2023-11-15 13:42:38 by Lakshmainarayana achar
This page has been fully proofread once and needs a second look.
तारापीडस्य परिशमः ]
उत्तरभागः ।
६७३
च्छिद्यत एव कृतान्तेन, तद्यदि पात्रे कक्वचिदपि स्थापयित्वा निजपदं जरापरिभु [^१]क्तायुः शेषेण
निष्प्रयोजनस्थितिना सर्वसुखबाह्येन [^२]मांसपिण्डेन परलोकसुखान्युपार्ज्यन्ते, लाभ एवायम् ।
तै
[^३]तदस्य वस्तुनः कृते भवन्तो मया [^४]प्रत्यर्थिताः' -
-
--
इत्युक्त्वा संनिहितान्यपि परित्यज्योचितानि से[^५]सर्वसुखान्यनुचितान्यङ्गी- कृत्य वॅ[^६]वन्यानि । [^७]तथा
हि — हर्म्यबुद्धिं वृक्षमूलेषु, अन्तः- पुरस्त्रीप्रीतितिं लतासु, संस्तुतजनस्नेहं हरिणेषु, निवसनरूरुचिं
चीर- वल्कलेषु, कुन्तलरचनाभियोगं जटासु, आहारहार्ददं कन्दमूलफलेषु, शस्त्रधारणव्यसन-
[^८]मक्षसूत्रेषु, प्रजापरिपालनशक्तितिं समित्कु-
शकुसुमेषु, नर्मालापं धर्मसंकथासु, समररसमुपशमे,
जयेच्छां परं[^९]परत्र, कोशस्पृहां तपसि, आज्ञां मौने, सर्वोपभोगरागं च वैराग्ये, तनयस्नेहं
तरुषु संक्रमय्य, [^१०]यास्तपस्विजनोचिताः क्रियाः कुर्वन्, गन्धर्व लोकोचितानहरहरुपचारान्का-
दम्वबर्या कथमपि समुत्सृष्टलज्जया महाश्वेतया च क्रियमाणाननिच्छन्, अविच्छेदात्सायं
प्रातश्चानुभूत चन्द्रापीडदर्शनसुखो दुःखान्यगणयन्नरपतिः सपरिवारः समं देव्या शुकनासेन
च तत्रैवातिष्ठत् ।"
[ टि ]-- यमेनाच्छिद्यत एवाकृष्यत एव । तत्ततो यदि पात्र आप्ते क्वचिदपि निजपदं स्वस्थानमात्मभारं स्थापयित्वा
स्थापनां कृत्वा जरया परिभुक्त आयुषः शेषो यस्य स तेन, निष्प्रयोजना निरर्थका स्थितिरवस्थानं यस्य स तेन,
सर्वसुखात्मप्र ग्रसौख्याद्वाबाह्येन बहिर्भूतेन मांसपिण्डेन पललसंघातेन परलोकसुखानि पारभविकसौख्यान्यु- पार्ज्यन्त
उपार्जनाविषयीक्रियन्ते । अयमेव लाभः फलप्राप्तिः । पुरुषार्थ इति यावत् । तत्तस्मात्कारणादस्य वस्तुनः कृते
भवन्तो मया प्रार्थिता अभ्यर्थिताः ।
इत्युक्त्वेत्यभिधाय संनिहितान्यपि समीपवर्तीन्यप्युचितानि योग्यानि सर्वसुखानि परित्यज्य विहाय त्यक्त्वा-
नुचितान्ययोग्यानि अनर्हाणि वन्यानि वनसंबन्धीनि सुखान्यङ्गीकृत्य स्वीकृत्य च । तदेव दर्शयति-तथा-
हीति । तस्य राज्ञो हर्म्यबुद्धिं गृहधियं वृक्षमूलेषु पादपबुध्ध्रेनेषु, अन्तःपुरस्त्रीप्रीतिमर्वरोधस्त्रीस्नेहं लतासु वल्लीषु,
संस्तुतजन स्नेहं परिचितजनप्रीतिं हरिणेषु कुरङ्गेषु, निवसनरुचिं वस्त्राभिलाषं चीरवल्कलेषु, कुन्तलरचनाया
अभियोगमुद्यमं जटासु, आहारहार्ददं भोजन प्रेमाभिप्रायो वा कन्दश्च मूलं च फलानि च कन्दमूलफलानि तेषु,
शस्त्र धारणव्यसनमक्षसूत्रेषु जपमालि- कासु, प्रजापरिपालनशक्तिं समिध एधांसि कुशा दर्भाः कुसुमानि पुष्पाणि
तेषु, नर्मालापं क्रीडालापं हास्यालापं धर्मसंकथासु सुकृत- प्रबन्धेषु, समररसं सङ्ग्रामरसं युद्धरसमुपशमे शान्त
रसे, जयेच्छां जयस्पृहां परत्र लोके परलोके, कोशस्टपृहां धनभाण्डागारवाञ्छां तपसि व्रते, आज्ञामनुशासन
नं मौनेऽभाषणे, सर्वः समप्रःग्र: सकलो य उपभोगोऽङ्गनादिकस्तत्र रागं च वैराग्ये विरक्ततायाम् तनयस्नेहं पुत्रप्रेम
सूनुस्नेहं तरुषु वृक्षेषु संक्रमथ्य्य संक्रमणं कृत्वा, यास्त[^1]यास्त- पस्विजनो चितास्तपस्विजन योग्याः क्रिया अनुष्ठान [^2]विशेषाः
कुर्वन्विदधन्गन्धर्वलो कस्योचितान्योग्यानहरहः प्रतिदिनं कथंकथ- मपि महता कष्टेन समुत्सृ [^3]ष्टैटलजया व्यक्तत्रपया
ज्जया त्यक्तत्रपया विगतलज्जया कादम्बर्या महाश्वेतया च क्रियमाणान्विधीयमानानुपचाराम्न्भक्ति- प्रकाराननिच्छन्न वाञ्छन्ननभिलष-
न्नविच्छेदादव्यवधानात्सायं प्रात- श्चानुभूतं चन्द्रापीडदर्शन सुखं येनैवं भूतो नरपतिस्तारापीडो दुःखान्यगणयनजान-
न्सपरिवारः सपरिजनः सपरिस्कन्दः समं देव्या विलासवत्या शुकनासेन मन्त्रिणा च तत्र तस्मिन्स्थले स्थानेऽतिष्ठत् ।
2
टिप्प० -
[^1]F. 'याः' इत्यपपाठः, तत्पदसापेक्षत्वात् । तस्मात् 'तथा तपस्विजनोचिताः क्रियाः कुर्वन्'
इत्येव पाठः ।
[^2]F. ' विशेषान्' इति द्वितीया योग्या ।
[^3]F. वैधेय एव टीकाकारः। 'समुत्सृष्टलज्जया' इति
विशेषणं केवलं महाश्वेताया एव, 'हा हतास्मी'त्यादिना तस्या एव गुहा- प्रवेशस्य वर्णितत्वात् ।
पाठा -
[^१]G. मुक्तशेषेण.
[^२]G. शरीरकेण.
[^३ तस्य ]G. तस्य.
[^४]G. प्रार्थनीया: .
[^५]G. उपयोगसुखानि, .
[^६]G. च वन्यानि तपोवन-
दुःखानि च .
[^७ तत्र]G. तत्र.
[^८]G. अक्षसूत्रे.
[^९]G. परलोके.
[^१० ]G.यथा; तथा.
८५ का०
0