2023-11-14 11:00:06 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

गोष्ठीं भइतवा जाबालेरुत्थानम् ]
 
उत्तरभागः ।
 
६७९
 
युगपदा गलितशोकानन्दजन्मनयनसलिला हाकष्ट [^१]शब्दा- नुबन्धिनी स्तम्भितेव चिरमिव स्थित्वा
यथास्थानं जगाम । हारीतस्तु मां संनिहितेऽपि मुनिकुमारकजने निजकरेणैवोत्क्षिप्यात्मपर्ण-

शाळांलां नीत्वा शनैः शनैः [^२]स्वशयनीयैकदेशे स्थापयित्वा प्राभातिक - तिकक्रियाकरणाय निर्ययौ ।
 

 
निर्गते च तस्मिंस्तेन सर्वकार्याक्षमेण तिर्य[^३]तिर्यग्जातिपतनेन देहेन पीडितान्तरात्मा चिन्तां
प्राविशम् । अत्र तावदने
कभव सुकृत- सहस्राधिगम्यं मानुष्यमेव दुर्लभम् । तत्राप्यपै [^४]परं सकल-

जातिविशिष्टं ब्राह्मण्यम् । [^५]ततोऽपि विशिष्टतरमासन्नामृतपदं मुनित्वम् । तस्थापि विशेषान्तरं
किमपि दिव्यलोकनिवासित्वम् तवेद्येनैतावतः स्थानात्स्वदोषैरात्मा पातितस्तेन कथमधुना
सर्वक्रिया- विहीनेनालास्यास्तिर्यग्जाते: समुद्धृतः स्यात् । कथं वा पूर्वजन्माहित -
स्ने
है: सह समा-
गमसुखमनुभूतम् । अननुभवतःधतश्च तन्निष्प्रयोजनेना- मुना जीवितेन किकिं मे परिरक्षितेन ।
पस
पततु यत्र तत्र का[^६]यत्र तत्र क्वापि यातनाशरीरम् । सुखं तु नानुभवितव्यममुना दुःखैकभाजनेन ।
तस्

तत्
परित्यजाम्येनम् । पूर्यतामस्मद्व्यसनदानैकचिन्ता दुःस्थितस्य विधेर्मनोरथः' इत्येवं च जीवि-

 
[ टि ]--
गलितं पतितं शोकानन्दाभ्यां जन्म यस्यैवंभूतं नयनसलिलं यस्याः सा तथा । हाकष्टमिति यः शब्दस्तमनुब-
न्धितुं शीलं यस्याः सा तथा स्तम्भितेव कीलितेव चिरमिव स्थित्वा बहुकालमिव स्थित्वा यथास्थानं यथास्थलं
जगामागमत् । हारीतस्तु मां मुनिकुमारकजने तापस शिशुजने संनिहितेऽपि समीपवर्तिन्यपि सति निजकरेणेणैवा-
घा
त्मपाणिनैवोत्क्षिप्योत्पाट्यात्मपर्णशालां स्वकीयतृणकुटीं नीत्वा प्रापथ्य शनैः शनैर्मन्दं मन्दं शयनीयस्य शय्याया
एकदेशेन्यतर- प्रदेशे स्थापयित्वा संस्थाप्य प्राभातिकक्रियाकरणाय प्रत्यूषविधि- विधानाय निर्ययौ निरगात ।
 
त् ।
 
तस्मिन्हारीतमुनौ निर्गते च सति तेन सर्वाणि समग्राणि यानि कार्याणि कुत्यानि तेष्वक्षमेणासमर्थेन तिर्य-
ग्जाति [^1]पतनेन पक्षिजात्यन्तर्गतेन देहेन विग्रहेण शरीरेण पीडितोऽन्तरात्मा यस्यै-
वंभूतोऽहं चिन्तामार्तितिं प्राविशं
प्रविष्टोऽभूवम् । अत्रेति । अस्मिमिं- ल्लोके तावदादावनेकभवानामसंख्यजन्मनां सुकृतसहस्रैः पुण्यसहस्रैरधिगम्यं
आप्यमेवंविधं मानुष्यमेव मनुजत्वमेव मनुष्यत्वं दुर्लभं दुष्प्रापम् । तत्रापि मनुष्यत्वेऽप्यपरमन्यत्सकूलजातिषु

समग्रवर्णेषु विशिष्टं विशेषेणाधिकं ब्राह्मण्यं ब्राह्मणत्वं सारमधिक- तरम् । ततोऽपि ब्राह्मण्यतोऽप्यतिशयेन विशिष्टं
श्रेष्ठं विशिष्टतरं किंचिदाधिक्यमासन्नं समीपवर्ति निकटवर्त्य मृतपदं मोक्षपदम्। 'महानन्दोऽमृतं सिद्धिः' इति
हैमः । यस्मिन्नेतादृशं मुनित्वं यतित्वमधिकतरम् । तस्यापि मुनित्वस्यापि यतित्वस्यापि किमपि विशेषान्तरं
किंचिदाधिक्यं दिव्यलोकनिवासित्वं स्वर्गलोकस्था- यित्वम् । तत्तस्मात्कारणाद्येनैतावतः पूर्वोक्तस्थानात्स्वदोषैर्निज-

दूषणैरात्मा पातितस्तेन मया सर्वाः रामग्राः क्रियाः स्नानादिका- स्ताभिर्विहीनेन रहितेनाधुना सांप्रतमिदानीम-
स्यास्तिर्यग्जातेः कथमात्मा समुद्धृत उद्धारं प्रापितः । स्यादिति शेषः । पूर्वजन्मनि पूर्वंभवे गतजन्मन्याहितः
स्थापितः स्नेहः प्रीतिर्येषु तैः सह समागमसुखं मेलापकसौख्यं कथमनुभूतं साक्षात्कृतम् । भवतीति शेषः ।
तत्समागमसुखमननुभूततः साक्षात्कृतवतश्च मे मम निष्प्रयोजनेन निरर्थ के नामुना जीवितेन परिरक्षितेन किम् ।

न किंचिदित्यर्थः । यत्र तत्र काक्वापीदं यातनाशरीरम् । 'यातना नरकवेदना' इति हैमः । नरकदेहम् । तीव्रवेदना-
क्षममित्यर्थः । पततु पतनं करोतु । सुखं तु नानुभवितव्यममुनानेन दुःखस्य कष्टस्यैकभाजनेनैकपात्रेण शरीरेण ।
अत एतत् शरीरं परित्यजामि मुलाञ्चामि । अस्माकं व्यसनदानं कष्टप्रदानं तस्यैकाद्वितीया या चिन्ता तया दुःस्थि-
तस्य दुःखितस्य विधेर्विधातुर्मंनोरथोऽभिलाषः पूर्यतां परिपूर्णी [^3]भूयँताम् । चेत्येवं इत्येवं प्रकारेण या जीवित-
टिप्प० -

 
[^
1]F. महाऽनभिज्ञत्वमेतद् यत् तदिदं विशेषणीक्रियते । अतः 'तिर्यग्जातिपतितेन' इत्येव
पाठः ।
[^
2]F. 'स्वात्' इत्येव पूर्वानुषङ्गः ।
[^
3]F. हा हन्त ! किं प्रलपति ।
 
पाठ70-
-

 
[^
]G. अनुबन्धिनी पराधीनेव.
[^
]G. वेदिदेशे.
[^
]G. तीर्यग्जातिपतितेन.
[^
परम्]G. परम्.
[^
]G. तत्रापि .
[^
]G. तत्रापरत्र
का
क्वापि यातु यत्र शरीरम्
 
.