कादम्बरी /71
This page has not been fully proofread.
३८
कादम्बरी ।
[ कथामुखे-
मापीतो जम्बूफलरसः,
खण्डितानि
हरिनखरभिन्नमत्तमातङ्गकुम्भमुक्तरक्तार्द्रमुक्ताफलत्वींषि
दाडिमबीजानि, नलिनीदलहरिन्ति द्राक्षाफलस्वादूनि च चूर्णितानि स्वेच्छया प्राचीनामल-
कीफलानि । किं वा प्रलपितेन बहुना । सर्वमेव देवीभिः स्वयं करतलोपनीयमानममृतायते'
इति एवंवादिनो वचनमाक्षिप्य नरपतिरब्रवीत्
- 'आस्तां तावत्सर्वम् । अपनयतु नः कुतूह
लम् । आवेदयतु भवानादितः प्रभृति कात्सर्येनात्मनो जन्म कस्मिन्देशे, भवान्कथं जातः,
केन वा नाम कृतम्, की ते माता, कॅस्ते पिता, कथं वेदानामागमः, कथं शास्त्राणां परि
चयः, कुतः कला ऑसादिताः, किंहेतुकं जन्मान्तरानुस्मरणम्, उत वरप्रदानम्, अथवा
विवेषधारी कच्छन्नं निवससि, क वा पूर्वमुषितम्, कियद्वा वयः, कैथं पञ्जरबन्धनम्,
कथं चाण्डालहस्तगमनम्, इह वा कथमागमनम्' इति । वैशम्पायनस्तु स्वयमुपजातकुतूह-
१
शयेनातृप्तिमर्यादं गतः पानविषयीकृतो जम्बूः सुरभिपत्रा तस्याः फलानि सस्यनि तेषां रसोऽन्तर्भूतद्रवः ।
कीदृशः । नीलः सन्पाटलः श्वेतरक्तः । अत एव आमत्तेति । आमत्तो मदोन्मत्तो यः कोकिलः पिकस्तस्य
लोचनच्छविरिव छविर्यस्य स तथा । पुनः कीदृक् । कषायोऽम्लो मधुरो मिष्टश्चेति कर्मधारयः । अथ च खण्डि-
तानि शकलीकृतानि । मयेति शेषः । कानि । दाडिमबीजानि । अथैतानि विशेषयन्नाह - हरीति । हरिः
सिंहस्तस्य नखरा नखास्तैर्भिन्ना ये मत्तानां मातङ्गानां कुम्भा मांसपिण्डाः तेभ्यो मुक्तान्यपगतानि यानि
रक्तानि रुधिराणि तैराद्राणि स्विन्नानि यानि मुक्ताफलानि तद्वत्त्विद् कान्तिर्येषु तानि । नलिनीति ।
नलिनी कमलिनी तस्या दलानि पत्राणि तद्वद्धरिन्ति नीलानि । द्वाक्षेति । द्राक्षा गोस्तनी तस्याः फलानि
तद्वत्स्वादूनि मिष्टान्येवंविधानि प्राचीनामलकी क्षीरधात्री तस्याः फलानि स्वच्छया स्वाधीनतया चूर्णि-
तानि मर्दितानि । किंवा नास्वादितानीति पूर्वानुषङ्गः । प्रीत्यतिशयस्यावक्तव्यत्वमाह - किं वेति । बहुना प्रल-
पितेन कथितेन किं वा । न किमपीत्यर्थः । सर्वमेवेति । जम्बूरसादिकं देवीभी राजपत्नीभिः स्वयं न परतः
करतलोपनीयमानं हस्ततलेनोपनीयमानं मदर्थमानीयमानममृतायते अमृतवदाचरति । 'उपमानादाचारे' इति
क्य॑च्प्रत्ययेनात्मनेपदम् । इति वाक्यसमाप्तौ । एवं पूर्वोक्तप्रकारेण वादिनो ब्रुवतः कीरस्य वचनं वाक्यमाक्षिप्य
तिरस्कृत्यान्यदेव जिज्ञासितुं प्रष्टुं नरपती राजाब्रवीत् । पूर्ववक्तव्यतायामनादरमाह - आस्तां तावदिति ।
सर्वं पूर्वोक्तं तावदादावास्तां तिष्ठतु । नोऽस्माकं कुतूहलमाश्चर्यं पक्षिणा सर्वशास्त्रविषयकं ज्ञानं स्यादित्यव
रूपमपनयतु दूरीकरोतु । तदेव दर्शयति – आवेदयत्विति । कार्येन समग्रत्वेनादितः प्रभृत्युत्पत्तिसमया-
दारभ्यावेदयतु कथयतु भवान् । तदेव दर्शयति — आत्मन इत्यादि । कस्मिन्देशे कुत्र जनपद आत्मनः
स्वकीयस्य जन्मोत्पत्तिः । कथं केन प्रकारेण भवांस्त्वं जात उत्पन्नः । केन वा वैशम्पायन इति नामाभिधानं
कृतं विहितम् । ते तव का माता जननी । ते कः पिता जनकः । कथं केन प्रकारेण वेदानामाम्नायानामा गम
उपलब्धिः । कथं शास्त्राणां न्यायमीमांसादीनां परिचयोऽवबोधः । कुतः कस्मात्कला विज्ञानैकदेशा द्वासप्तति-
भेदभिन्ना आसादिता अभ्यस्ताः । किंतुकं किंनिमित्तकं जन्मान्तरस्य पूर्वजन्मनोऽनुस्मरणमनुभूतार्थज्ञानम् ।
उताहोखिद्वरप्रदानम् । यद्वा । केनचिद्वरः प्रदत्तो येन जन्मान्तरं जानासीति भावः । अथवेति पक्षान्तरे । सिद्ध
एव वा कश्चित् कश्चन त्वं विहङ्गानां पक्षिणां वेषधारी छन्नं गूढं निवससि निवास करोषि । व वा कस्मि-
न्स्थलेऽन्त्रागमनात्पूर्वमुषितं स्थितम् । ते कियद्वार्षिकं वयः कौमारादि । कथं केन प्रकारेण पञ्जरः पक्षिणां गृहं
।
टिप्प० – 1 क्यच् प्रत्यये सति नात्मनेपदम् । तेन 'कर्तु: क्यङ् सलोपश्च' इति क्यङ्प्रत्यये तात्पर्य
बोध्यम् ।
2 स्वस्येत्यर्थः ।
पाठा० - १ करखरनखर. २ निभिन्न ३ दाडिमी. ४ वलितानि; समाखादितानि. ५ सर्वमेवेदम्. ६ का माता.
७ कः पिता. ८ समासादिताः. किं जन्मान्तर १० विग. ११ छन्नो. १२ कथं वा. १३ बन्धः