This page has not been fully proofread.

पुनः पूर्वावस्थाप्राप्तिप्रश्नः ]
 
उत्तरभागः ।
 
६७७
 
कामपरता जाता। मरणं च मदनवेगसंज्वरासहिष्णोस्तथोपनतम् । अधुनापि तादृश एवा.
ल्पायुरयम् । शापावसानानन्तरकालं यदस्याक्षयेणायुषा योगो भविष्यति' इति ।
 

 
,
 
एतच्छ्रुत्वा पुनरवनितलनिवेशित शिराः प्रणम्य भगवन्तं व्यज्ञापयम् – 'भगवन्, अह-
मपुण्यवानस्यां तिर्यग्योनौ वर्तमानः स्वयं सर्वस्यैवाक्षमः । वागपि मे भगवतः प्रसादात्सं-
प्रत्येवानने संभूता । भूतपूर्व च ज्ञानमन्तरात्मनि । शरीरं पुनरायुःसंवर्धककर्मयोग्यं भग-
वतः प्रसादादैन्यस्मिजन्मनि यदि भवेत् तत्केन प्रकारेणाक्षयं तन्मे महाकर्मसाध्यमावि-
भविष्यतीत्येतदाज्ञापयतु भगवान्' इत्येवं विज्ञापितस्तु मया, दिक्षु विक्षिप्य चक्षुर्भगवाना-
ज्ञापितवान् 'एतदपि यथा, तथा ज्ञास्यस्येव । तावदिये कथास्ताम् । रसाक्षेपादचेतितैवा-
स्माभिः प्रभातप्राया रजनी । प्रभाविरहादनुमृष्टरजतकुम्भा भमि इमेपरान्तावलम्बि वर्तते
रजनिकरबिम्बम् । यथायथोद्गमविस्तारिणी जरत्तामरसपत्रारणा पाण्डुच्छविसहसति सीम-
न्तयन्ती तमः केशसंघातमिव पूर्वस्याः ककुभोऽरुणाप्रकरौलोकततिः । इमाः सशेष तिमिरत-
तत्तस्मात्कारणादयमीदृश एवोत्पन्नो येन कारणेनास्य पुण्डरीकस्य तादृशी कामपरता मदनायत्तता जाता । मरणं
च मृत्युं च मदनवेगात्कंदर्पर याद्यः संज्वरः संतापस्तस्यासहिष्णोरसहनशीलस्य तथा प्रकारेणोपनतं प्राप्तम् ।
अधुनापि सांप्रतमपि तादृश एव तथावस्थ एवायं शुकोऽल्पायुः स्वल्पजीवितः । शापस्यावसानं प्रान्तस्तस्मा-
दनन्तरं कालमव्यवहितकालं यदस्याक्षयेणायुषा सह योगो भविष्यतीति ।
 
एतच्छ्रुला पुनरवनितलनिवेशितशिरा भगवन्तं प्रणम्य व्यज्ञापयं विज्ञप्तिं कृतवाविज्ञप्तिं चकार अहम् । किं
तदित्याह - भगवनिति । हे भगवन, अहं खपुण्यवान् । अस्यां तिर्यग्योनौ वर्तमानः स्वयमात्मना सर्वस्यैव
कार्यस्याक्षमोऽसमर्थः । वागपि वाचापि मे मम भगवत्प्रसादात्संप्रत्येव सांप्रतमेवानने संभूता जाता । पूर्व भूतं.
भूतपूर्व क्वचिदमान्यं तस्य परत्वमिति पूर्वशब्दस्य परप्रयोगः । एतादृशं ज्ञानमन्तरात्मनि संभूतम् । शरीरं पुन-
रायुषः संवर्धकानि यानि कर्माणि कृत्यानि तेषु योग्यं समर्थ भगवतः प्रसादाम्माहात्म्यादन्यस्मिजन्मनि यदि भवे-
हस्यात्तत्तस्मात्कारणान्मे मम महाकर्मभिः साध्यं महाकर्माणि साध्यानि यस्मिन्निति वा आयुर्जीवितं केन प्रकारे-
णाक्षयं भविष्यतीत्येतदाज्ञापयतु कथयतु भगवान् । इत्येवं मया विज्ञापितो विज्ञप्तिविषयीकृतः । तु पुनरर्थे । दिक्षु
चक्षुर्विक्षिप्य प्रेर्य भगवानाज्ञापितवान् । किं तदित्याह- एतदिति । एतदपि वधुतमपि यथा वर्तते तथा
त्वं ज्ञास्यस्येवाप्रे, त्वया ज्ञातं भविष्यत्येव । इयं कथा तावदास्तां तिष्ठतु । रंसाक्षेपावसाकर्षादस्माभिः प्रभातप्राया
रजनी निशाऽचेतितैवाज्ञातैव । प्रभाविरहायुतेर्विरहात्कान्तेरभावादनुन्मृष्टोऽसंमार्जितो न स्फोटितो यो रज-
तकुम्भो रौप्यघटस्तद्वदाभा श्रीर्यस्य तत्तथा । 'आभा राढा विभूषा श्रीः' इति हैमः । इदमपरान्तावलम्बि
पश्चिमान्तावलम्बि पश्चिमाशावलम्बि रजनिकर बिम्बं निशाकर प्रतिबिम्बं शशाङ्कमण्डलं वर्तते । यथायथ-
मिति । यथा च यथा च यथायथम् । 'नित्यवीप्सयोः' इति द्वित्वम् । यथाप्रकार मुद्गमेनोदयेन विस्तारिणी
विस्तरणशीला जरत्पक्कं परिपकं यत्तामरसं पद्मम् । रक्तकमलमित्यर्थः । तस्य पत्राणि दलानि पर्णानि तद्वद
रुणा रक्ता आ ईषत्पाण्डुच्छवि: । 'रक्तोत्पलं तामरसम्' इति हैमः । पूर्वस्याः ककुभ ऐन्द्र्या दिशस्तमोलक्षणं
केशसंघात मलकसमूहं सीमन्तयन्तीव सीमन्तं कुर्वन्तीवोल्लसत्युल्लासं प्राप्नोति । अरुणस्य रविसारथिनोऽप्रकरा
टिप्प० - 1 मृत्युश्चेत्युचितम् । 2 कस्य अपरान्तम् ? इति सापेक्षमेव । अतः 'अपराम्बरान्तावलम्बि
( पश्चिमाकाशविलम्बि ) ' इति पाठो योग्यः ।
 
पाठा
 
com
 
-१ उपगतम्. २ अस्य ३ संवर्धनीयम् ४ अस्मिन् ५ केनचित् ६ आस्तां तावदियं कथाः
७ उन्मृष्ट. ८ दर्पणाभस् ९ अम्बरान्तरावलम्बि; अपराम्भरान्तावलम्बि १० यथायथोगमन. ११ आलोकवर्ति,
आलोकान्तरिताः.