This page has not been fully proofread.

चन्द्रापीडादीनां जन्मप्रश्नः ]
 
उत्तरभागः ।
 
६७५
 
सैव तदवाप्तिं प्रत्युत्सुकतेत्युपगतं सकलमेव । केवलमसंजातपक्षतया मे तस्मिन्समये पूर्वज -
न्मोपात्ता शरीरचेष्टा नासीत् । तथा चाविर्भूतसकलान्यजन्मवृत्तान्तः समुत्सुकान्तरात्मा किं
मातापित्रो:, किं तातस्य तारापीडस्य, किमम्बाया विलासवत्याः, किं वयस्यस्य चन्द्रापीडस्य,
उत प्रथमसुहृदः कपिञ्जलस्य, आहोखिन्महाश्वेताया इति नाज्ञासिषमेवं कस्य कस्य कथं वा
स्मृतवानस्मीति । तथा चोत्सुकान्तरात्मा महीतलनिवेशित शिरा चिरमिव स्थित्वा भगवन्तं
जाबालिं निजाविनयश्रवणलज्जया विलीयमान इव विशन्निव पातालतलं कथमपि शनैः शनै-
यज्ञपयम् – 'भगवन्, त्वत्प्रसादादाविर्भूतज्ञानोऽस्मि संवृत्तः स्मृताः खलु मया सर्व
एव पूर्वबान्धवाः । मूढतायां चे यथैव तेषां स्मरणं नासीत्तथैव विरहपीडापि । अधुना
पुनस्तान्मृत्वा स्फुटतीव मे हृदयम् । न च तान्स्मृत्वापि तथा, यथा चन्द्रापीडम्, यस्य
मदुपरतिश्रवणमात्रकात्स्फुटितं हृदयम् । तत्तस्यापि जन्माख्यानेन प्रसादं करोतु भगवान् ।
येनायं तिर्यग्योनिवासोऽपि मे तेन सहकत्र वसतो न पीडाकरः संजायते' इति ।
 
प्रथमप्रतिपादित एव महाश्वेतायामनुरागोऽनुरतिरनु पश्चात्प्रेम, सैव तस्या महाश्वेताया अवाप्तिं प्राप्तिं प्रत्युत्सु -
कतौत्सुक्यमिति सकलमेव समग्रमेवोपगतं प्राप्तम् । असंजातपक्षतयाऽप्रादुर्भूतवाजतया मे मम तस्मिन् समये
पूर्वजन्मोपात्ता शरीरचेष्टा चलनादिका नासीन्नाभवत् । तथा चाविर्भूतः प्रकटीभूतः प्रादुर्भूतः सकलः
समस्तोऽन्यजन्मवृत्तान्तो भवान्तरोदन्तो यस्यैवंभूतः समुत्सुकान्तरात्मोत्कण्ठितान्तरात्मा किं शुकनास-
मनोरमयोर्मातापित्रोः किं तातस्य तारापीडस्य, किमम्बाया विलासवत्याः किं वयस्यस्य मित्रस्य चन्द्रा-
पीडस्य, उत प्रथमसुहृद आद्यमित्रस्य कपिजलस्य आहोखिन्महाश्वेताया इत्येवं कस्य कस्यैतन्मध्यव-
र्तिनः कथं वा केन प्रकारेण वा स्मृतवानस्मि स्मरणं कृतवानस्मीति नाज्ञासिषं नावबोधिषम् । तथा चोत्सु-
कान्तरात्मा महीतले पृथ्वीतले निवेशितं शिरो येन स चिरमिंव बहुकालमिव स्थित्वास्थाय भगवन्तं
जाबालिं निजस्य स्वस्याविनयस्य श्रवणमाकर्णनं तस्माद्या लजा त्रपा तथा विलीयमान इव लीनतामापाद्य-
मान इव पातालतलं रसातलं विशन्निव प्रवेशं कुर्वशिव कथंकथमपि महता कष्टेन शनैः शनैर्व्यज्ञपयं विज्ञ-
प्तिमकार्षम् । हे भगवन्, त्वत्प्रसादात्त्वदनुप्रहादा विर्भूतं प्रकटीभूतं ज्ञानं यस्यैवंभूतोऽहं संवृत्तो निष्पन्नोऽस्मि ।
खलु निश्चयेन मया सर्व एव पूर्वबान्धवाः स्मृताः प्रथमस्वजनाः स्मृताः स्मरणविषयीकृताः । मूढतायां
मूर्खतायामज्ञानतायां च यथैव तेषां स्मरणं नासीत्तथैव विरहपीडापि वियोगबाधापि नासीत् । अधुना पुन
स्तान्पूर्वोक्तान्स्मृत्वा मे मम हृदयं वक्षः स्फुटतीव स्फोटं प्राप्नोतीव । नच तान् मत्पूर्वबान्धवान् स्मृत्वापिं
स्मरणविषयत्वेऽपि तथा । स्फुटतीति शेषः । यथा चन्द्रापीडं । स्मृत्वेति योज्यम् । यस्य चन्द्रापीडस्य मदु-
परतिश्रवणमात्रकात् मत्संबन्धिनी या उपरतिः स्नेहोपरमस्तस्याः केवलश्रवणेनैव हृदयमन्तःकरणं स्फुटितं
शकलायितम् । तत्तस्मात्कारणात्तस्यापि चन्द्रापीडस्यापि जन्माख्यानेन भवान्तरकथनेन भगवान्प्रसादमनुग्रहं
करोतु विदधातु । येन कारणेनायं तिर्यग्योनिवासोऽपि मे मम तेन सहैक नै कस्मिन्स्थले वसतो न पीडाकरो न
व्यथाकृत्संजायते भवतीति ।
 
टिप्प० - 1 सर्वत्र मातुः स्मरतीतिवत् शेषे षष्ठी । 2 धिक् । मम उपरतिः मृत्युः तस्य श्रवणमात्र-
कात्, इत्यर्थः ।
 
पाठा० -१ कस्य कथं वा कस्य कस्य कथं कथं बा. ९ च मे ३ स्मृत्वा स्मृत्वा ४ तथान्यत् ५ मात्रात्
६ दयां करोतु भगवांस्तस्यापि जन्माख्यान प्रसादप्रदानेन.