कादम्बरी /718
This page has been fully proofread once and needs a second look.
च, अनुभूतास्मदालिङ्गनसुखो विस्मयोन्मुखेन मुनिकुमारकजनेने- क्ष्यमाणोऽन्तरिक्षमतिक्रम्य [^१]क्वाप्यदर्शनमगात् । गते च तस्मिन्हारीतः समाश्वास्य मां शारीरस्थितिकरणायोदतिष्ठत् ।
उत्थाय [^२]चान्यं मुनिकुमारकं मत्पार्श्वे स्थापयित्वा निरगमत् । [^३]निर्वर्तितस्नानादिक्रियाकलापश्चात्मनैव सहा [^४]पराह्णसमये पुनर्मामाहारमकारयत् ।
एवं [^५]चावहितचेतसा हारीतेन संवर्ध्यमानः कतिपयैरेव दिवसैः संजातपक्षोऽभवम् । उत्पन्नोत्पतनसामर्थ्यश्च चेतस्यकरवम् – 'गमनक्षमस्तु संवृत्तोऽस्मि, तत्र [^६]नाम चन्द्रापीडोत्पत्तिपरिज्ञानम् । महाश्वेता पुनः सैवास्ते । तत्किमुत्पन्नज्ञानोऽपि तद्दर्शनेन विनात्मानं निमेषमपि [^७]दु:खं स्थापयामि । भवतु । तत्रैव गत्वा तिष्ठामि' इति निश्चित्यैकदा प्रातर्विहारनिर्गत एवोत्तरां ककुभं गृहीत्वावहम् । अबहुदिवसाभ्यस्तगमनतया स्तोकमेव गत्वावशीर्यन्त इव मेऽङ्गानि श्रमेण । [^८]शुष्य [^९]च्चञ्चुपुटः पिपासया, नाडिंधमे [^१०]नाकम्पितकण्ठः श्वासेन, तद -
[ टि ]-- धाय नियुज्य चानुभूतं मदालिङ्गनसुखं येनवंभूतो विस्मयोन्मुखेन कौतुकोर्ध्वीकृताननेन मुनिकुमारकजनेन ताप -
सशिशुजनेनेक्ष्यमाणो विलोक्यमानोऽन्तरिक्षमाकाशमति- क्रम्योल्लङ्घ्य काप्यदर्शनमनवलोकनमगाद्ययौ । गते च
तस्मिन्कपिञ्जले हारीतो मां समाश्वास्याश्वासनां दत्त्वा शारीर- स्थितिकरणाय स्नानादिकृत उदतिष्ठदुत्थितो बभूव । उत्थाय चान्यं मुनिकुमारकं तापसकुमारकं मत्पार्श्वे मदभ्यर्णे मत्समीपे स्थापयित्वा संन्यस्य निरगमन्निर्ययो निर्जगाम । निर्वर्तितो विहितः स्नानादिकायाः क्रियायाः कलापः समुदायो येन सोऽपराह्नसमये तृतीयप्रहरे पुनरात्मनैव सह स्वेनैव समं मामाहारमशनमकारय- व्द्यधापयत् ।
एवं चावहितचेतसा सावधानचित्तेन हारीतेन संवर्ध्यमानो वृद्धिं प्राप्यमाणः कतिपयैः कियद्भिरेव दिवसैः संजातौ सुनिष्पन्नौ पक्षौ वाजौ यस्यैवंभूतोऽभवमजनिषम् । 'पक्षो गरुच्छदश्चापि पिच्छं वाजस्तनूरुहम्' इति हैमः । उत्पन्नं संजातमुत्पतनस्योड्डयनस्य सामर्थ्यं बलं यस्मै एवंविधश्च चेतसीत्यकरवमरचयम् । गमने चलने
क्षमः समर्थस्त्वहं संवृत्तो निष्पन्नोऽस्मि । नामेति कोमलामन्त्रणे । चन्द्रापीडस्योत्पत्तिर्जन्म तस्य परि [^1]ज्ञानमवबोधः। चन्द्रा- पीडोत्पत्तिपरिज्ञानं तु जातमेवास्तीत्यर्थः । महाश्वेता च पुनः सैवास्ते विद्यते । तत्तस्मात्कारणादुत्पन्नज्ञानोऽपि संजातजातिस्मरणोऽपि तस्या दर्शनेनावलोकनेन विनात्मानं किं किमर्थं निमेषमप्यक्षि- स्पन्दमात्रमपि दुःखं स्थापयामि । भवतु जायताम् । तत्रैवा- च्छोदोपान्ते गत्वा तिष्ठाम्यवस्थानं करोमीति निश्चित्य निर्णयं कृत्वैकदैकस्मिन्समये प्राप्तः प्रभाते विहारार्थं यात्रार्थं निर्गत एवोत्तरामुदीचीं ककुभं दिशं गृहीत्वावहमचलम् । अबहुदिवसैः स्तोकदिनैरभ्यस्तं प्रारब्धं गमनं येन स तस्य भावस्तत्ता तया, स्तोकमेव स्वल्पमेव गत्वा मे ममाङ्गानि हस्तपादादीनि श्रमेण प्रयासेनावशीर्यन्त इव स्फुट्यन्त इव । पिपासयोदन्यया शुष्यञ्शोषं प्राप्नुवचञ्चपुटं त्रोटपुटं [^2]यस्य सः । 'चञ्चुस्त्रोटिरुभे स्त्रियौ' इत्यमरः । नाडिं धमतीति नाडिंधम एवंविधेन श्वासेन श्वस-
[^1]F. तत्र नाम चन्द्रापीडोत्पत्तिपरिज्ञानम् ? किमयेग्रे विवक्षितम् ? ( उत्पत्तिपरिज्ञानं तु जात-
मेवास्तीति किमाधारादुच्यते, क्वोत्पत्तिरस्मै सूचिता ? ) तस्मादिदमपि टीकाकारपुंगवत्वमेव । 'तन्त्र न मे
चन्द्रापीडोत्पत्तिपरिज्ञानम्, ( तत्र गमनक्षमावस्थायामपि चन्द्रा- पीडोत्पत्तिपरिज्ञानं न मे जातम् ),
इत्येव पाठः ।
[^2]F. ' अवशीर्यन्त इव मेऽङ्गानि इतिरूपेण पूर्ववाक्ये यदा तत्तत्क्रियाया एव प्राधान्येन
निर्देशः प्रक्रान्तस्तर्हि अग्रेपि सोयमेव प्रक्रमो निर्वाह्यः । ततश्च - - 'अशुष्यचञ्जुपुटं पिपासया, नाडिन्धमेन
आध्मायत कण्ठः श्वासेन, ' इत्येव पाठो प्रन्थाभिमतः । टीकाका- रस्तु केवलं पर्यायशूरः क्रूरः स्वारस्ये ।
पाठा० -[^१]G. अदर्शनपथम् .
[^२]G. अन्यतमम् .
[^३ निवर्तित ]G. निवर्तित.
[^४]G. अपराह्नसमये; सायाह्नसमये.
[^५]G. आहित .
[^६]G. नाम
तावत् .
[^७]G. दुःखे.
[^८]G. अशुष्यत् .
[^९]G. चञ्चुपुटम् .
[^१०]G. अकम्पत; अध्यायत,
.
उत्थाय [^२]चान्यं मुनिकुमारकं मत्पार्श्वे स्थापयित्वा निरगमत् । [^३]निर्वर्तितस्नानादिक्रियाकलापश्चात्मनैव सहा [^४]पराह्णसमये पुनर्मामाहारमकारयत् ।
एवं [^५]चावहितचेतसा हारीतेन संवर्ध्यमानः कतिपयैरेव दिवसैः संजातपक्षोऽभवम् । उत्पन्नोत्पतनसामर्थ्यश्च चेतस्यकरवम् – 'गमनक्षमस्तु संवृत्तोऽस्मि, तत्र [^६]नाम चन्द्रापीडोत्पत्तिपरिज्ञानम् । महाश्वेता पुनः सैवास्ते । तत्किमुत्पन्नज्ञानोऽपि तद्दर्शनेन विनात्मानं निमेषमपि [^७]दु:खं स्थापयामि । भवतु । तत्रैव गत्वा तिष्ठामि' इति निश्चित्यैकदा प्रातर्विहारनिर्गत एवोत्तरां ककुभं गृहीत्वावहम् । अबहुदिवसाभ्यस्तगमनतया स्तोकमेव गत्वावशीर्यन्त इव मेऽङ्गानि श्रमेण । [^८]शुष्य [^९]च्चञ्चुपुटः पिपासया, नाडिंधमे [^१०]नाकम्पितकण्ठः श्वासेन, तद -
[ टि ]-- धाय नियुज्य चानुभूतं मदालिङ्गनसुखं येनवंभूतो विस्मयोन्मुखेन कौतुकोर्ध्वीकृताननेन मुनिकुमारकजनेन ताप -
सशिशुजनेनेक्ष्यमाणो विलोक्यमानोऽन्तरिक्षमाकाशमति- क्रम्योल्लङ्घ्य काप्यदर्शनमनवलोकनमगाद्ययौ । गते च
तस्मिन्कपिञ्जले हारीतो मां समाश्वास्याश्वासनां दत्त्वा शारीर- स्थितिकरणाय स्नानादिकृत उदतिष्ठदुत्थितो बभूव । उत्थाय चान्यं मुनिकुमारकं तापसकुमारकं मत्पार्श्वे मदभ्यर्णे मत्समीपे स्थापयित्वा संन्यस्य निरगमन्निर्ययो निर्जगाम । निर्वर्तितो विहितः स्नानादिकायाः क्रियायाः कलापः समुदायो येन सोऽपराह्नसमये तृतीयप्रहरे पुनरात्मनैव सह स्वेनैव समं मामाहारमशनमकारय- व्द्यधापयत् ।
एवं चावहितचेतसा सावधानचित्तेन हारीतेन संवर्ध्यमानो वृद्धिं प्राप्यमाणः कतिपयैः कियद्भिरेव दिवसैः संजातौ सुनिष्पन्नौ पक्षौ वाजौ यस्यैवंभूतोऽभवमजनिषम् । 'पक्षो गरुच्छदश्चापि पिच्छं वाजस्तनूरुहम्' इति हैमः । उत्पन्नं संजातमुत्पतनस्योड्डयनस्य सामर्थ्यं बलं यस्मै एवंविधश्च चेतसीत्यकरवमरचयम् । गमने चलने
क्षमः समर्थस्त्वहं संवृत्तो निष्पन्नोऽस्मि । नामेति कोमलामन्त्रणे । चन्द्रापीडस्योत्पत्तिर्जन्म तस्य परि [^1]ज्ञानमवबोधः। चन्द्रा- पीडोत्पत्तिपरिज्ञानं तु जातमेवास्तीत्यर्थः । महाश्वेता च पुनः सैवास्ते विद्यते । तत्तस्मात्कारणादुत्पन्नज्ञानोऽपि संजातजातिस्मरणोऽपि तस्या दर्शनेनावलोकनेन विनात्मानं किं किमर्थं निमेषमप्यक्षि- स्पन्दमात्रमपि दुःखं स्थापयामि । भवतु जायताम् । तत्रैवा- च्छोदोपान्ते गत्वा तिष्ठाम्यवस्थानं करोमीति निश्चित्य निर्णयं कृत्वैकदैकस्मिन्समये प्राप्तः प्रभाते विहारार्थं यात्रार्थं निर्गत एवोत्तरामुदीचीं ककुभं दिशं गृहीत्वावहमचलम् । अबहुदिवसैः स्तोकदिनैरभ्यस्तं प्रारब्धं गमनं येन स तस्य भावस्तत्ता तया, स्तोकमेव स्वल्पमेव गत्वा मे ममाङ्गानि हस्तपादादीनि श्रमेण प्रयासेनावशीर्यन्त इव स्फुट्यन्त इव । पिपासयोदन्यया शुष्यञ्शोषं प्राप्नुवचञ्चपुटं त्रोटपुटं [^2]यस्य सः । 'चञ्चुस्त्रोटिरुभे स्त्रियौ' इत्यमरः । नाडिं धमतीति नाडिंधम एवंविधेन श्वासेन श्वस-
[^1]F. तत्र नाम चन्द्रापीडोत्पत्तिपरिज्ञानम् ? किम
चन्द्रापीडोत्पत्तिपरिज्ञानम्, ( तत्र गमनक्षमावस्थायामपि चन्द्रा- पीडोत्पत्तिपरिज्ञानं न मे जातम् ),
[^2]F. ' अवशीर्यन्त इव मेऽङ्गानि इतिरूपेण पूर्ववाक्ये यदा तत्तत्क्रियाया एव प्राधान्येन
[^२]G. अन्यतमम्
[^३
[^४]G. अपराह्नसमये; सायाह्नसमये.
[^५]G. आहित
[^६]G. नाम
[^७]G. दुःखे.
[^८]G. अशुष्यत्
[^९]G. चञ्चुपुटम्
[^१०]G. अकम्पत; अध्यायत