This page has not been fully proofread.

६७४
 
कादम्बरी ।
 
[ कथायाम् -
 
इत्येवं च कथयित्वा भंगवाजाबालिर्जराभिभवविच्छायं स्मितं कृत्वा हारीतप्रमुखान्सर्वा-
नेव तापसान्छ्राव
कानवादीत- 'दृष्टमायुष्मद्भिरिदमन्तःकरणापहारिणः कथारसस्याक्षेपसा-
मर्थ्यम्, यत्कथयितुं प्रवृत्तोऽस्मि तत्परित्यज्यैव कथारसात्कथयन्नतिदूरमतिकान्तोऽस्मि ।
तैयः स कामोपहतचेताः स्वयंकृतादेवाविनयाद्दिव्यलोकतः परिभ्रश्यन्मर्त्यलोके वैशम्पायन-
नामा शुकनाससूनुरभवत्, स एवैष पुनः स्वयंकृतेनाविनयेन कोपितस्य पितुराक्रोशान्महा-
श्वेताकृताच सत्याधिष्ठानादस्यां शुकजातौ पतितः'
 
१.
 
इत्येवं बदत्येव भगवति जाबालौ बाल्येऽपि मे सुप्तप्रबुद्धस्येव पूर्वजन्मान्तरोपात्ताः स
मस्ता एव विद्या जिह्वाग्रेऽभवन् । सकलासु च कलासु कौशलमुपजातम् । उपदेशाय मनु-
जस्येव चेयं विस्पष्टवर्णाभिधाना भारती च संवृत्ता । विज्ञानं च सर्ववस्तुविषयं स्मरणं च
संवृत्तम् । किं बहुना । मनुष्यशरीराहते सर्वमन्यत्तत्क्षणमेव मे [ संवृत्तम् । ] वैशम्पाय-
नस्य स एव चन्द्रापीडस्योपरि स्नेहः, सैव कॉमपरवशता, स एव महाश्वेतायामनुरागः,
 
इत्येवं च कथयित्वाख्याय भगवाजाबालिर्जराया अभिभवेन विखसापराभवेन विच्छायं वैलक्ष्यं स्मितं हास्यं
कृत्वा हारीतकप्रमुखान् सर्वानेव तापसाञ्श्रावकानवादीदब्रवीत् । आयुष्मद्भिरिदमन्तःकरणं मनोऽपहरती-
त्येवंशीलः स तथा तस्य कथायाः प्रबन्धस्य रसस्तस्याक्षेप आकर्षस्तस्य सामर्थ्य बलं दृष्टम् । यदिति
हेत्वर्थे । कथयितुं वक्तुं प्रवृत्तो वक्तुमुद्युक्तोऽस्मि । तत्परित्यज्यैव विहायैव कथारसात्कथयन्ब्रुवन्नतिदूरमति -
दविष्ठमतिक्रान्तोऽतिवाहितोऽस्मि । तत्तस्मात्कारणाद्यः कामेन कन्दर्पेणोपहतं पीडितं चेतो यस्य सः स्वयंकृता-
देव स्व।चीर्णादेवाविन्यात्प्रातिकूल्याद्दिव्यलोकतः सुरसयतः परिभ्रश्यनिपतन्मर्त्यलोके मनुष्यलोके वैशम्पायन-
नामा शुकनाससूनुरभवत् । स एवैष वैशम्पायनः स्वयंकृतेनात्मना विहितेनाविनयेन कोपितस्य रोषित य
पितुर्जनकस्याको शादाक्षेपात्कठिन वचनान्महाश्वेता गन्धर्वपुत्री तथा कृताद्विहिताच्च सत्यं सूनृतमेवाधिष्ठानमाश्रयो
यस्यैवंभूताच्छापाच्चास्यां शुकजातौ पतितः स्रस्तः । अवतीर्ण इत्यर्थः ।
 
इत्येवं वदति ब्रुवत्येव भगवति जाबालौ बाल्येऽपि शैशवेऽपि सुप्तः शयितः पश्चात्त्रबुद्धो जागरितस्तस्येव
पूर्वजन्मनि भवान्तर उपात्ता गृहीताः समस्ताः समग्रा एव विद्याः सकला एवं विद्याश्चतुर्दश जिह्वाग्रे रसनाग्रे -
ऽभवन्बभूवुः । सकलासु समग्रासु च कलासु विज्ञानेषु कौशलं दक्षत्वमुपजातं संभूतम् । उपदेशाय कथनाय
मनुजस्येव मनुष्यस्येव चेयं विस्पष्टवर्णाभिधाना प्रकटवर्णाभिधाना प्रकटाक्षैरनाम्नी भारती सरस्वती च संवृत्ता
संजाता । सर्ववस्तुविषयं स्मरणं च संवृत्तम् । किं बहुना कथितेन । मनुष्यशरीराहते मनुष्यशरीरं विहाय नर-
विग्रहं त्यक्त्वान्यदपरं सर्वमेव तत्क्षणमेव तत्समयमेव वैशम्पायनस्योपनतम् । स एव चन्द्रापीडस्योपरि स्नेहश्च-
न्द्रापीडस्योपरि प्रेम, सैव पूर्वानुभूतैव कामपरवशता मदनायत्तता कंदर्पपरवशता, स एव पूर्वप्रतिपादित एव
 
टिप्प० – 1 विगता छाया कान्तिर्यस्य तादृशम् । 2 शुकनासस्य, दृश्यतां चन्द्रापीडोपगमे शुकना-
सस्य कोपावेशो यस्तारापीडेनोपशमितः । 3 धिक्चापल्यम् । 'सत्याभिध्यानात्' इत्येव पाठः । सत्यम
भिध्यानं च 'हे भगवनू, यदि मया देवस्य पुण्डरीकस्य दर्शनात्प्रभृति मनसा नापरः पुमांश्चिन्तितस्तदाऽय-
मलीककामी मदुदीरितायामेव जातौ पततु' इति पूर्वोक्तम् । 4 प्रकटाक्षरेति न तस्या नाम ! प्रकटाक्षरम्
( सुस्पष्टानि अक्षराणि यस्मिन् ) अभिधानं कथनं यस्यामीहशी ( वाणी ) इत्यर्थः । 5 टीकाकारकृतः
सोयं पाठअंशः । 'सर्वमन्यत्तत्क्षणमेव मे संवृत्तम्' इत्येत्र पाठः ।
 
0
 
पाठा० - १ एवम्. २ जाबालि: ३ तान्. ४ तदयं सः ५ अभूत् ; उत्पन्न : ६ स एवः स एष. ७ सत्याभि-
ध्यानात्. ८ उपदेशकौशलम् ९ मनुजस्येव. १० इयं. ११ संपन्ना. १२ नहुवस्तु; यत्सर्ववस्तु. १३ वैशम्पाय-
नस्यैव. १४ कामपरता.
 
0