कादम्बरी /706
This page has not been fully proofread.
तारापीडस्य परिशमः ]
उत्तरभागः ।
६७३
च्छिद्यत एव कृतान्तेन, तद्यदि पात्रे कचिदपि स्थापयित्वा निजपदं जरापरिभुक्तायुः शेषेण
निष्प्रयोजनस्थितिना सर्वसुखबाह्येन मांसपिण्डेन परलोकसुखान्युपार्ज्यन्ते, लाभ एवायम् ।
तैदस्य वस्तुनः कृते भवन्तो मया प्रत्यर्थिताः' -
-
--
इत्युक्त्वा संनिहितान्यपि परित्यज्योचितानि सेर्वसुखान्यनुचितान्यङ्गीकृत्य वॅन्यानि । तथा
हि — हर्म्यबुद्धिं वृक्षमूलेषु, अन्तः पुरस्त्रीप्रीति लतासु, संस्तुतजनस्नेहं हरिणेषु, निवसनरूचिं
चीरवल्कलेषु, कुन्तलरचनाभियोगं जटासु, आहारहार्द कन्दमूलफलेषु, शस्त्रधारणव्यसन-
मक्षसूत्रेषु, प्रजापरिपालनशक्ति समित्कुशकुसुमेषु, नर्मालापं धर्मसंकथासु, समररसमुपशमे,
जयेच्छां परंत्र, कोशस्पृहां तपसि, आज्ञां मौने, सर्वोपभोगरागं च वैराग्ये, तनयस्नेहं
तरुषु संक्रमय्य, यास्तपस्विजनोचिताः क्रियाः कुर्वन्, गन्धर्व लोकोचितानहरहरुपचारान्का-
दम्वर्या कथमपि समुत्सृष्टलज्जया महाश्वेतया च क्रियमाणाननिच्छन्, अविच्छेदात्सायं
प्रातश्चानुभूत चन्द्रापीडदर्शनसुखो दुःखान्यगणयन्नरपतिः सपरिवारः समं देव्या शुकनासेन
च तत्रैवातिष्ठत् ।"
यमेनाच्छिद्यत एवाकृष्यत एव । तत्ततो यदि पात्र आप्ते क्वचिदपि निजपदं स्वस्थानमात्मभारं स्थापयित्वा
स्थापनां कृत्वा जरया परिभुक्त आयुषः शेषो यस्य स तेन, निष्प्रयोजना निरर्थका स्थितिरवस्थानं यस्य स तेन,
सर्वसुखात्मप्र सौख्याद्वान बहिर्भूतेन मांसपिण्डेन पललसंघातेन परलोकसुखानि पारभविकसौख्यान्युपार्ज्यन्त
उपार्जनाविषयीक्रियन्ते । अयमेव लाभः फलप्राप्तिः । पुरुषार्थ इति यावत् । तत्तस्मात्कारणादस्य वस्तुनः कृते
भवन्तो मया प्रार्थिता अभ्यर्थिताः ।
इत्युक्त्वेत्यभिधाय संनिहितान्यपि समीपवर्तीन्यप्युचितानि योग्यानि सर्वसुखानि परित्यज्य विहाय त्यक्त्वा-
नुचितान्ययोग्यानि अनर्हाणि वन्यानि वनसंबन्धीनि सुखान्यङ्गीकृत्य स्वीकृत्य च । तदेव दर्शयति-तथा-
हीति । तस्य राज्ञो हर्म्यबुद्धिं गृहधियं वृक्षमूलेषु पादपबुध्ध्रेषु, अन्तःपुरस्त्रीप्रीतिमर्वरोधस्त्रीस्नेहं लतासु वल्लीषु,
संस्तुतजन स्नेहं परिचितजनप्रीतिं हरिणेषु कुरङ्गेषु, निवसनरुचिं वस्त्राभिलाषं चीरवल्कलेषु, कुन्तलरचनाया
अभियोगमुद्यमं जटासु, आहारहार्द भोजन प्रेमाभिप्रायो वा कन्दश्च मूलं च फलानि च कन्दमूलफलानि तेषु,
शस्त्र धारणव्यसनमक्षसूत्रेषु जपमालिकासु, प्रजापरिपालनशक्तिं समिध एधांसि कुशा दर्भाः कुसुमानि पुष्पाणि
तेषु, नर्मालापं क्रीडालापं हास्यालापं धर्मसंकथासु सुकृतप्रबन्धेषु, समररसं सङ्ग्रामरसं युद्धरसमुपशमे शान्त
रसे, जयेच्छां जयस्पृहां परत्र लोके परलोके, कोशस्टहां धनभाण्डागारवाञ्छां तपसि व्रते, आज्ञामनुशासन
मौनेऽभाषणे, सर्वः समप्रः सकलो य उपभोगोऽङ्गनादिकस्तत्र रागं च वैराग्ये विरक्ततायाम् तनयस्नेहं पुत्रप्रेम
सूनुस्नेहं तरुषु वृक्षेषु संक्रमथ्य संक्रमणं कृत्वा, यास्तपस्विजनो चितास्तपस्विजन योग्याः क्रिया अनुष्ठान विशेषाः
कुर्वन्विदधन्गन्धर्वलो कस्योचितान्योग्यानहरहः प्रतिदिनं कथंकथमपि महता कष्टेन समुत्सृष्टैलजया व्यक्तत्रपया
विगतलज्जया कादम्बर्या महाश्वेतया च क्रियमाणान्विधीयमानानुपचाराम्भक्तिप्रकाराननिच्छन्न वाञ्छन्ननभिलष-
नविच्छेदादव्यवधानात्सायं प्रातश्चानुभूतं चन्द्रापीडदर्शन सुखं येनैवं भूतो नरपतिस्तारापीडो दुःखान्यगणयनजान-
न्सपरिवारः सपरिजनः सपरिस्कन्दः समं देव्या विलासवत्या शुकनासेन मन्त्रिणा च तत्र तस्मिन्स्थले स्थानेऽतिष्ठत् ।
2
टिप्प० - 1 'याः' इत्यपपाठः, तत्पदसापेक्षत्वात् । तस्मात् 'तथा तपस्विजनोचिताः क्रियाः कुर्वन्'
इत्येव पाठः । 2 ' विशेषान्' इति द्वितीया योग्या । 3 वैधेय एव टीकाकारः। 'समुत्सृष्टलज्जया' इति
विशेषणं केवलं महाश्वेताया एव, 'हा हतास्मी'त्यादिना तस्या एव गुहाप्रवेशस्य वर्णितत्वात् ।
पाठा -१ मुक्तशेषेण. २ शरीरकेण. ३ तस्य ४ प्रार्थनीया: ५ उपयोगसुखानि, ६ च वन्यानि तपोवन-
दुःखानि च ७ तत्र. ८ अक्षसूत्रे. ९ परलो. १० यथा; तथा.
८५ का०
0