कादम्बरी /708
This page has been fully proofread once and needs a second look.
सैव तदवाप्तिं प्रत्युत्सुकतेत्युपगतं सकलमेव । केवलमसंजातपक्ष- तया मे तस्मिन्समये पूर्वजन्मोपात्ता शरीरचेष्टा नासीत् । तथा चावि- र्भूतसकलान्यजन्मवृत्तान्तः समुत्सुकान्तरात्मा किं मातापित्रो:, किं तातस्य तारापीडस्य, किमम्बाया विलासवत्याः, किं वयस्यस्य चन्द्रापीडस्य, उत प्रथमसुहृदः कपिञ्जलस्य, आहोस्विन्महाश्वेताया इति नाज्ञासिषमेवं [^१]कस्य कस्य कथं वा स्मृतवानस्मीति । तथा चोत्सुकान्तरात्मा महीतलनिवेशितशिराश्चिरमिव स्थित्वा भगवन्तं
जाबालिं निजाविनयश्रवणलज्जया विलीयमान इव विशन्निव पाता-
लतलं कथमपि शनैः शनैर्व्यज्ञपयम् – 'भगवन्, त्वत्प्रसादादावि-
र्भूतज्ञानोऽस्मि संवृत्तः स्मृताः खलु मया सर्व एव पूर्वबान्धवाः । मूढतायां [^२]च यथैव तेषां स्मरणं नासीत्तथैव विरहपीडापि । अधुना पुनस्ता [^३]न्स्मृत्वा स्फुटतीव मे हृदयम् । न च [^४]तान्स्मृत्वापि तथा, यथा चन्द्रापीडम्, यस्य मदुपरतिश्रवण [^५]मात्रकात्स्फुटितं हृदयम् । [^६]तत्तस्यापि जन्माख्यानेन प्रसादं करोतु भगवान् । येनायं तिर्यग्योनिवासोऽपि मे तेन सहैकत्र वसतो न पीडाकरः संजायते' इति ।
[ टि ]-- प्रथमप्रतिपादित एव महाश्वेतायामनुरागोऽनुरतिरनु पश्चा- त्प्रेम, सैव तस्या महाश्वेताया अवाप्तिं प्राप्तिं प्रत्युत्सु कतौत्सुक्य- मिति सकलमेव समग्रमेवोपगतं प्राप्तम् । असंजातपक्षतयाऽप्रादु- र्भूतवाजतया मे मम तस्मिन् समये पूर्वजन्मोपात्ता शरीरचेष्टा चलनादिका नासीन्नाभवत् । तथा चाविर्भूतः प्रकटीभूतः प्रादुर्भूतः सकलः समस्तोऽन्यजन्मवृत्तान्तो भवान्तरोदन्तो यस्यैवंभूतः समु- त्सुकान्तरात्मोत्कण्ठितान्तरात्मा किं शुकनासमनोरमयो र्माता- पित्रोः, किं तातस्य तारापीडस्य, किमम्बाया विलासवत्याः, किं वयस्यस्य मित्रस्य, चन्द्रापीडस्य, उत प्रथमसुहृद आद्यमित्रस्य कपिञ्जलस्य आहोस्विन्महाश्वेताया इत्येवं [^1]कस्य कस्यैतन्म-
ध्यवर्तिनः कथं वा केन प्रकारेण वा स्मृतवानस्मि स्मरणं कृतवा- नस्मीति नाज्ञासिषं नावबोधिषम् । तथा चोत्सुकान्तरात्मा महीतले पृथ्वीतले निवेशितं शिरो येन स चिरमिव बहुकालमिव स्थित्वा- स्थाय भगवन्तं जाबालिं निजस्य स्वस्याविनयस्य श्रवणमाकर्णनं तस्माद्या लज्जा त्रपा तथा विलीयमान इव लीनतामापाद्यमान इव पातालतलं रसातलं विशन्निव प्रवेशं कुर्वन्निव कथंकथमपि महता कष्टेन शनैः शनैर्व्यज्ञपयं विज्ञप्तिमकार्षम् । हे भगवन्, त्वत्प्रसादा- त्त्वदनुप्रहादाविर्भूतं प्रकटीभूतं ज्ञानं यस्यैवंभूतोऽहं संवृत्तो निष्प- न्नोऽस्मि । खलु निश्चयेन मया सर्व एव पूर्वबान्धवाः स्मृताः प्रथम- स्वजनाः स्मृताः स्मरणविषयीकृताः । मूढतायां मूर्खतायामज्ञानता- यां च यथैव तेषां स्मरणं नासीत्तथैव विरहपीडापि वियोगबाधापि नासीत् । अधुना पुनस्तान्पूर्वोक्तान्स्मृत्वा मे मम हृदयं वक्षः स्फुटतीव स्फोटं प्राप्नोतीव । नच तान् मत्पूर्वबान्धवान् स्मृत्वापि
स्मरणविषयत्वेऽपि तथा । स्फुटतीति शेषः । यथा चन्द्रापीडं । स्मृत्वेति योज्यम् । यस्य चन्द्रापीडस्य मदुपरतिश्रवणमात्रकात् मत्संबन्धिनी या उपरतिः स्नेहो [^2]परमस्तस्याः केवलश्रवणेनैव हृदयमन्तःकरणं स्फुटितं शकलायितम् । तत्तस्मात्कारणात्तस्यापि चन्द्रापीडस्यापि जन्माख्यानेन भवान्तरकथनेन भगवान्प्रसादमनु-
ग्रहं करोतु विदधातु । येन कारणेनायं तिर्यग्योनिवासोऽपि मे मम तेन सहैकत्रैकस्मिन्स्थले वसतो न पीडाकरो न व्यथाकृत्संजायते भवतीति ।
[^1]F. सर्वत्र मातुः स्मरतीतिवत् शेषे षष्ठी ।
[^2]F. धिक् । मम उपरतिः मृत्युः तस्य श्रवणमात्रकात्, इत्यर्थः ।
[^१]G. कस्य कथं वा; कस्य कस्य कथं कथं वा.
[^२]G. च मे.
[^३]G. स्मृत्वा स्मृत्वा.
[^४]G. तथान्यत्.
[^५]G. मात्रात्.
[^६]G. दयां करोतु भगवांस्तस्यापि जन्माख्यानप्रसादप्रदानेन.