कादम्बरी /717
This page has been fully proofread once and needs a second look.
'सखे कपिञ्जल, किं दूयसे ? त्वयापि मन्दपुण्यस्य मम कृते [^१]तुरंगमतामापन्नेन पराधीनवृत्तिना बहुतराण्येव दुःखान्य- नुभूतानि । कथं सोमपानोचितेनामुनाऽऽस्येन समुत्पादित- सफेनरक्तस्रवाः खरखलीनक्षतयो विसोढाः ? कथमयमकठोर- किसलयशयनीयै [^२]कसेवासुकुमारः सदा पर्याणितस्य न शीर्णः पृष्ठवंश: ? कथमेषु [^३]कुसुमोच्चयापतितंबालवनलतास्पर्श-[^४]मात्राक्षमेषु गात्रेषु कशाभिघाता [^५]निपतिताः ? कथं च ब्रह्मसूत्रोद्वाहिनि देहेऽ [^६]स्मिन्वध्रोत्पीडनकृता: पीडा: समुप- जाता: ?' इत्येभिरन्यैश्च पूर्ववृत्तान्तालापैस्तत्कालविस्मृततिर्यग्जाति- दुःखः [^७]सुखमतिष्ठम् ।
[^८]उपारोहति च मध्याहं सवितरि हारीतः सह कपिञ्जलेन मां यथोचितमाहारमकारयत् । कृताहारश्च कपिञ्जलः क्षणमिव स्थित्वा मामब्रवीत् — "अहं हि तातेन त्वां समाश्वासयितुम्, 'जाबालि- पादमूलादा कर्मपरिसमाप्तेर्न त्वया चलितव्यम्' इत्येतच्चादेष्टुं विसर्जितः । [^९]अन्यदहमपि तत्रैव कर्मणि व्यग्रतर एव । तद्व्र- जामि संप्रति ।" अहं तु तच्छ्रुत्वा विषण्णवदनस्तं प्रत्यवदम् – 'सखे कपिञ्जल, एवंगते किं ब्रवीमि । किं च तातस्याम्बाया वा संदिशामि । सर्वं त्वमेव वेत्सि' इति । स त्वेवमुक्तो मया, पुनःपुनस्तत्राव- स्थानाय मां सं [^१०]विधाय हारीतं
[ टि ]-- तं कपिञ्जलमहमवदमकथयम् । किं तदित्याह
— सखे इति । हे सखे कपिजल, किं दूयसे किं खिद्यसे ।
त्वयापि भवतापि मन्दपुण्यस्य स्वल्पसुकृतस्य मम कृते तुरंगमतामश्वतामा- पन्नेन प्राप्तेन पराधीनवृत्तिना पराय-
त्तवृत्तिना परवशवृत्तिना बहुतराण्येवानेकान्येव दुःखानि कृच्छ्राण्यनुभूतानि साक्षात्कृतानि । कथं केन प्रकारेण
सोमः सोमवल्ली तस्याः पानं तत्रोचितेन योग्येनामुनास्येन मुखेन समुत्पादितो विहितः सफेनः सडिण्डीरो रक्त-
स्रावो रुधिरच्युतिर्याभिरेवंविधाः खरं कठिनं यत्खलीनं कविका कवियं मुखयन्त्रणं तस्य क्षतयो व्रणा विसोढाः
क्षान्ताः । कथम- कठोरं सुकुमारं यत्किसलयशयनीयं तस्यैकसेवयैकसपर्यया सुकुमारः सुकोमलः सदा पर्याणि -
तस्य संजातपल्ययनस्यायं पृष्ठवंशो रीढकः । 'रीढकः पृष्ठवंशः स्यात्पृष्ठं तु चरमं तनोः' इति हैमः । न शीर्णः
शटितः । कथं कुसुमानामुच्चयोऽवचयस्तस्मादा- पतिताः स्रस्ता बालवनलतास्तासां स्पर्शमात्रेणाक्षमेष्वसमर्थेष्वेषु
गात्रेषु कशाभिघाता वर्मदण्डप्रहारा निपतिताः । कथं च ब्रह्मसूत्रो- द्वाहिनि यज्ञोपवीतधार केऽस्मिन्देहे शरीरे
व वध्रं चर्म तेन यदुत्पीडनं बन्धनं तेन कृता विहिताः पीडा बाधाः समुपजाताः समुत्पन्नाः । इत्येभिरन्यैश्च
पूर्ववृत्तान्तालापैः प्राचीनोदन्तसंभाषणैस्तत्कालं तदात्वं विस्मृतं विस्मरणतामापन्नं तिर्यग्जातिदुःखं यस्यैवंभू-
तोऽहं सुखम॑ [^1]मन्वतिष्ठमस्थाम् ।
सवितरि सूर्ये मध्याह्नमहोह्नो मध्यमुपारोहत्यधिरोहणं कुर्वति सति हारीतः कपिञ्जलेन सह मां वैशम्पायनं
यथोचितं योग्यमाहारं भोजनमकारयदकल्पयत् । कृताहारश्च विहितभोजनश्च कपिञ्जलः क्षणमिव स्थित्वा माम•
ब्रवीदवोचत् । अहं हि कपिञ्जलस्तातेन पित्रा त्वां भवन्तं समाश्वासयितुमाश्वासनां कर्तुं जाबालिपादमूलादा-
कर्मपरिसमाप्तेः कृत्यपरिपूर्तितिं मर्यादीकृत्य न त्वया चलितव्यं नान्यत्र गन्तव्यम् । अन्यत्र गमनं न करणीयम् ।
इत्येतच्चादेष्टुं कथयितुं विसर्जितो विसृष्टस्त्यक्तः । अन्यदहमपि तत्र कर्मणि पूर्वोक्तकृत्ये व्यग्रतरोऽतिशयेन व्याकुल
ए॒ एव । तत्तस्माद्धेतोः संप्रतीदानीनीं व्रजामि गच्छामि । अहं तु वैशम्पायनस्तच्छ्रुत्वा समाकर्ण्य सम्यगाकर्ण्य विष-
ण्णवदनो विलक्षास्यस्तं कपिञ्जल- मवदमब्रवम् । हे सखे कपिञ्जल एवंगते एवं प्राप्तेऽहं किं ब्रवीमि किं
वच्मि । किंच तातस्य पितुर्जनकस्याम्बाया मातुः सवितुः किं संदिशामि किं कथयामि किमाज्ञापयामि । सर्वं
समस्तं त्वमेव भवानेव वेत्सि जानासीति । स तु मयैवमुक्तो भणितः पुनःपुनर्मां तत्रावस्था [^2]नाय हारीतं संवि-
टिप्प० -
[^1]F. अतिष्ठमित्येव मूलानुकूलः पाठः ।
[^2]F. तत्रावस्थानाय माम्, हारीतं च संविधाय अनु-
रुध्य ( सावधानीकृत्य ), इत्यन्वयो योग्यः ।
पाठा० •[^१]G. तुरंगताम्.
[^२]G. एकमुखसेवा.
[^३]G. पातित; पतित.
[^४]G. मात्रक्षमेषु.
[^५]G. निपातिता : .
[^६]G. बद्ध.
[^७]G. अन्वति-
ष्ठम्.
[^८]G. उपरोहति .
[^९]G. अहमपि; अस्मि तदद्दहमपि .
[^१०]G. संनिधाय
.
[^८]उपारोहति च मध्याहं सवितरि हारीतः सह कपिञ्जलेन मां यथोचितमाहारमकारयत् । कृताहारश्च कपिञ्जलः क्षणमिव स्थित्वा मामब्रवीत् — "अहं हि तातेन त्वां समाश्वासयितुम्, 'जाबालि- पादमूलादा कर्मपरिसमाप्तेर्न त्वया चलितव्यम्' इत्येतच्चादेष्टुं विसर्जितः । [^९]अन्यदहमपि तत्रैव कर्मणि व्यग्रतर एव । तद्व्र- जामि संप्रति ।" अहं तु तच्छ्रुत्वा विषण्णवदनस्तं प्रत्यवदम् – 'सखे कपिञ्जल, एवंगते किं ब्रवीमि । किं च तातस्याम्बाया वा संदिशामि । सर्वं त्वमेव वेत्सि' इति । स त्वेवमुक्तो मया, पुनःपुनस्तत्राव- स्थानाय मां सं [^१०]विधाय हारीतं
[ टि ]-- तं कपिञ्जलमहमवदमकथयम् । किं तदित्याह
— सखे इति । हे सखे कपिजल, किं दूयसे किं खिद्यसे ।
गात्रेषु कशाभिघाता वर्मदण्डप्रहारा निपतिताः । कथं च ब्रह्मसूत्रो- द्वाहिनि यज्ञोपवीतधार
व
सवितरि सूर्ये मध्याह्नम
कर्मपरिसमाप्तेः कृत्यपरिपूर्
ए॒
[^1]F. अतिष्ठमित्येव मूलानुकूलः पाठः ।
[^2]F. तत्रावस्थानाय माम्, हारीतं च संविधाय अनु
[^२]G. एकमुखसेवा.
[^३]G. पातित; पतित.
[^४]G. मात्रक्षमेषु.
[^५]G. निपातिता
[^६]G. बद्ध.
[^७]G. अन्वति
[^८]G. उपरोहति
[^९]G. अहमपि; अस्मि तद
[^१०]G. संनिधाय