कादम्बरी /716
This page has been fully proofread once and needs a second look.
खलु शठमतेः सर्व एव दोषः, येन जानताप्युत्पत्तिसमय एव वत्सस्य कृते नेदमा [^१]युष्करं कर्म [^२]निर्वर्तितम् । अधुना सिद्धप्राय- मेवेदम् । न दुःखासिका भावनीया । मत्पादमूले तावत्स्थीयताम्' इत्येवमाज्ञापितस्तु तातेन विगतभी [^३]र्व्यज्ञापयम्-
'तात यदि प्रसादोऽस्ति [^४]ततो यत्रैवासावुत्पन्नस्तत्रैव गमनाया- ज्ञापयतु मां तातः' इत्येवं विज्ञापितस्तु मया पुनराज्ञापितवान्– 'वत्स, शुकजातावसौ पतितः तद्गत्वापि तमद्य नैव वेत्सि नाप्यसौ त्वां वेत्तीति । तत्तिष्ठतु तावत्' इति । अद्य च प्रातरेवाहूय मामा-
ज्ञापितवान्– 'वत्स कपिञ्जल, महामुनेर्जाबालेराश्रमपदं सुहत्ते प्राप्तः । जन्मान्तरस्मरणं चास्योपजातम् । तद्गच्छ संप्रति तं द्रष्टुम् । मदीयया चाशिषानुगृह्य वक्तव्योऽसौ – वत्स,
यावदिदं कर्म पॅ[^५]परिसमाप्यते तावत्त्वयास्मिन्नेव जाबाले: [^६]पादमूले स्थात- व्यमिति । अपि च
त्वद्दुःखदुःखिताम्बा ते श्रीरपि तस्मिन्नेव कर्मणि परिचारिका वर्तते । तया तु शिरस्युपा-
प्प्राघ्रायैतदेव पुनःपुनः संविष्टम् । एवमुक्त्वाऽकठोर शिरीषकुसुमशिखा सूक्ष्मामोद्भेद- पक्ष्मलानि
[^७]गात्राणि पुनःपुनः पाणिना परामृश्यान्तर्हृदये- नादूयत । तथा दूयमानहृदयं च तमवदम्-
[ टि ]--
ञ्जल, स्वदोषस्य निजदूषणस्य शङ्कारेका परित्यज्यतां मुख्यताम् । खल्विति निश्चयेन । शठमतेर्मूर्खबुद्धेर्ममैवा॒वायं
दोषः, येन कारणेन जानताप्यवबुध्यतापि मया श्वेतकेतुनोत्पत्ति- समय एव वत्सस्य पुण्डरीकस्य कृत आयुष्करं
दीर्घजीवितकारि कर्म न निर्वर्तितं न कृतम् । अधुना सांप्रतमिदानीमिदं कार्ययं सिद्धप्रायमेव संजातमेव । अतो
दुःखा [^1]सिका न भावनीया । मनसि दुःखं नानेयमित्यर्थः । मत्पादमूले मच्चरणतले तावदवस्थी- यतामवस्थानं क्रिय-
तामित्येवं तातेनाज्ञापितस्तु कथितस्तु विगत- भीरहं व्यज्ञापयं विज्ञप्तिमकरवम् ।
हे तात हे पितः, यदि प्रसादः प्रसन्नतास्ति ततो यत्रैव यस्मिन्स्थ- लेऽसौ पुण्डरीक उत्पन्नस्तत्रैव तस्मिन्स्थले
गमनाय मामाज्ञापय- त्वाज्ञां ददातु तातः इत्येवं विज्ञापितस्तु मया पुनर्मामित्याज्ञापित- वानाज्ञां दत्तवान् । इति-
द्योत्यमाह
- वत्स इति । हे वत्स हे पुत्र हे सूनो शुकजातावसौ पतितस्तस्माद्धेतोर्गत्वापि तत्र तमद्य त्वं
नैव वेत्सि । नाप्यसौ शुकस्त्वां भवन्तं वेत्ति । तावत्सांप्रतं तद्गमनं तिष्ठत्वा स्ताम् । अद्य च प्रातरेव प्रत्यूष एवाहूय
मामाज्ञापितवानाज्ञां दत्तवान् । हे वत्स कपिञ्जल, महामुनेर्जाबालेराश्रमपदं सृहृन्मित्रं ते तव प्राप्तः । अस्य शुकस्य
जन्मान्तरस्य स्मरणं च भवान्तरज्ञानं चोपजातम् । संप्रतीदानीं तद्गच्छ व्रज तं शुकं द्रष्टुं विलोकयितुम् ।
मदीययाशिषाऽऽशीर्वादेनानुगृह्यानुग्रह विषयीकृत्यासौ शुक्र इति वक्तव्यो भणितव्यः । इतिथोद्योत्यमाह-
हे वत्सेति । हे वत्स, यावदिदं पूर्वोक्तं कर्म परिसमाप्यते परिपूर्णक्रियते तावत्कालमस्मिन्नेव जाबालेः [^2]पाद-
मूले त्वया स्थातव्यं स्थेयम् । अपि च तव दुःखेन दुःखिता पीडिता ते तवाम्बा माता श्रीरप्येतस्मिन्नेव कर्मणि
परिचारिका सपर्याकारिणी वर्तते । तयाप्यम्बयापि शिरस्युत्तमाङ्गे मस्तक उपाघ्राय [^3]चुम्ब्यैतदेव पूर्वोक्तं पुनः-
पुनः संदिष्टं कथितमुक्तम् । इत्येवमुक्त्वा प्रतिपाद्याऽकठोराण्य कठिनानि कोमलानि मृदूनि यानि शिरीषकुसु-
मानि तेषां शिखा तस्याः सूक्ष्मोऽणुरग्रस्य य उद्भेदस्तद्वत्पक्ष्मलानि कोमलानि गात्राणि शरीराणि पुनः पुनः
पाणिना हस्तेन परामृश्य परामर्शनं कृत्वा हृदयेन चेतसादूयताखिद्यत । तथा दूयमानहृदयं खिद्यमानचेतसं च
COMPEN
टिप्प० -
[^1]F. दुःखपूर्विकामाआसनक्रिया ( धात्वर्थनिर्देशे ण्वुलल् ), दुःखेनाऽवस्थानमित्याशयः ।
[^2]F. यदा 'अस्मिन्नेव' इति विशेष्यते तर्हि 'पादमूले' इति न युज्यते । अत एव 'आश्रमे' इत्येव पाठो
योग्यः ।
[^3]F. अनुपपदात् ल्यब् न युज्यते ।
पाठा० -[^१]G. आयुःकामं कर्म.
[^२]G. निवर्तितम् .
[^३]G. व्यशज्ञपयम् .
[^४]G. तदा० .
[^५]G. न परिसमाप्यते .
[^६]G. आश्रमे.
[^७]G. गात्राणि मे.
'तात यदि प्रसादोऽस्ति [^४]ततो यत्रैवासावुत्पन्नस्तत्रैव गमनाया- ज्ञापयतु मां तातः' इत्येवं विज्ञापितस्तु मया पुनराज्ञापितवान्– 'वत्स, शुकजातावसौ पतितः तद्गत्वापि तमद्य नैव वेत्सि नाप्यसौ त्वां वेत्तीति । तत्तिष्ठतु तावत्' इति । अद्य च प्रातरेवाहूय मामा-
ज्ञापितवान्– 'वत्स कपिञ्जल, महामुनेर्जाबालेराश्रमपदं सुहत्ते प्राप्तः । जन्मान्तरस्मरणं चास्योपजातम् । तद्गच्छ संप्रति तं द्रष्टुम् । मदीयया चाशिषानुगृह्य वक्तव्योऽसौ – वत्स,
प्
[ टि ]--
दोषः, येन कारणेन जानताप्यवबुध्यतापि मया श्वेतकेतुनोत्पत्ति- समय एव वत्सस्य पुण्डरीकस्य कृत आयुष्करं
हे तात हे पितः, यदि प्रसादः प्रसन्नतास्ति ततो यत्रैव यस्मिन्स्थ- लेऽसौ पुण्डरीक उत्पन्नस्तत्रैव तस्मिन्स्थले
नैव वेत्सि । नाप्यसौ शुकस्त्वां भवन्तं वेत्ति । तावत्सांप्रतं तद्गमनं तिष्ठत्वा
मदीययाशिषाऽऽशीर्वादेनानुगृह्यानुग्रह विषयीकृत्यासौ शुक्र इति वक्तव्यो भणितव्यः । इति
परिचारिका सपर्याकारिणी वर्तते । तयाप्यम्बयापि शिरस्युत्तमाङ्गे मस्तक उपाघ्राय [^3]चुम्ब्यैतदेव पूर्वोक्तं पुनः
टिप्प० -
[^1]F. दुःखपूर्विका
[^2]F. यदा 'अस्मिन्नेव' इति विशेष्यते तर्हि 'पादमूले' इति न युज्यते । अत एव 'आश्रमे' इत्येव पाठो
[^3]F. अनुपपदात् ल्यब् न युज्यते ।
[^२]G. निवर्तितम्
[^३]G. व्य
[^४]G. तदा
[^५]G. न परिसमाप्यते
[^६]G. आश्रमे.
[^७]G. गात्राणि मे.