2023-11-15 11:05:53 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

एवं च विज्ञापितो मया सासूयमिव मामवलोक्य भगवाञ्जाबालि : सस्नेहकोपगर्भं प्रत्यवादीत् – 'दुरात्मन्, ययैतावतीं दशामुप- नीतोऽसि कथं तामेव [^१]तरलहृदयतामनुबध्नासि । अद्यापि [^२]पक्षावपि नोद्भिद्येते तत्संचरणक्षमस्तु तावद्भव । ततो मां प्रक्ष्यसि' इत्येवमुक्ते भगवता, समुपजातकुतूहलो हारीतः पप्रच्छ – 'तात, महानयं विस्मयो मे । कथय कथमस्य मुनिजातौ वर्तमानस्य तादृशी कामपरता जाता ? यया जीवितमपि न संधारयितुं पारितम् । कथं च दिव्यलोकसंभूतस्य तथा स्वल्पमायुः संवृत्तम् ? इत्येवं च पृष्टः सूनुना भगवाञ्जाबालिरमलाभिः पापमलमिव [^३]प्रक्षाल- यन्दशनदीधितिसलिलधाराभिः प्रत्यवादीत् - 'स्पष्टमेवात्र कारणम् । वत्स, अयं हि कामरागमोहमयादल्पसारात्स्त्रीवीर्यादेव केवला- दुत्पन्नः। श्रुतौ च पठ्यत [^४]एतद्यादृशाद्वै जायते तादृगेव भवतीति । लोकेऽपि च प्रायः कारणगुणभाञ्ज्येव कार्याणि दृश्यन्ते । तथा चै [^५]तदायुर्वेदेऽपि श्रूयते – यः किलाल्पसारात्स्त्रीवीर्यादेव केवलाज्जन्तुर्भवति स खल्वभावात्सारभूतस्य स्थैर्यहेतोः पुरुष- वीर्यस्य, [^६]यथासारं गर्भे वा विलयमापद्यते, मृतो वा जायते, जातो वा न दीर्घकालं जीवतीति । तदयमुत्पन्न एवेदृशो येनास्य तादृशी
 
[ टि ]-- एवं च विज्ञापितो मया सासूयमिव सेर्ष्यमिव मामवलोक्य निरीक्ष्य वीक्ष्य भगवाञ्जाबालिः सह स्नेहेन वर्तते यत्तत्सस्नेहं कोपगर्भं च सस्नेहकोपगर्भं प्रत्यवादीत्प्रत्यब्रवीत् – हे दुरात्मन् हे दुष्टात्मन्, ययैतावतीं दशामवस्थां त्वमुपनीतः प्रापितोऽसि कथं तामेव तरलहृदयतां चञ्चलचित्ततामनुबध्नासि करोषि । अद्यापि पक्षावपि वाजावपि नोद्भिद्येते नोद्गच्छतः । तत्तस्मात्कारणात्संचर-
णक्षमस्तु गमनसमर्थस्तु तावद्भव । ततस्तदनन्तरं मां प्रक्ष्यसि प्रश्नयिष्यसि । इत्येवं भगवतोक्ते कथिते समुपजातं कुतूहलमाश्चर्यं यस्यैवंभूतो हारीतः पप्रच्छ प्रश्नमकार्षीत् । हे तात हे पितः, महानयं मे मम विस्मयो वर्तते । अस्य पुण्डरीकस्य मुनिजातौ वर्तमानस्य तादृशी कामपरता जाता कंदर्पपरवशता जाता । तत्कथय कथम् । यया कामपरतया जीवितमपि संधारयितुं धर्तुं न पारितं न शक्तम् । कथं च दिव्यलोके संभूतस्य तथा स्वल्पमायुः स्तोकमायुः संवृत्तम् । इत्येवं पृष्टश्च सूनुना भगवाञ्जाबालिरमलाभिर्निर्मलाभिर्दशनदीधिति- सलिलधाराभी रदनकान्तिधाराभिः पापमलमिव[^1]प्रक्षालयनु-
ज्ज्वलीकुर्वन्प्रत्यवादीत्प्रत्यब्रवीत् । किं तदित्याह- स्पष्टमिति । अत्र कारणं निदानं स्पष्टमेव प्रकटमेव । हे वत्स हे पुत्र, अयं हि पुण्डरीकः कामरागो रताभिलाषो मोहो मौढ्यं ताभ्यां निष्पन्न- स्तन्मयस्तस्मादल्पसारादल्पबलात्स्त्रीवीर्यादेव केवलात्पुरुषवीर्या- संभिन्नादुत्पन्नः प्रादुर्भूतः प्रकटीभूतः, तत्पूर्वखण्डे व्याख्यातमेव नेहोच्यते । इत्येतच्छ्रुतौ च वेदे च पठ्यते भण्यते । तदेवाह — यादृशादिति । यादृशाद्वै निश्चयेन जायते उत्पद्यते तादृगेव तादृश एव भवत्युत्पद्यते । लोकेऽपि च प्रायो बाहुल्येन न सर्वत्र कारणं समवायिकारणमिह गृह्यते न निमित्तकारणं व्यभिचारात्तस्य गुणाः शुक्लादयस्तान्भजन्तीत्येवंशीलानि कार्याणि जन्यानि दृश्यन्तेऽव-
लोक्यन्ते । तथा चैतदायुर्वेदेऽपि वैद्यकशास्त्रेऽपि श्रूयत आकर्ण्यते । किलेत्याप्तवचने । योऽल्पसारात्स्त्रीवीर्यादेव केवलाज्जन्तुः प्राणी संभवत्युत्पद्यते स खल्विति पूर्ववत् निश्चये वा । सारभूतस्य बलभूतस्य स्थैर्यहेतोः स्थिरताकारणस्य पुरुषवीर्यस्याभावात् [^3]यथासारं यथाबलं स्यात् । गर्भे वा विलयं विलीनतामापद्यते, मृतो वा जायते, जातो वोत्पन्नो वा न दीर्घकालं बहुकालं जीवति प्राणिति ।
 

 
टिप्प० -
[^1]F. 'पापमलमिव प्रक्षालयन्मे' इत्येव पाठः । 'मे' इत्यस्याऽऽव- श्यकता च, अन्यथा कस्य
तत्र पापप्रक्षालनम् ? टीकाकारपुंगवेन न दृष्टमेतत् ।
[^
2]F. सर्वमशुद्धं, तात्पर्य मात्रं ग्राह्यं सहृदयैः ।
[^
3]F. यथा-
सारं सारानुसारं गर्भे विलयमापद्यत इत्यर्थः ।
 
पाठा० === [^]G. हृदयतरलताम्.
[^
]G. पक्षावेव.
[^
]G. मे प्रक्षालयन्.
[^
]G. यादृशात् .
[^
]G. चेति .
[^
]G. गर्भे.