कादम्बरी /711
This page has not been fully proofread.
६७८
कादम्बरी ।
[ कथायाम्-
याम्बराकाण्डकलुषं भास्वत्प्रभालोकमारब्धाः क्रमेण यथासूक्ष्मं तारकाः प्रवेष्टुम् । एष
पम्पासरः शायिनां प्रबोधाशंसी समुच्चरति कोलाहल : श्रोत्रहारी विहंगमानाम् । एते च नि-
शीथिनीपरिमलशीतलाच लितवनकुसुम परिमलग्राहिणो वातुं प्रवृत्ताः प्रभातपिशुना वायवः ।
प्रत्यासन्नाग्निविहारैवेला' इत्यभिधान एव गोष्ठीं भक्त्वोदतिष्ठत् ।
अथोत्थिते भगवति जाबालो वीतरागापि निष्कौतुकापि मोक्षमार्गावस्थानापि समस्तैव
सा तपस्विपरिषत्कथारसाद्विस्मृतगुरूचितप्रतिपत्तिः शृण्वतीवोत्कण्ठिततया विस्मयोत्फुल्लमुखी
णामालोकः प्रकाशस्तस्य ततिः पतिः । श्रेणिरित्यर्थः । 'राजिलेखा ततिवाँ थिः' इति हैमः । इमाः प्रत्यक्षदृश्याः
सह शेषेण वर्तते तत्सशेषम् । स्वल्पमित्यर्थः । एतादृशं यत्तिमिरं ध्वान्तं तस्य भावस्तत्ता तयाम्बरे व्योन्या-
काशेऽकाण्ड कलुषम प्रस्तावमलिनमसमयमलिनं भास्वत्प्रभालोकं सूर्यदीप्तिप्रकाशं सहस्रदीधितिकान्ति उद्योतं
तारकास्ताराः क्रमेण यथासूक्ष्मं सूक्ष्मं यथा स्यात्तथा प्रवेष्टुं प्रवेशं कर्तुमारब्धाः प्रारब्धा आरम्भं कृतवत्यः ।
एषोऽसौ पम्पाभिधानं सरः पम्पा नाम सरोवरं तत्र तस्मिञ्शायिनां सुप्तानां विहंगमानां पक्षिणां श्रोत्रयोः कर्ण-
योर्हारी मनोहरः, प्रबोधो विनिद्रत्वं तदाशंसति कथयतीत्येवंशीलः स तथैवंविधः कोलाहलः कलकलः समुच्च-
रति सम्यक्प्रसरति विस्तरति । एते च प्रत्यक्षगम्या निशीथिन्यां त्रियामायां परिगतो मलो यस्मात्स परिमलोड-
ङ्गरागस्तन शीतलाः शिशिराः । माघकाव्य उक्तमस्ति - 'नवपरिभलगन्धः केन शक्यो वरीतुम्' इत्यत्र परि-
मलशब्देनाङ्गराग एव विवक्षितः । अन्यथा गन्धशब्दस्य वैयर्थ्यं स्यात् । चलितानि कम्पितानि यानि वनानि
तेषां कुसुमानां परिमलो गन्धस्तं गृह्णन्तीत्येवंशीलास्ते तथा प्रभातस्य प्रत्यूषस्य पिशुनाः सूचका एवंविधा वायवः
पवनाः समीरणा वातुं यातुं प्रवृत्ताः प्रवर्तितवन्तः । 'व्युष्टं विभातं प्रत्यूषम्' इति हैमः । प्रत्यासन्ना समीप
वर्तिनी निकटस्थायिनी । पदैकदेशे पदसमुदायोपचारात् अभिशब्देनाग्निहोत्रं तत्र विहारो विहरणम् । गमन-
मिति यावत् । लस्य वेलावसरः प्रस्तावसमयः । 'वेला वारामवसरे' इति कोशः । इत्यभिधान एवेतिब्रुवाण
एव गोष्ठीं श्रवणार्थमिलितजनसमूहात्मिकां भक्त्वा दूरीकृत्योदतिष्ठदुत्थितो बभूव । 'समज्या परिषद्गोष्ठी सभा-
• समितिसंसदः' इत्यमरः ।
।
अथोत्थिते भगवति जाबाली वीतरागापि नीरागापि निष्कौतुकापि विगतकुतूहलापि गताश्चर्यापि मोक्षमार्गे
निर्वाणमार्गेऽवस्थानमवस्थितिर्यस्या एवंविधाप्येतादृश्यपि समस्तैव सर्वापि तपस्विपरिषन्मुनिजनसभा कथाया
वार्ताया रसाद्विस्मृता विस्मरणं प्राप्ता । गुरावुचिता योग्या प्रतिपत्तिः सेवा यस्याः सा तथा । शृण्वतीवा कर्ण -
यन्तीवोत्कण्ठिततया रणरणकतया विस्मयेनाश्चर्येणोत्फुल्लं विकसितं मुखं यस्याः सा तथा । युगपदेकवारमा-
टिप्प० - 1 अरुणा सूर्यस्याssलोकराजिः तमोरूपं केशसंचयं सीमन्तयन्तीव ( सीमन्त ( केशपाश ).
रूपे परिणमयन्तीव ) उल्लसतीत्यर्थः । वास्तवे तु भागद्वयविभाजितस्य केशपाशस्य मध्यवर्तिनी रेखा
सीमन्तः । अत एव हि तन्त्र सिन्दूराहणतास्पर्शाय सामरसपत्रारुति विशेषणम् । एवं सत्वे - तमः केश-
संघातं सीमन्तयन्तीति कबेरुक्ति:- तमः केशपाशं ( प्रति ) सीमन्तयन्ती ( सीमन्तमिवात्मानमाचरम्ती)
इति यथा कथंचित्संगमनीया स्यादिति मार्मिकैर्विमृश्यम् । 2 अकाण्डे कलुषो भास्त्रप्रभालोकः ? किमि-
ति ? अविचाररम्योयं पाठ: । 'अम्बरैककाण्डपटकलुषम्' इति पाठः । ततश्च – तिमिरावशेषसहिततया
अम्बरस्य ( आकाशस्य ) एककाण्डपट ( तिरस्करिणी ) व कलुषो ( मलिनो ) यः सूर्यप्रभालोकः तं
तारकाः यथासूक्ष्मं प्रवेष्टुमारब्धाः । किञ्चिदन्धकारसहिते सूर्यालोके स्वल्पप्रकाशं प्रथमं ततः परमधि
कप्रकाशमिति क्रमेण नक्षत्राण्यडइयान्यभवन्नित्याशयः ।
पाठा०—१ अडकलुषम् ; एककाण्डपटकलुषम् २ परिमलने; परिमलम् ३ विहरण. ४ निष्कामुकापि.
५ उत्कण्टकिततया; उत्कण्ट कितकाया.