This page has not been fully proofread.

जाबाल्याश्रमं त्यक्त्वा शुकस्योड्डयनम् ] उत्तरभागः ।
 
च, अनुभूतास्मदालिङ्गनसुखो विस्मयोन्मुखेन मुनिकुमारकजनेनेक्ष्यमाणोऽन्तरिक्षमतिक्रम्य
क्वाप्यदर्शनमगात् । गते च तस्मिन्हारीतः समाश्वास्य मां शारीरस्थितिकरणायोदतिष्ठत् ।
उत्थाय चान्यं मुनिकुमारकं पार्श्वे स्थापयित्वा निरगमत् । निर्वर्तितस्नानादि क्रियाकलाप -
श्वात्मनैव सहापैराहसमये पुनर्मामाहारमकारयत् ।
 
एवं चावहितचेतसा हारीतेन संवर्ध्यमानः कतिपयैरेव दिवसैः संजातपक्षोऽभवम् ।
उत्पन्नोत्पतनसामर्थ्यश्च चेतस्यकरवम्
– 'गमनक्षमस्तु संवृत्तोऽस्मि, तत्र नाम चन्द्रापीडोत्प-
त्तिपरिज्ञानम् । महाश्वेता पुनः सैवास्ते । तत्किमुत्पन्नज्ञानोऽपि तद्दर्शनेन विनात्मानं निमेषमपि
दु:खं स्थापयामि । भवतु । तत्रैव गत्वा तिष्ठामि' इति निश्चित्यैकदा प्रातर्विहारनि-
र्गत एवोत्तरां ककुभं गृहीत्वावहम् । अबहुदिवसाभ्यस्तगमनतया स्तोकमेव गत्वावशीर्यन्त
इच मेऽङ्गानि श्रमेण । शुष्यचऋपुटः पिपासया, नाडिंधमेनांकम्पितकण्ठः श्वासेन, तद -
 
धाय नियुज्य चानुभूतं मदालिङ्गनसुखं येनवंभूतो विस्मयोन्मुखेन कौतुको वींकृताननेन मुनिकुमारकजनेन ताप -
सशिशुजनेनेक्ष्यमाणो विलोक्यमानोऽन्तरिक्षमा का शमतिक्रम्योल्लङ्घ्य काप्यदर्शनमनवलोकनमगाद्ययौ । गते च
तस्मिन्कपिञ्जले हारीतो मां समाश्वास्याश्वासनां दत्त्वा शारीरस्थितिकरणाय स्नानादिकृत उदतिष्ठदुत्थितो बभूव ।
उत्थाय चान्यं मुनिकुमारकं तापसकुमारकं मत्पार्श्वे मद्स्य मत्समीपे स्थापयित्वा संन्यस्य निरगमन्निर्ययो
निर्जगाम । निर्वर्तितो विहितः स्नानादिकायाः क्रियायाः कलापः समुदायो येन सोऽपराह्नसमये तृतीयप्रहरे पुन-
रात्मनैव सह स्खेनैव समं मामाहारमशनमकारयद्यधापयत् ।
 
एवं चावहितचेतसा सावधान चित्तेन हारीतेन संवर्ध्यमानो वृद्धिं प्राप्यमाणः कतिपयैः कियद्भिरेव दिवसैः
संजातौ सुनिष्पन्नौ पक्षौ वाजौ यस्यैवंभूतोऽभवमजनिषम् । 'पक्षो गरुच्छदश्चापि पिच्छं वाजस्तनूरुहम्' इति
हैमः । उत्पन्नं संजातमुत्पतनस्योड्डयनस्य सामर्थ्य बलं यस्मै एवंविधश्च चेतसीत्यकरवमरचयम् । गमने चलने
क्षमः समर्थस्त्वहं संवृत्तो निष्पन्नोऽस्मि । नामेति कोमलामन्त्रणे । चन्द्रापीडस्योत्पत्तिर्जन्म तस्य परिज्ञानमय-
बोधः। चन्द्रापीडोत्पत्तिपरिज्ञानं तु जातमेवास्तीत्यर्थः । महाश्वेता च पुनः सैवास्ते विद्यते । तत्तस्मात्कारणादुत्पन्न-
ज्ञानोऽपि संजातजातिस्मरणोऽपि तस्या दर्शनेनावलोकनेन विनात्मानं किं किमर्थं निमेषमप्यक्षिस्पन्दमात्रमपि
दुःखं स्थापयामि । भवतु जायताम् । तत्रैवाच्छोदोपान्ते गत्वा तिष्ठाम्यवस्थानं करोमीति निश्चित्य निर्णयं कृत्वै-
कदैकस्मिन्समये प्राप्तः प्रभाते विहारार्थ यात्रार्थं निर्गत एवोत्तरामुदीचीं ककुभं दिशं गृहीत्वा वहमचलम् । अब
हुदिवसैः स्तोकदिनैरभ्यस्तं प्रारब्धं गमनं येन स तस्य भावस्तत्ता तया, स्तोकमेव स्वल्पमेव गत्वा मे ममा-
जानि हस्तपादादीनि श्रमेण प्रयासेनावशीर्यन्त इव स्फुट्यन्त इव । पिपासयोदन्यया शुष्यञ्शोषं प्राप्नुवचञ्च-
पुटं त्रोटपुटं यस्य सः । 'चञ्चुस्त्रोटिरुभे स्त्रियौ' इत्यमरः । नाडिँ धमतीति नाडिँधम एवंविधेन श्वासेन श्वस-
टिप्प० -1 तत्र नाम चन्द्रापीडोत्पत्तिपरिज्ञानम् ? किमये विवक्षितम् ? ( उत्पत्तिपरिज्ञानं तु जात-
मेवास्तीति किमाधारादुच्यते, क्वोत्पत्तिरस्मै सूचिता ? ) तस्मादिदमपि टीकाकारपुंगवत्वमेव । 'तन्त्र न मे
चन्द्रापीडोत्पत्तिपरिज्ञानम्, ( तत्र गमनक्षमावस्थायामपि चन्द्रापीडोत्पत्तिपरिज्ञानं न मे जातम् ),
इत्येव पाठः । 2 ' अवशीर्यन्त इव मेऽङ्गानि इतिरूपेण पूर्ववाक्ये यदा तत्तत्क्रियाया एव प्राधान्येन
निर्देशः प्रक्रान्तस्तर्हि अग्रेपि सोयमेव प्रक्रमो निर्वाह्यः । ततश्च - - 'अशुष्यचञ्जुपुटं पिपासया, नाडिन्धमेन
आध्मायत कण्ठः श्वासेन, ' इत्येव पाठो प्रन्थाभिमतः । टीकाकारस्तु केवलं पर्यायशूरः क्रूरः स्वारस्ये ।
 
पाठा० -१ अदर्शनपथम् २ अन्यतमम् ३ निवर्तित ४ अपराह्नसमये; सायाह्नसमये. ५ आहित ६ नाम
तावत् ७ दुःखे. ८ अशुष्यत् ९ चचुपुटम् १० अकम्पत; अध्यायत,