कादम्बरी /715
This page has not been fully proofread.
६८२
कादम्बरी ।
[कथायाम्-
मद्विरहदुर्बले वक्षसि निवेश्य चिरमिवान्तःप्रवेशयन्निवालिङ्गनसुखं किल तथा मेऽनुभूय
भूयसा मन्युवेगेनोत्तमाङ्गे कृत्वा मञ्चरणावितरवदोदीत् ।
तथा रुदन्तं च तं वाड्यात्रप्रतीकारः पुनरवदम् – 'सखे कपिञ्जल, सकलक्केशरिभू
तस्य पापात्मनो ममेदं युज्यते यत्त्वया प्रारब्धम् । त्वं पुनर्बालोऽप्यस्पृष्ट ऍवामीभिः संसा-
रबन्धात्मकैर्निर्वाण मार्ग परिपन्थिभिर्दोषैः । तत्कैिमधुना मूढजनगतेन वर्त्मना । समुपविश्य
तावत्कथय यथावृत्तं तस्य वार्ताम् । अपि कुशलं तातस्य ? स्मरति वा माम् ? दुःखितो वा
मदीयेन दुःखेन ? महत्तान्तमाकर्ण्य किमुक्तवान् ? कुपितो न वा' इति । स त्वेवमुक्तो मया
हारीतशिष्योपैनीते पल्लवासने समुपविश्याङ्के मां कृत्वा हारीतोपनीतेनाम्भसा प्रक्षालय
मुखमाख्यातवान्
– 'सखे, कुशलं तातस्य । अयं चास्मद्वृत्तान्तः प्रथमतरमेव तातेन दिव्येन
चक्षुषा दृष्ट: । दृष्ट्वा च प्रतिक्रियायै कर्म प्रारब्धम् । समारब्ध एवं कर्मणि तुरगभावाद्विमुक्तो
गतोऽस्मि तातस्य पादमूलम् । गतं च मां दूरत एवोद्वाष्पदृष्टिर्विषण्णदीनवदनं भयादनु-
पसर्पन्तमालोक्याहूयाज्ञापितवान्
– 'वत्स कपिञ्जल, परित्यज्यतां स्वदोषशङ्का । ममैवायं
प्रवेशयन्निव प्रवेशं कारयन्चैिव मे ममालिङ्गनसुखम् । किलेति सत्ये । तथानुभूय साक्षात्कृत्य मन्युः शोकः ।
'मन्युशोकौ तु शुक्स्त्रियाम्' इत्यमरः । भूयसा बहुलेन वेगेन रयेण मञ्चरणौ मत्पादौ मदनी उत्तमाने मस्तके
कृत्वा इतरवत्प्राकृतजनवत् । 'इतरः प्राकृतो नीचः' इति हैमः । अरोदीद्रुदनमकार्षीत् । 'विवर्णः पामरो
नीचः प्राकृतश्च पृथग्जनः' इत्यमरः ।
तथा रुदन्तं च तथा विलपतं च वाड्यात्र एव प्रतीकारः प्रतिक्रिया यस्य सः । पुनरवदमब्रवम् ।
सखे कपिञ्जल, सकलक्लेशेम समग्रदुःखेन कष्टेन परिभूतस्याभिभूतस्य पराभवितस्य पापात्मनो मे ममेदं
युज्यत इदं घटते यत्त्वया भवता प्रारब्धम् । रुदनमित्यर्थः । त्वं पुनर्बालोऽप्यमीभिः संसारबन्धात्मकैः
संसृतिबन्धस्वरूपैर्निर्वाणमार्गस्य मोक्षमार्गस्य परिपन्थिभिः शत्रुभिर्दोषैर्दूषणैरस्पृष्ट एव । तत्तस्माद्धेतोर्मूढ
जनगतेन मूर्खजना चीर्णेन वर्त्मना मार्गेण रुदनलक्षणेन । अधुना किम् । न किमपीत्यर्थः । उपविश्या-
स्थाय तावत्पूर्वमादौ यथावृत्तं यथोपनतं तथा तस्य वार्ता किंवदन्तीं कथय ब्रूहि । अपि तातस्य पितुः
क्कुशलं कल्याणम् । मां पुण्डरीकं स्मरति स्मृतिगोचरीकरोति न वा । मदीयेन मामकीनेन दुःखेन दुःखितो
वा । मद्वृत्तान्तं मदुदन्तमाकर्ण्य श्रुत्वा किमुक्तवानिक कथितवान् । कुपितो न वा रोषं गतो न वा इति । स तु
कपिजल एवं मयोक्तः कथितः सन्हारीतस्य शिष्येण विनेयेनोपनीत आनीते समानीते पल्लवासने नवीनपत्र-
विष्टरे समुपविश्य मां वैशंपायनाभिधानं शुकमङ्क उत्सङ्गे कोडे कृत्वा हारीतोपनीतेन हारीतानीतेनाम्भसा पानी-
येन जलेन मुखं वदनं प्रक्षाल्य प्रक्षालनं कृत्वा धावनं कृत्वाख्यातवान्कथितवान् । किं तदित्याह- सखे
इति । हे सखे पुण्डरीक, तातस्य महाश्वेतकेतोः कुशलं वर्तते । अयं चास्मद्वृत्तान्त एतदुदन्तः प्रथमतरमेवा.
दावेव तातेन जनकेन पित्रा दिव्यचक्षुषा ज्ञाननेत्रेण दृष्टोऽवलोकितो निरीक्षितः । दृष्ट्वा च तत् प्रतिक्रियायै
कर्भ प्रारब्धं कर्तुमारब्धम् । समारब्धे एव कर्मणि तुरगभावादश्वशापाद्विमुक्तोऽहं तातस्य जनकस्य पादमूलं चर-
णमूलं गतोऽस्मि । गतं च सां दूरत एवोद्वाष्पदृष्टिरुद्द्वताश्रुनयनो भयागीतेर्विषण्णं विलक्षं दीनं दुःखितं वदनं
मुखं यस्यैवंभूतं मामुप॑सर्पन्तमागच्छन्तमालोक्य निरीक्ष्याहूयाह्वानं कृत्वाज्ञापितवान्कथितवान् । हे वत्स कपि-
टिप्प० -1 अनुपसर्पन्तम् (न अभिसरन्तम् ) इत्युचितम् ।
पाठा० - १ तु. २ मन्दात्मनः ३ न युज्यते ४ अमीभी रागादिभिः ५ अमुना ६ यथावृत्तम् ७ अयि
८ न दुःखितः ९ त्वरितोपनीतेन,
·