कादम्बरी /709
This page has not been fully proofread.
1
६७६
कादम्बरी ।
[ कथायाम्-
M
एवं च विज्ञापितो मया सासूयमिव मामवलोक्य भगवाजाबालि : सस्नेहकोपगर्भं प्रत्य-
वादीत् – 'दुरात्मन्, ययैतावतीं दशामुपनीतोऽसि कथं तामेव तैरलहृदयतामनुबध्नासि ।
अद्यापि पेक्षावपि नोद्भियेते तत्संचरणक्षमस्तु तावद्भव । ततो मां प्रक्ष्यसि' इत्येवमुक्ते
भगवता, समुपजातकुतूहलो हारीतः पप्रच्छ – 'तात, महानयं विस्मयों मे । कथय कथ
मस्य मुनिजाती वर्तमानस्य तादृशी कामपरता जाता ? यया जीवितमपि न संधारयितुं
पारितम् । कथं च दिव्यलोकसंभूतस्य तथा स्वल्पमायुः संवृत्तम् ? इत्येवं च पृष्टः सूनुना
भगवाजाबालिरमलाभिः पापमलमिव प्रक्षालयन्दशनदीधितिसलिलधाराभिः प्रत्यवादीत् -
'स्पष्टमेवात्र कारणम् । वत्स, अयं हि कामरागमोहमयादल्पसारात्स्त्री वीर्यादेव केवलादुत्पन्नः ।
श्रुतौ च पठ्यत ऐतद्यादृशाद्वै जायते ताहगेव भवतीति । लोकेऽपि च प्रायः कारणगुणभाञ्ज्येव
कार्याणि दृश्यन्ते । तथा चैतेदायुर्वेदेऽपि श्रूयते – यः किलाल्पसारात्स्त्रीवीर्यादेव केवलाज-
न्तुर्भवति स खल्वभावात्सारभूतस्य स्थैर्य हेतोः पुरुषवीर्यस्य, यथासारं गर्ने वा विलयमापद्यते,
मृतो वा जायते, जातो वा न दीर्घकालं जीवतीति । तद्यमुत्पन्न एवेदृशो येनास्य तादृशी
एवं च विज्ञापितो मया सासूयमिव सेर्ध्यमिव मामवलोक्य निरीक्ष्य वीक्ष्य भगवाजाबालिः सह
स्नेहेन वर्तते यत्तत्सस्नेहं कोपगर्भ च सस्नेहको पगर्भ प्रत्यवादीत्प्रत्यब्रवीत् – हे दुरात्मन् हे दुष्टात्मन्,
ययैतावतीं दशामवस्थां त्वमुपनीतः प्रापितोऽसि कथं तामेव तरलहृदयतां चञ्चलचित्ततामनुबध्नासि
करोषि । अद्यापि पक्षावपि वाजावपि नोद्भिद्येते नोद्गच्छतः । तत्तस्मात्कारणात्संचरणक्षमस्तु गमन-
समर्थस्तु तावद्भव । ततस्तदनन्तरं मां प्रक्ष्यसि प्रश्नयिष्यसि । इत्येवं भगवतोक्ते कथिते समुपजातं
कुतूहलमाश्चर्यं यस्यैवंभूतो हारीतः पप्रच्छ प्रश्नमकार्षीत् । हे तात हे पितः, महानयं मे मम विस्मयो
वर्तते । अस्य पुण्डरीकस्य मुनिजातौ वर्तमानस्य तादृशी कामपरता जाता कंदर्पपरवशता जाता । तत्कथय
कथम् । यया कामपरतया जीवितमपि संधारयितुं धर्तुं न पारितं न शक्तम् । कथं च दिव्यलोके संभूतस्य
तथा स्वल्पमायुः स्तोकमायुः संवृत्तम् । इत्येवं पृष्टश्च सूनुना भगवाजाबालिरमलाभिर्निर्मला भिर्दशनदीधितिस-
लिलधाराभी रदनकान्तिधाराभिः पापमलमिव प्रक्षालयनुज्जवली कुर्वन्प्रत्यवादी प्रत्यब्रवीत् । किं तदित्याह-
स्पष्ट मिति । अत्र कारणं निदानं स्पष्टमेव प्रकटमेव । हे वत्स हे पुत्र, अयं हि पुण्डरीकः कामरागो रता-
भिलाषो मोहो मौढ्यं ताभ्यां निष्पन्नस्तन्मयस्तस्मादल्पसारा दल्पबलात्स्त्रीवीर्यादेव केवलात्पुरुषवीर्यासंभिन्ना-
दुत्पन्नः प्रादुर्भूतः प्रकटीभूतः, तत्पूर्वखण्डे व्याख्यातमेव नेहोच्यते । इत्येतच्छ्रुतौ च वेदे च पठ्यते भण्यते ।
तदेवाह — यादृशादिति । यादृशाद्वै निश्चयेन जायते उत्पद्यते ताहगेव तादृश एव भवत्युत्पद्यते । लोकेऽपि
च प्रायो बाहुल्येन न सर्वत्र कारणं समवायिकारणमिह गृह्यते न निमित्तकारणं व्यभिचारात्तस्य गुणाः शुक्ला-
दयस्तान्भजन्तीत्येवंशीलानि कार्याणि जन्यानि दृश्यन्तेऽवलोक्यन्ते । तथा चैतदायुर्वेदेऽपि वैद्यकशास्त्रेऽपि श्रूयत
आकर्ण्यते । किलेत्याप्तवचने । योऽल्पसारात्स्त्री वीर्यादेव केवलाजन्तुः प्राणी संभवत्युत्पद्यते स खल्विति पूर्ववत्
निश्चये वा । सारभूतस्य बलभूतस्य स्थैर्यहेतोः स्थिरताकारणस्य पुरुषवीर्यस्याभावात् यथासारं यथाबलं स्यात् ।
गर्ने वा विलयं विलीनतामापद्यते, मृतो वा जायते, जातो वोत्पन्नो वा न दीर्घकालं बहुकालं जीवति प्राणिति ।
2
टिप्प० - 1 'पापमलमिव प्रक्षालयन्मे' इत्येव पाठः । 'मे' इत्यस्याऽऽवश्यकता च, अन्यथा कस्य
तत्र पापप्रक्षालनम् ? टीकाकारपुंगवेन न दृष्टमेतत् । 2 सर्वमशुद्धं, तात्पर्य मात्रं ग्राह्यं सहृदयैः । 3 यथा-
सारं सारानुसारं गर्भे विलयमापद्यत इत्यर्थः ।
पाठा० === १ हृदयतरलताम्. २ पक्षावेव. ३ मे प्रक्षालयन्. ४ यादृशात् ५ चेति ६ गर्भे