कादम्बरी /713
This page has not been fully proofread.
६८०
कादम्बरी ।
[ कथायाम्-
तपरित्याग चिन्तामिमीलितं मां समुच्छ्रासयन्निव विकासहासिना मुखेन सहसा प्रविश्य
हारीतोऽभ्यधात्—'भ्रातर्वैशम्पायन, दिष्टवा वर्धसे । पिलुस्ते भगवतः श्वेतकेतोः पादमूला-
कपिलस्त्यामेवान्विध्यन्नायात' इति ।
अहं तु तच्छ्रुत्वा तत्क्षणेनोत्पन्नपक्ष इवोत्पत्त्य तत्समीपमेव प्राप्तुमभिवाच्छन्द्रीषाव-
लोकी 'कासौ' इति तमप्राक्षम् । स त्वकथयत् – 'एष तातपादमूले वर्तते' इति । एवंवा-
da je p de la
CA
दिनं तु तमहं पुनरवदम् - ' यद्येवं ततः प्रापयतु मां तत्रैव भगवान् । उत्ताम्यति मे हृदयं
तदर्शनाय' इत्येवं वदन्नेवाप्रतो गगनागमनवेगादयथास्थितजटाकलापम्, अनिलपथसंचरण-
चलितै काञ्चलोत्तरीयम्, तरुत्वचा दृढाबद्धपरिकरम्, अर्धत्रुटितयज्ञोपवीत सनाथास्थिशेषो-
रस्कम्, निःशेषसुरपथावतरणश्रमोच्छुसितशरीरम्, समीरणापहँतमपि मरुत्पथोपंतनखेद-
संभृतम्, उदकप्रवेशान्निस्यन्दमान स्वेदमाननेन मेदवलोकन दुःखोतं च बाष्पजललव विसर-
,
१
4
परित्याग चिन्ता तया निमीलितं मुद्रितं मां विकासेन हसतीत्येवंशीलेन विकासहासिना मुखेनाननेन समुच्छ्रास-
यन्निवाश्वासयन्निव सहसातर्कितः प्रविश्य प्रवेशं कृत्वा हारीतकोऽभ्यधादवोचत् । किं तदित्याह - भ्रात
रिति । हे भ्रातर्हे बन्धो वैशम्पायन, त्वं दिष्ट्या भाग्येन वर्धसे । ते तव भगवतो महाश्वेतकेतोः पितुः पाद-
मूलाज्जनकचरणसमीपात्त्वामेवान्विष्यन्गवेषयन्कपिजल आयात इति ।
टिप्प० - 1 हा विचारशून्यम् ! 'उदकप्रवेशादिव निस्यन्दमानं स्वेदम् आननेन, बाष्पलवविसरं ईक्ष-
णाभ्यां युगपदुत्सृजन्तम्' इति प्रत्यक्षं दृष्ट्वापि अन्न बहुव्रीहिः क्रियते । धिगीदृशं टीकाकारम् । अस्तु,
अत्र 'निस्यन्दमानं स्वेदम्' इत्येव पाठो बोध्यः ।
a
अहं तच्छ्रुत्वाकर्ण्य तत्क्षणेन तत्कालेनोत्पन्नपक्ष इव संजातवाज इवोत्पत्योड्डीय तस्य कपिअलस्य समी-
पमभ्यर्ण निकटं प्राप्तुमासादयितुमभिवाञ्छन्नभिलषनुग्रीवः सन्नवलोकत इत्येवंशील उगीवावलोकी कासाविति
तं हारीतकमत्राक्षम् । स तु हारीतक एव तातस्य पादमूले वर्तत इत्यकथयदित्यभ्यधात् । एवंवादिनमेवं•
ब्रुवाणं तु हारीतमहं पुनरवदमकथयम् । यद्येवं वर्तते ततो भगवान्मां तत्र प्रापयतु नाययतु । तद्दर्शनाय
तदवलोकनाय मे मम हृदयमुत्ताम्यत्युत्पततीत्येवं वदन्नग्रतः पुरो दुरात्माहं कपिजलमद्राक्षं व्यलोकयमिति
दूरेणान्वयः । इतः कपिञ्जलं विशिनष्टि-- गगनेति । गगने व्योम्नयाकाश आगमनं यानं तस्य
वेगाद्रयादयथास्थितोऽस्थानस्थितो जटाकलापो यस्य स तम् । 'जटा लग्नकचे मूले लक्षमांसिकयोर्जटा'
इति विश्वः । अनिलपथ आकाशे संचरणं संचलनं गमनं तेन चलितः कम्पित एकोऽञ्चलो वस्त्र-
प्रान्तो यस्यैवंभूतमुत्तरीयं संव्यानं यस्य स तम् । 'प्रच्छादनं प्रावरणं संव्यामं चोत्तरीयकम्' इति हैमः ।
तरूणां वृक्षाणां त्वचा कृत्वा दृढ आबद्धः परिकरो येन स तम् । 'भवेत्परिकरो व्राते पर्यकपरिवारयोः । प्रगा-
ढगात्रिकाबन्धे विवेकारम्भयोरपि ' इति विश्वः । अर्धत्रुटितं यद्यज्ञोपवीतं यज्ञसूत्रं तेन सनाथं सहितमस्थि-
शेषं कीकसावशेषमुरो यस्य स तम् । निःशेषं समग्रं यत्सुरपथमाकाशं तस्मादवतरणं तस्माद्यः श्रमः खेदस्तेनो-
च्वसितं शरीरं यस्य तम् । 'नभोऽन्तरिक्षं गगनमनन्तं सुरवर्त्म खम्' इत्यमरः । समीरणेन वायुनापहृतमपि
पीडितमपि मरुत्पथे यदुत्पतनं तस्माद्यः खेदस्तेन संभृतं निचितम् । जलप्रवेशाद्व्योमगङ्गाजलान्तर्गमनादा-
ननेम मुखेन निस्यन्दमानः क्षरन्त्स्वेदो घर्मो यस्य स तम् । किं कुर्वन्तम् । बाष्पजललवविसरं नेत्रजलकणस-
पाठा० -१ कपिजलक: २ तत्क्षणोत्पन्न ३ तत्समीपं विहाय सहसैव प्राप्तुमभिवाञ्छन्; समीपं विहायसैव
प्राप्तुमभिवान्छन्. ४ उद्वेगादव्यवस्थित ५ संचरण विघटितचरणैकाञ्चलोत्तरीयं तरुत्वचा; संचरणवेगचलितैकाञ्चलयोत्त-
रीयतरुत्वचा. ६ आयासित ७ अपहृतम् ८ उत्पन्न, ९ मद्विलोकन १० दुःखागतम्.