2023-11-09 14:12:16 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

शुकठपुण्ड० सह कपिञ्जलसमागमः ] उत्तरभागः ।
 
६८१
 
मीक्षणाभ्यां युगपदुत्सृजन्तम् मुमुक्षुमपि मत्स्नेहेनामुक्तम्, वीतराग- मपि मत्प्रियहितरतम्,
निःसङ्गमपि मत्समागमोत्सुकम्, निःस्पृह- मपि मदर्थसंपादनपर्याकुलम्, निर्मममध्प्युपा-
रूढस्नेहम्, निरहं-कारमध्प्यहमेवायमिति मां मन्यमानम्, समुज्झिकेतक्लेशमपि मदर्थे कि[^१]क्लिश्यन्तम्,
समलोष्टकाञ्चन [^२]तासुखितमपि मै[^३]मद्दुःखदुःखितम्, कृतज्ञमकृतज्ञः, स्नेहलप्रकृतिं [^४]रूक्ष- चेताः,
सुकृतिनमपुण्यवान्, अनुगतं वामस्वभावः, भांभावार्द्रहृदय- मेकान्तनिष्ठुरः, मित्रं वैरी, वचन- -
करमनाश्रवः, महात्मानं दुरात्मा, कपिञ्जलमहमद्राक्षम् । दृष्ट्वा च निर्भरगलितनयनपया-
स्तादृशोऽपि कृताभ्युद्गमनप्रयत्नः [^५]पूत्कृत्य तमवदम् - 'सखे कपिञ्जल, एवं जन्मद्वयान्तरित-
दर्शनमपि त्वां दृष्ट्वा किं सरभसमुत्थाय दूरत एव प्रसारितभुजद्वयो गाढालिङ्गनेन सुखमनु-
भविष्यामि । किं करं करेणावलम्ब्यासनपरिग्रहं कारयिष्यामि । किं सुखासीनस्य गात्र-

संवाहनं कुर्वञ्छ्रममपनेष्यामि' इत्येवमात्मानमनुशोचन्तमेव मां कपिञ्जलः करेणोत्क्षिप्य
 
3
 

 
[ टि ]--
मूहमीक्षणाभ्यां लोचनाभ्यामुत्सृजन्तं त्यजन्तम् । कीदृशं जललवविसरम् । ममावलोकनं तस्माद्यदुःखं तस्मा-
दुद्गतं प्रादुर्भूतं प्रकटीभूतम् । मोक्तुमिच्छुर्मुमुक्षुरेवंभूतमपि मत्स्नेहेन मत्प्री- त्याऽमुक्तमत्यक्तमखण्डितम् । वीतो
गतो रागोऽनुरागो यस्मा- देतादृशमपि मत्प्रिय इष्टे रतमासक्तम् । निर्गतः संगोऽन्य-
जनसंपर्कः परजनसंयोगो यस्य
स तमेतादृशमपि मम समागमो मेलापस्तत्र तस्मिन्नुत्सुकमुत्कण्ठितम् । निर्गता स्पृहा वान्छां यस्मादेवंभूतमपि
ममार्थो मदर्थस्तस्य संपादनाय निष्पादनकरणाय परि सांसामस्त्येनाकुलं व्याकुलम् । निर्मममपि निर्गतममत्वमपि

ममत्वभावो नास्ति । मयि विषय उपारूढः स्थापितः स्नेहः प्रेमा येन स तम् । निर्गतोऽहंकारो गर्योवो यस्मादे-
तादृशमप्यहमेवायं कै[^1]कपिञ्जल इति मन्यमानं ज्ञायमानम् । समुज्झितस्त्यक्तः क्लेशो येनैवंभूतमपि मदर्थे मत्कृते
क्लिश्यन्तं क्लेशं प्राप्नुवन्तम् । समे सदृशे तुल्ये लोष्टकाञ्चने यस्य स समलोष्टकाञ्चनस्तस्य भावस्तत्ता तथा सुखितं
संजातसौख्यमेवंविधमेतादृशमपि मम दुःखेन दुःखितं संजातदुःखम् । कृतं जानातीति कृतज्ञस्तं कृतज्ञमकृतज्ञः ।
स्नेहला प्रकृतिः स्वभावो यस्य स तं रूक्षं स्नेहवर्जितं प्रेमरहितं चेतो यस्य स तथा । सुकृतिनं सुकृतवन्तं पुण्य-
वन्तं न विद्यते पुण्यं यस्य सोऽपुण्यवान् । अनुगतमनुकूलं वामः प्रतिकूलो वक्रः स्वभावो यस्य सः । भावे-
नाभ्ध्यवसायेनाद्रमुन्नं हृदयं चेतो यस्य स तमेकान्तेन निष्ठुरः । मित्रं सुहृद् वैरी शत्रुः । वचनं करोतीति वचन-
कर
करस्तमना श्रवोऽवचनेस्थितः । 'वचनेस्थित आश्रवः' इत्यमरः । महात्मानं महापुरुषं दुरात्मा दुष्टात्मा । द्विती-

यान्तं कपिञ्जलस्य विशेषणम् प्रथमान्तं पुण्डरीकस्येति स्वयं बोध्यम् । दृष्ट्वा च विलोक्य च निर्भरं परिपूर्
णं संपूर्ण गलितं नयनयोः पयो यस्य स तादृशोऽप्यसमर्थोऽपि कृतोऽभ्युद्गमे प्रत्युत्थाने प्रयत्नो येन सः । पूरकृत्य
पूत्कारं कृत्वा तं कपिञ्जल- मवदमब्रवम् । हे सखे कपिञ्जल, एवं जन्मद्वयान्तरितदर्शनमपि भवान्तरव्यवहिता-
वलोकनमपि त्वां दृष्ट्वा विलोक्य निरीक्ष्य सरभसं सवेगमुत्थायोत्थानं कृत्वा दूरत एव दविष्ठ एव प्रसारितं
विस्तारितं भुजद्वयं बाहुद्वयं येन सः । गाढालिङ्गनेन तीव्रसंश्लेषेण किं सुख- मनुभविष्यामि साक्षात्प्रत्यक्षं करि-
ष्यामि । करं हस्तं करेण पाणिना हस्तेनावलम्ब्यासनपरिग्रहं विष्टरस्वीकारं किं कारयिष्यामि किं विधापयि-
घ्
ष्यामि किं निष्पादयिष्यामि । सुखासीनस्य सुखोपविष्टस्य गात्रसंवाहनमङ्गमर्दनं कुर्वन्ञ्श्रमं खेदं परिश्रममपने-
घ्
ष्यामि दूरीकरिष्यामि । 'संवाहनं मर्दनं स्यात्' इत्यमरः । इत्येवमात्मानं
स्व
मनुशोचन्तमेव मां कपिञ्जलः
करेण पाणिनोत्क्षिप्योत्पाट्य मम विरहो वियोगस्तेन दुर्बले कृशे वक्षसि चिरमिव निवेश्य संस्थाप्यान्तर्मध्ये
 
टिप्प० -

 
[^
1]F. पुनः प्रलापः । अयं पुण्डरीकोपि मदभिन्न इति मन्यमान- मित्याशयः ।
 
पाठा० -

 
[^
कि]G. क्लिश्यमानम् .
[^
]G. सुखम्.
[^३]G.
दुःखितम् .
[^
]G. रूक्षाहमा त्मा.
[^
]G. फूस्त्कृत्य
[^६]G.
गाढालिङ्गन सुखम्.
 

८६ का०