This page has not been fully proofread.

६७२
 
कादम्बरी
 
[ कथायाम् -
 
यस्याः करस्पर्शेनाध्यायितमेतदविनाशि सैव वधूः पार्श्वेऽस्य तिष्ठतु ' इत्यादिश्य निर्जगाम ।
निर्गत्य चोपकल्पितं निजावासमगत्वैव तपस्विवासोचितेऽन्यतमस्मिन्नासन्न एवाश्रमस्य शुचि-
शिलातलसनाथे तरुलतामण्डपे समुपविश्य निर्विशेषदुःख सकलमेव राजचक्रमाहूयाहूय
सबहुमानमवादीत्-
'न, भवद्भिरवगन्तव्यं यथाद्य शोकावेगादेवैतदहमङ्गीकरोमि' इति । पूर्वचिन्तित
एवायमर्थो यथा बधूसमेतस्य चन्द्रापीडस्य वदनमालोक्य संक्रामित निजभरेण मया कचि-
दाश्रमपदे गत्वा पश्चिमं वयः क्षपयितव्यमिति । स चायं मे भगवता कृतान्तेन, पुराकृतैः
कर्मभिर्वा विरूपैरेवं समुपनमितः । किमपरं क्रियते ? अनतिक्रमणीया नियतिः । अप्राप-
णीयं नानुभूतमात्मचेष्टाकृतं वत्सस्य सुखम् । प्रजापरिपालनफैलं तु पुनर्भवद्भुजेष्वेवम-
क्षतेष्व विरहितमस्त्येव । अन्यथापि हि चेष्टमानेष्वस्मासु सर्वमेतेष्वेवावस्थितम् । तदिच्छामि
चिरका मनोरथं पूरयितुम् धन्याच जरापीत सारतनवस्तनयेष्वात्मभरमासज्य

लघुशरीरा परलोकगमनं साधयन्तिः । यच्च बलाद्गले पादमाधाय यदा तदानिच्छतोऽप्या-
यितं शीतलीभूतं सैव वधूः स्नुषास्य चन्द्रापीडस्य पार्श्वे तिष्ठत्ववस्थानं करोतु । इत्यादिश्याज्ञां दत्त्वा निर्जगाम
निर्ययौ । निर्गत्य च निर्गमनं कृत्वा चोपकल्पितं विहितं निजावासं स्वकीय सौधमगत्वैव तत्र गमनमविधायैव तप-
स्विवासोचिते मुनिजननिवासयोग्य आश्रमस्य महाश्वेताया आसन्न एव समीपवर्तिनि शुचिभिः पवित्रैः शिलातलैः
सनाथे सहितेऽन्यतमस्मिंस्तरुलतामण्डपे तरूणां लता एव वल्ली एव मण्डपाकारेण मण्डपसदृशाकारेण व्यवस्थितास्त-
रवश्च लताश्च छत्राकारेण स्थिता रोहितास्तरुलतामण्डपा वा तस्मिन्समुपविश्यास्थाय निर्गतो विशेषो यस्मादेता-
दृशं दुःखं यस्मिन्नेव॑भूतं सकलमेव समग्रमेव राजचक्रं नृपसमूहमाहूयाहूय सबहुमानं ससत्कारमवादीदब्रवीत् ।
 
भवद्भिर्नावगन्तव्यं न ज्ञातव्यम्, यथाद्य शोकावेगा देतद्वनवासलक्षणमहमङ्गीकरोमि स्वीकुर्व इति । अयमर्थः
पूर्व चिन्तित एव प्रागालोचित एव प्रथममालोचित एव । तदेव विशदयति प्रकटयति - यथेति । यथा
वधूसमेतस्य चन्द्रापीडस्य वंदनमाननमास्यं आलोक्य निरीक्ष्य संक्रामितोऽन्यत्र स्थापितो निजभरो राज्यभारो
येनैवंभूतेन मया क्वचिदनिर्दिष्टनामन्याश्रमपदे मुनिस्थानस्थले गत्वा पश्चिमं प्रान्तं वयः क्षपयितव्यं परिपूर्णतां
नैयमिति । स चायमर्थः कृतान्तेन यमेन लोकपालत्वाद्भगवता ज्ञानवता पूज्येन, पुराकृतैः पूर्वभवाचीर्णैर्विरू-
पैरशुभैः कर्मभिर्वैवं पूर्वोक्तप्रकारेण समुपनमितोऽधरीकृतः । अपरं द्वितीयं किं क्रियते, यतोऽनतिक्रमणीयानु-
ल्लङ्घनीया नियतिर्ब्रह्मनिर्मितिरदृष्टं वा । आत्मचेष्टात्मप्रयत्नस्तेन कृतं वत्सस्य चन्द्रापीडस्य सुखमप्रापणीयं प्राप्तु-
मयोग्यं नानुभूतं नानुभवविषयीकृतम् । प्रजापरिपालनसुखफलं तु पुनरक्षतेष्वखण्डितेषु भवद्भुजेष्वेव सत्स्ववि-
रहितं न वियोगमापन्नमस्त्येव । अन्यथापि ह्यस्मासु चेष्टमानेषु क्रियमाणेषु सर्वमेतेष्वेव भवद्भुजेष्वेवावस्थितं
स्थितिमापन्नम् । तदिति हेत्वर्थे । इच्छामि चिरकाङ्क्षितं चिरवाञ्छितं मनोरथं पूरयितुं परिपूर्णांकर्तुम् । धन्याश्च
कृतकृत्याश्च जरया विस्रसया पीतं गृहीतं सारं बलं यासामेवंभूतास्तनवो येषां ते तथा तनयेषु पुत्रेष्वात्मभर-
मासज्य न्यस्य अत एव लघुशरीराः परलोकगमनं भवान्तरगतिं साधयन्ति निष्पादयन्ति । यच्च बलाद्धठाद्गले
निगरणे पादं चरणमाधाय स्थापयित्वा दत्त्वा यदा तदा यस्मिंस्तस्मिन्कालेऽनिच्छतोऽप्यन भिलषतोपि कृतान्तेन
 
टिप्प०-1 अस्मासु अन्यथा चेष्टमानेष्वपि (इत्थं सर्वपरित्यागेन आश्रमपदमधितिष्ठत्स्वपि ) सर्व
प्रजारक्षणादिकम् एषु ( भवजेषु, एवावस्थितम् ) भवद्वलायत्तमिति स्पष्टोऽर्थः ।
 
-१ अविनाशि शरीरम्. २ मुखम् ३ फलं बल, ४ अविहृतम् ५ अन्यत् ६ तव.
 
पाठा