2023-09-27 03:33:42 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

३८
 
कादम्बरी ।
 
[ कथामुखे-
मापीतो जम्बूफलरसः,
 
हरि [^१]नखर [^२]भिन्नमत्तमातङ्गकुम्भ- मुक्तरक्तार्द्रमुक्ताफलत्वींषि खण्डितानि
 
हरिनखरभिन्नमत्तमातङ्गकुम्भमुक्तरक्तार्द्रमुक्ताफलत्वींषि
[^३]दाडिमबीजानि, नलिनीदलहरिन्ति द्राक्षाफलस्वादूनि च [^४]चूर्णितानि स्वेच्छया प्राचीनामल-
कीफलानि । किं वा प्रलपितेन बहुना । सर्वमेव देवीभिः स्वयं करतलोपनीयमानममृतायते'
इति एवंवादिनो वचनमाक्षिप्य नरपतिरब्रवीत्
- 'आस्तां ताव [^५]त्सर्वम् । अपनयतु नः कुतूह
लम् । आवेदयतु भवानादितः प्रभृति कात्सर्येनात्मनो जन्म कस्मिन्देशे, भवान्कथं जातः,
केन वा नाम कृतम्, की[^६]का ते माता, कॅ[^७]कस्ते पिता, कथं वेदानामागमः, कथं शास्त्राणां परि
चयः, कुतः कला [^८]आसादिताः, किंहेतुकं जन्मान्तरानुस्मरणम्, उत वरप्रदानम्, अथवा
[^१०]विङ्गहवेषधारी कश्चि [^११]च्छन्नं निवससि, क्व वा पूर्वमुषितम्, कियद्वा वयः, कै[^१२]कथं [^१३]पञ्जरबन्धनम्,

कथं चाण्डालहस्तगमनम्, इह वा कथमागमनम्' इति । वैशम्पायनस्तु स्वयमुपजातकुतूह-

 

 
[ टि ]--
शयेनातृप्तिमर्यादं पीतः पानविषयीकृतो जम्बूः सुरभिपत्रा तस्याः फलानि सस्यनि तेषां रसोऽन्तर्भूतद्रवः ।
कीदृशः । नीलः सन्पाटलः श्वेतरक्तः । अत एव आमत्तेति । आमत्तो मदोन्मत्तो यः कोकिलः पिकस्तस्य
लोचनच्छविरिव छविर्यस्य स तथा । पुनः कीदृक् । कषायोऽम्लो मधुरो मिष्टश्चेति कर्मधारयः । अथ च खण्डि-
तानि शकलीकृतानि । मयेति शेषः । कानि । दाडिमबीजानि । अथैतानि विशेषयन्नाह - हरीति । हरिः
सिंहस्तस्य नखरा नखास्तैर्भिन्ना ये मत्तानां मातङ्गानां कुम्भा मांसपिण्डाः तेभ्यो मुक्तान्यपगतानि यानि
रक्तानि रुधिराणि तैरार्द्राणि स्विन्नानि यानि मुक्ताफलानि तद्वत्त्विद्ट् कान्तिर्येषु तानि । नलिनीति ।
नलिनी कमलिनी तस्या दलानि पत्राणि तद्वद्धरिन्ति नीलानि । द्वाराक्षेति । द्राक्षा गोस्तनी तस्याः फलानि
तद्वत्स्वादूनि मिष्टान्येवंविधानि प्राचीनामलकी क्षीरधात्री तस्याः फलानि स्वच्छया स्वाधीनतया चूर्णि-
तानि मर्दितानि । किंवा नास्वादितानीति पूर्वानुषङ्गः । प्रीत्यतिशयस्यावक्तव्यत्वमाह - किं वेति । बहुना प्रल-
पितेन कथितेन किं वा । न किमपीत्यर्थः । सर्वमेवेति । जम्बूरसादिकं देवीभी राजपत्नीभिः स्वयं न परतः
करतलोपनीयमानं हस्ततलेनोपनीयमानं मदर्थमानीयमानममृतायते अमृतवदाचरति । 'उपमानादाचारे' इति
क्य॑
[^1]क्यच्प्रत्ययेनात्मनेपदम् । इति वाक्य- समाप्तौ । एवं पूर्वोक्तप्रकारेण वादिनो ब्रुवतः कीरस्य वचनं वाक्यमाक्षिप्य
तिरस्कृत्यान्यदेव जिज्ञासितुं प्रष्टुं नरपती राजाब्रवीत् । पूर्ववक्तव्यतायामनादरमाह - आस्तां तावदिति ।
सर्वं पूर्वोक्तं तावदादावास्तां तिष्ठतु । नोऽस्माकं कुतूहलमाश्चर्यं पक्षिणा सर्वशास्त्रविषयकं ज्ञानं स्यादित्यव
येवरूपमपनयतु दूरीकरोतु । तदेव दर्शयति – आवेदयत्विति । कार्येन समग्रत्वेनादितः प्रभृत्युत्पत्ति- समया-
दारभ्यावेदयतु कथयतु भवान् । तदेव दर्शयति — आत्मन इत्यादि । कस्मिन्देशे कुत्र जनपद आत्मनः
[^2]स्वकीयस्य जन्मोत्पत्तिः । कथं केन प्रकारेण भवांस्त्वं जात उत्पन्नः । केन वा वैशम्पायन इति नामाभिधानं
कृतं विहितम् । ते तव का माता जननी । ते कः पिता जनकः । कथं केन प्रकारेण वेदानामाम्नायानामा - मागम
उपलब्धिः । कथं शास्त्राणां न्यायमीमांसादीनां परिचयोऽवबोधः । कुतः कस्मात्कला विज्ञानैकदेशा द्वासप्तति-

भेदभिन्ना आसादिता अभ्यस्ताः । किंहेतुकं किंनिमित्तकं जन्मान्तरस्य पूर्वजन्मनोऽनुस्मरणमनुभूतार्थज्ञानम् ।

उताहोखिस्विद्वरप्रदानम् । यद्वा । केनचिद्वरः प्रदत्तो येन जन्मान्तरं जानासीति भावः । अथवेति पक्षान्तरे । सिद्ध
एव वा कश्चित् कश्चन त्वं विहङ्गानां पक्षिणां वेषधारी छन्नं गूढं निवससि निवास करोषि । व वा कस्मि-
न्स्थलेऽन्त्रागमनात्पूर्वमुषितं स्थितम् । ते कियद्वार्षिकं वयः कौमारादि । कथं केन प्रकारेण पञ्जरः पक्षिणां गृहं
 

 
टिप्प० –

 
 
[^
1]F. क्यच् प्रत्यये सति नात्मनेपदम् । तेन 'कर्तु: क्यङ् सलोपश्च' इति क्यङ्प्रत्यये तात्पर्
यं बोध्यम् ।
 

[^
2]F. स्वस्येत्यर्थः ।
 
पाठा० -

 
[^
]G. करखरनखर.
[^
]G. निभिन्न .
[^
]G. दाडिमी.
[^
]G. वलितानि; समाखास्वादितानि.
[^
]G. सर्वमेवेदम्.
[^
]G. का माता.

[^
]G. कः पिता.
[^
]G. समासादिताः.
[^९]G.
किं जन्मान्तर .
[^
१०]G. विग.
[^
११]G. छन्नो.
[^
१२]G. कथं वा.
[^
१३]G. बन्धः
 
.