कादम्बरी /704
This page has been fully proofread once and needs a second look.
[^१]हृदये स्पृशन्ती 'समाश्वसिहि [^२]मातः, त्वया विनाऽद्य प्रभृति केन संधारितं वत्सस्य मे चन्द्रापीडस्य शरीरम् ? मातः, त्वममृत- मयीव जातासि, येन वत्सस्य पुनर्वदनमालोकितम्' इत्यवादीत् । कादम्बरी तु तेन चन्द्रापीडनामग्रहणेन तेन च [^३]तन्निर्विशेष- वृत्तिना विलासवतीशरीरस्पर्शेन लब्धसंज्ञापि लज्जावनम्रमुखी प्रतिपत्तिमूढा मदलेखयाङ्कादवतार्य परवत्येव यथाक्रममकार्यत वन्दनां गुरूणाम् । 'आयुष्मति, दीर्घकालमविधवा भव' इति कृताशीर्वादा च [^४]शनैरुत्थाप्यातिनिकटे विलासवत्याः पृष्ठतः समुपवेश्याघार्यत ।
अथ प्रत्यापन्नचेतनायां चित्ररथतनयायां चन्द्रापीडमेवोज्जीवितं मन्यमानो राजा चिरमिवास्य गाढ [^५]मङ्गमालिङ्ग्य चुम्बंश्च पश्यंश्च स्पृशंश्च स्थित्वा मदलेखा [^६]माहूयाहूयादिदेश-'दर्शनसुख- मात्रकमस्माकं विधीयमानम्, [^७]तच्चास्माभिरा- सादितम् । तद्यादृशेनैवोपचारेणैतावतो दिवसानुपचरितवती वधूर्वत्सस्य शरीरम्, स एवोपचारो नास्म [^८]दनुरोधाल्लज्जया वा मनागपि [^९]परिहरणीयः । वयं निष्प्रयोजना द्रष्टार एव केवलम् । किमस्माभिरिह स्थितैर्गतैर्वा ।
[ टि ]-- स्तात्तु स्याच्चिबुकं स्याद्गल्लः सुकणः परः । गल्लात्परः कपोलश्च परो गण्डः कपोलतः' इति हैमकोशः । चन्द्रापीडस्पर्श- शिशिरेण शीतलेन च पाणिना करेण हृदये वक्षसि स्पृशन्ती स्पर्शं कुर्वन्ती । हे मातः, यथा पुत्रे तात इति प्रयोगस्तथा पुत्रीसमायां सुतातुल्यायां स्नुषायामपि मातृशब्दप्रयोगः । त्वं समाश्वसियाश्वासनां कुरु । यतस्त्वया भवत्या विनाद्यप्रभृत्येतद्दिनादारभ्य मे मम वत्सस्य सुतस्य चन्द्रापीडस्य शरीरं वर्ष्म केन संधारितं धृतम् । हे मातः, त्वममृतमयीव पीयूषनिर्मितेव संजाता । येन कारणेन वत्सस्य वदनं सुतस्य वदनं पुनर्द्वितीयवारमवलोकितं निरीक्षित- मित्यवादीदित्यब्रवीत् । कादम्बरी तु तेन चन्द्रापीडनामग्रहणेन तेन च तस्माचन्द्रापीडस्पर्शान्निर्विशेषवृत्तिना तत्सदृशेन विलासवती- शरीरस्पर्शेन ( संज्ञां [^1]चेतनां लेभे प्राप्तवती । ) लब्धसंज्ञापि
प्राप्तचेतनापि लब्धा प्राप्ता संज्ञा चैतन्यं यया सैवंविधापि लज्जया- वनम्रं मुखं यस्याः सा [^2]प्रतिपत्तिः सेवा तस्यां मूढाज्ञाधोमुखी नीचैर्मुखी मदलेखयाङ्कादुत्सङ्गादवतार्यावतारणं कृत्वा परवत्येव परायत्तेव गुरूणां चन्द्रापीडमातृपितॄणां यथाक्रममनुक्रमेण वन्दनामकार्यत व्यधाप्यत । 'उत्सङ्गचिह्नयोरङ्कः' इत्यमरः । हे आयुष्मति हे चिरजीविते, दीर्घकालमविधवा वैधव्यरहिता भवेति कृत आशीर्वाद आशीःप्रदानं यस्याः सा तथा कृताशीर्वादा च
शनैरुत्थाप्यातिनिकटेऽतिसमीपे विलासवत्याः पृष्ठतः पश्चाद्भागे समुपवेश्य सखीजनैरधार्यत ।
अथेति । तदनन्तरं प्रत्यापन्नचेतनायां प्राप्तचैतन्यायां तु चित्ररथ- तनयायां कादम्बर्यां चन्द्रापीडमुज्जीवितमेव मन्यमानो जानानः । तस्या उज्जीवनादिति भावः । राजा तारापीडश्चिरमिव चिरकाल- मिवास्य चन्द्रापीडस्य गाढं दृढमङ्गमालिङ्ग्य परिष्वज्य चुम्बंश्चुम्बनं कुर्वन्पश्यन्विलोकयन्स्पृशन्स्पर्श कुर्वंश्च स्थित्वा च कियत्कालं कतिपयकालं मदलेखामाहूयाह्वानं कृत्वादिदेशा- दिष्टवान् । दर्शनसुखमात्रकं केवलमवलोकनसुखमस्माकं
विधीयमानं क्रियमाणं तच्चास्माभिरासादितं प्राप्तम् । तदिति हेत्वर्थे । यादृशेन वोपचारेण प्रतिक्रिययैतावतो दिवसान्वधूः स्नुषा वत्सस्य शरीरमुपचरितवत्युपचार कृतवती स एवोपचारोऽस्मदनुरोधाद- स्मत्प्रतिबन्धाल्लज्जया त्रपया वा मनागपीषदपि न परिहरणीयो न परिहार्यः । वयं निष्प्रयोजना निरर्थकाः केवलं द्रष्टार एव विलोक-
यितार एव । अस्माभिरिह स्थले स्थितैरवस्थितैर्गतैर्वा किम् । यस्या भवत्याः करस्पर्शेनैतदविनाश्यविनश्वरमाप्या-
[^1]F. व्याख्याया अस्या मूलाक्षराणि न प्राप्यन्ते ।
[^2]F. प्रतिपत्तिमूढा किंकर्तव्यमिति ज्ञानविकला ।
[^१]G. हृदयम्.
[^२]G. हेमात :.
[^३]G. निर्विशेष.
[^४]G. शनैः शनैस्तैरुत्थाप्य; तैरुत्थाप्यमाना; शनैरुत्थाप्यमाना.
[^५]G. आलिङ्गन्.
[^६]G. आहूय.
[^७]G. यत्.
[^८]G. उपरोधात्.
[^९]G. परिहारणीयः.
[^१०]G. वयं तु.