ग यास्यामि गमिष्यामीति मनसि कृत्वेति चित्ते विचिन्त्य विचारयित्वा-
ध्वश्रमेण मार्गखेदेन निःसहान्यशक्तान्य समर्थान्यङ्गानि विश्रामयितुं विश्राम कारयितुमन्यतमामन्यतरामविच्छि-
न्नात्रुटिता छाया यस्यां निरन्तरा छाया यस्यामेतादृशीं शाखामारुह्यारोहणं कृत्वा तरोर्मूलभाग एवावातिष्ठैमुपा-
विशम् । तथास्थितश्च तथावस्थश्चाध्वश्रमेण मार्गखेदेन सुलभां सुप्रापां निद्रां प्रमीलाम गच्छमप्रापम् ।
चिरादिव च चिरकालसदृशमिव बहुकालसदृशमिव । अत्रेवशब्दः सदृशार्थे । लब्धः प्रातः प्रबोधो जागरो
येन सोऽनुन्मोचनीयैरुन्मोचयितु मशक्यैस्तन्तुपाशैरात्मानं स्वं बद्धं संयमितमपश्यं व्यलोक्यम् । अग्रतश्च पुर
टिप्प० - 1 प्रलाप एव । 2 न जाने किं वक्ति । दलगहन ( निबिड ) तया यः सूर्यरश्मीनां संरो-
धस्तेन शिशिरम्, इति स्पष्टोर्थ: । 3 उत्कण्ठापर्याय उत्काशब्दो न प्रसिद्ध: ( उत्कण्ठितापर्यायोस्ति )
तस्मात् 'पुनरुक्त पानस्पृहम् ' ( पुनरुक्ता द्विरावृत्ता ( अधिका) पानस्पृहा येन ) इति पाठः । 4 अतिष्ठ-
मित्येव ग्रन्थपाठः । 'अव' पूर्वकत्वे तु आत्मनेपदं स्यात् ।
पाठा० - १ पतन्नेवाहितगमनप्रयत्नः २ दृष्टिहारिणां हरितघननिबिडपल्लवभरावनम्रासन्नतरस्य सरस्तीरजम्बूनिकु
अस्य. ३ निबिड, ४ कषायमधुरम् ५ अपुनरुक्त, ६ निपीयमानप्राप्तै: • ७ तीरतरु० ८ अङ्कुरपत्रैश्च; अङ्कुरैः फलैश्च.
९ विश्रमयितुम् १० इव.