This page has not been fully proofread.

कादम्बर्या दर्शनमालापश्च ]
 
उत्तरभागः ।
 
६७१
 
हृदये स्पृशन्ती 'समाश्वसिहि मातः, त्वया विनाऽद्य प्रभृति केन संधारितं वत्सस्य मे
चन्द्रापीडस्य शरीरम् ? मातः, त्वममृतमयीव जातासि, येन वत्सस्य पुनर्वदनमालोकितम्'
इत्यवादीत् । कादम्बरी तु तेन चन्द्रापीडनामग्रहणेन तेन च तन्निर्विशेषवृत्तिना विलास-
बतीशरीरस्पर्शेन लब्धसंज्ञापि लज्जावनम्रमुखी प्रतिपत्तिमूढा मदलेखयाकादवतार्य परवत्येव
यथाक्रममकार्यत वन्दनां गुरूणाम् । 'आयुष्मति, दीर्घकालमविधवा भव' इति कृताशी-
र्वादा च शनैरुत्थाप्यातिनिकटे विलासवत्याः पृष्ठतः समुपवेश्याघार्यत ।
 
अथ प्रत्यापन्नचेतनायां चित्ररथतनयायां चन्द्रापीडमे वोज्जीवितं मन्यमानो राजा चिर-
मिवास्य गाढममालिङ्ग्य चुम्बंश्च पश्यंञ्च स्पृशंश्च स्थित्वा मदलेखामाहूयाहूयादिदेश-
'दर्शनसुखमात्रकमस्माकं विधीयमानम्, तँचास्माभिरासादितम् । तद्यादृशेनैवोपचारेणैतावतो
दिवसानुपचरितवती वधूर्वत्सस्य शरीरम्, स एवोपचारो नास्मर्दनुरोधाल्लज्जया वा मना-
. गपि पेरिहरणीयः । वयं निष्प्रयोजना द्रष्टार एव केवलम् । किमस्माभिरिह स्थितैर्गतैर्वा ।
 
स्तात्तु स्याचिबुकं स्याद्गल्लः सुकणः परः । गल्लात्परः कपोलश्च परो गण्डः कपोलतः' इति हैमकोशः । चन्द्रा
पीड स्पर्शशिशिरेण शीतलेन च पाणिना करेण हृदये वक्षसि स्पृशन्ती स्पर्श कुर्वन्ती । हे मातः, यथा पुत्रे
तात इति प्रयोगस्तथा पुत्रीसमायां सुतातुल्यायां स्नुषायामपि मातृशब्दप्रयोगः । त्वं समाश्वसियाश्वासनां कुरु ।
यतस्त्वया भवत्या विनाद्यप्रभृत्येतद्दिनादारभ्य मे मम वत्सस्य सुतस्य चन्द्रापीडस्य शरीरं वर्ष्म केन संधारित
धृतम् । हे मातः, त्वममृतमयीव पीयूषनिर्मितेव संजाता । येन कारणेन वत्सस्य वदनं सुतस्य वदनं पुनर्द्विती-
यवारमवलोकितं निरीक्षितमित्यवादीदित्यब्रवीत् । कादम्बरी तु तेन चन्द्रापीडनामग्रहणेन तेन च तस्माचन्द्रा-
पीडस्पर्शान्निर्विशेषवृत्तिना तत्सदृशेन विलासवतीशरीरस्पर्शेन ( संज्ञां चेतनां लेभे प्राप्तवती । ) लब्धसंज्ञापि
प्राप्तचेतनापि लब्धा प्राप्ता संज्ञा चैतन्यं यया सैवंविधापि लज्जयावनम्रं मुखं यस्याः सा प्रतिपत्तिः सेवा तस्यां
मूढाज्ञाधोमुखी नीचैर्मुखी मदलेखयाङ्कादुत्सङ्गादवतार्यावतारणं कृत्वा परवत्येव परायत्तेव गुरूणां चन्द्रापीडमा
तृपितॄणां यथाक्रममनुक्रमेण वन्दनामकार्यत व्यधाप्यत । 'उत्सङ्गचियोरङ्कः' इत्यमरः । हे आयुष्मति हे चिर-
जीविते, दीर्घकालमविधवा वैधव्यरहिता भवेति कृत आशीर्वाद आशीः प्रदानं यस्याः सा तथा कृताशीर्वादा च
शनैरुत्थाप्यातिनिकटेऽतिसमीपे विलासवत्याः पृष्ठतः पश्चाद्भागे समुपवेश्य सखीजनैरधार्यत ।
 
अथेति । तदनन्तरं प्रत्यापन्नचेतनायां प्राप्तचैतन्यायां तु चित्ररथतनयायां कादम्बर्या चन्द्रापीडमुज्जीवि
तमेव मन्यमानो जानानः । तस्या उज्जीवनादिति भावः । राजा तारापीडश्चिरमिव चिरकाल मिवास्य चन्द्रापी-
डस्य गाढं दृढमङ्गमालिङ्गय परिष्वज्य चुम्बंश्चुम्बनं कुर्वन्पश्यन्विलोकयन्स्पृशन्स्पर्श कुर्वंश्च स्थित्वा च किय-
त्कालं कतिपयकालं मदलेखामाहूयाह्वानं कृत्वादिदेशादिष्टवान् । दर्शनसुखमात्रकं केवलमवलोकन सुखमस्माकं
विधीयमानं क्रियमाणं तच्चास्माभिरासादितं प्राप्तम् । तदिति हेत्वर्थे । यादृशेन वोपचारेण प्रतिक्रिययैतावतो
दिवसान्वधूः स्नुषा वत्सस्य शरीरमुपचरिततत्युपचार कृतवती स एवोपचारोऽस्मदनुरोधादस्मत्प्रतिबन्धाल्लज्जया
त्रपया वा मनागपीषदपि न परिहरणीयो न परिहार्यः । वयं निष्प्रयोजना निरर्थकाः केवलं द्रष्टार एव विलोक-
यितार एव । अस्माभिरिह स्थले स्थितैरवस्थितैर्गतैर्वा किम् । यस्या भवत्याः करस्पर्शे नै तदविनाश्यविनश्वरमाप्या-
टिप्प० - 1 व्याख्याया अस्या मूलाक्षराणि न प्राध्यन्ते । 2 प्रतिपत्तिमूढा किंकर्तव्यमिति
ज्ञानविकला ।
 
पाठा० - १ हृदयम्. २ हेमात :. ३ निर्विशेष. ४ शनैः शनैस्तैरुत्थाप्य तैरुत्थाप्यमानाः शनैरुत्थाप्यमाना
५ आलिङ्गन्. ६ आहूम. ७ यत्. ८ उपरोधात् १ परिहारणीयः १० वयं तु.