2023-11-07 07:49:59 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

६८४
 
कादम्बरी ।
 
[ कथायाम्-
'सखे कपिञ्जल, किं दूयसे ? त्वयापि मन्दपुण्यस्य मम कृते [^१]तुरंगमतामापत्रेन्नेन पराधीन-
वृत्तिना बहुतराण्येव दुःखान्य- नुभूतानि । कथं सोमपानोचितेनामुनाऽऽस्येन समुत्पादित-
फेनरक्तस्रवाः खरखलीनक्षतयो विसोढाः ? कथम यमकठोर- किसलयशयनीयै [^२]कसेवासुकुमारः
सदा पर्योयाणितस्य न शीर्णः पृष्ठवंश: ? कथमेषु [^३]कुसुमोच्चयापतितंबालवनलतास्पर्श -[^४]मात्राक्षमेषु
गात्रेषु कशाभिघाता [^५]निपतिताः ? कथं च ब्रह्मसूत्रोद्वाहिनि देहेऽस्मिँग्वधो [^६]स्मिन्वध्रोत्पीडनकृता: पीडा:
समुप॑प- जाता: ?' इत्येभिरन्यैश्च पूर्ववृत्तान्ताला
पैस्तत्काल विस्मृत तिर्यग्जाति- दुःखः सुँ[^७]सुखमतिष्ठम् ।
 

 
[^८]
उपारोहति च मध्याहं सवितरि हारीतः सह कपिञ्जलेन मां यथोचितमाहारमकारयत् ।
कृताहारश्च कपिञ्जलः क्षणमिव स्थित्वा मामब्रवीत् — "अहं हि तातेन त्वां समाश्वासयितुम्,
'जाबालि- पादमूलादा कर्मपरिसमाप्तेर्न त्वया चलितव्यम्' इत्येतच्चादेष्टुं विसर्जितः । [^९]अन्य-
दहमपि तत्रैव कर्मणि व्यप्ग्रतर एव । तद्व्र- जामि संप्रति ।" अहं तु तच्छ्रुत्वा विषण्णवदनस्तं
प्रत्यवदम् – 'सखे कपिञ्जल, एवंगते किं ब्रवीमि । किं च तातस्याम्बाया वा संदिशामि ।
सर्वं त्वमेव वेत्सि' इति । स त्वेवमुक्तो मया, पुनःपुनस्तत्राव- स्थानाय मां संविधाय हारीतं
 
-
 

 

 
तं कपिञ्जलमहमवदमकथयम् । किं तदित्याह

— सखे इति । हे सखे कपिजल, किं दूयसे किं खिद्यसे ।

त्वयापि भवतापि मन्दपुण्यस्य स्वल्पसुकृतस्य मम कृते तुरंगमतामश्वतामापन्नेन प्राप्तेन पराधीनवृत्तिना पराय-

त्तवृत्तिना परवशवृत्तिना बहुतराण्येवानेकान्येव दुःखानि कृच्छ्राण्यनुभूतानि साक्षात्कृतानि । कथं केन प्रकारेण

सोमः सोमवल्ली तस्याः पानं तत्रोचितेन योग्येनामुनास्येन मुखेन समुत्पादितो विहितः सफेनः सडिण्डीरो रक्त-

स्रावो रुधिरच्युतिर्याभिरेवंविधाः खरं कठिनं यत्खलीनं कविका कवियं मुखयन्त्रणं तस्य क्षतयो व्रणा विसोढाः

क्षान्ताः । कथमकठोरं सुकुमारं यत्किसलयशयनीयं तस्यैकसेवयैकसपर्यया सुकुमारः सुकोमलः सदा पर्याणि -

तस्य संजातपल्ययनस्यायं पृष्ठवंशो रीढकः । 'रीढकः पृष्ठवंशः स्यात्पृष्ठं तु चरमं तनोः' इति हैमः । न शीर्णः

शटितः । कथं कुसुमानामुच्चयोऽवचयस्तस्मादापतिताः स्रस्ता बालवनलतास्तासां स्पर्शमात्रेणाक्षमेष्वसमर्थेष्वेषु

गात्रेषु कशाभिघाता वर्मदण्डप्रहारा निपतिताः । कथं च ब्रह्मसूत्रोद्वाहिनि यज्ञोपवीतधार केऽस्मिन्देहे शरीरे

व चर्म तेन यदुत्पीडनं बन्धनं तेन कृता विहिताः पीडा बाधाः समुपजाताः समुत्पन्नाः । इत्येभिरन्यैश्च

पूर्ववृत्तान्तालापैः प्राचीनोदन्तसंभाषणैस्तत्कालं तदात्वं विस्मृतं विस्मरणतामापनं तिर्यग्जातिदुःखं यस्यैवंभू-

तोऽहं सुखम॑न्वतिष्ठमस्थाम् ।
 

 
सवितरि सूर्ये मध्याह्नमहो मध्यमुपारोहत्यधिरोहणं कुर्वति सति हारीतः कपिञ्जलेन सह मां वैशम्पायनं

यथोचितं योग्यमाहारं भोजनमकारयदकल्पयत् । कृताहारश्च विहितभोजनश्च कपिञ्जलः क्षणमिव स्थित्वा माम•

ब्रवीदवोचत् । अहं हि कपिञ्जलस्तातेन पित्रा त्वां भवन्तं समाश्वासयितुमाश्वासनां कर्तुं जाबालिपादमूलादा-

कर्मपरिसमाप्तेः कृत्यपरिपूर्ति मर्यादीकृत्य न त्वया चलितव्यं नान्यत्र गन्तव्यम् । अन्यत्र गमनं न करणीयम् ।

इत्येतच्चादेष्टुं कथयितुं विसर्जितो विसृष्टस्त्यक्तः । अन्यदहमपि तत्र कर्मणि पूर्वोक्तकृत्ये व्यग्रतरोऽतिशयेन व्याकुल

ए॒व । तत्तस्माद्धेतोः संप्रतीदानी व्रजामि गच्छामि । अहं तु वैशम्पायनस्तच्छ्रुत्वा समाकर्ण्य सम्यगाकर्ण्य विष-

ण्णवदनो विलक्षास्यस्तं कपिञ्जलमवदमब्रवम् । हे सखे कपिजल एवंगते एवं प्राप्तेऽहं किं ब्रवीमि किं

वच्मि । किंच तातस्य पितुर्जनकस्याम्बाया मातुः सवितुः किं संदिशामि किं कथयामि किमाज्ञापयामि । सर्वं

समस्तं त्वमेव भवानेव वेत्सि जानासीति । स तु मयैवमुक्तो भणितः पुनःपुनर्मां तत्रावस्थानाय हारीतं संवि-

टिप्प० -1 अतिष्ठमित्येव मूलानुकूलः पाठः । 2 तत्रावस्थानाय माम्, हारीतं च संविधाय अनु-

रुध्य ( सावधानीकृत्य ), इत्यन्वयो योग्यः ।
 

 
पाठा० •१ तुरंगताम्. २ एकमुखसेवा. ३ पातित; पतित. ४ मात्रक्षमेषु. ५ निपातिता : ६ बद्ध. ७ अन्वति-

ठम्. ८ उपरोहति ९ अहमपि; अस्मि तदद्दमपि १० संनिधाय