This page has not been fully proofread.

६७०
 
कादम्बरी ।
 
[ कथाया मू-
निरर्थकं प्रलपितमेव निर्यात वेदनान्न जीवितम् । निरासङ्गं नयनजलमेव पतति न शरीरम् ।
अपि च वत्सस्यादर्शनमात्रमेवावयोः पीडाकरम् । तञ्चैवमालोक्यमाने मुखेऽस्य दूरापेतम् ।
अपरमस्यामवस्थायामावाभ्यामपि तावत्परमवष्टम्भं कृत्वा मनोरमा शुकनासश्च संधारणीय
ययोर्लोकान्तरितो वैशम्पायनः । तिष्ठेतां तावदेतावपि । यस्याः प्रभावात्पुनरनुभवनीयो
वत्सस्य जीवितप्रतिलम्भाभ्युदयमहोत्सवः सैवैवं गन्धर्वराजतनया वधूस्तेऽस्मदागमनशो-
कोर्मिसंक्रान्तिमूढा सनामप्रहणमुन्मुक्ताकन्दाभिः प्रियसखीभिप्रमाणाऽद्यापि संज्ञां न
प्रतिलभते । तेंदेनां तावदुत्थाप्याङ्के कृत्वा चेतनां लम्भय । ततो यथेच्छं रोदिष्यसि ।
 
इत्यभिहिता राज्ञा विलासवती - 'क सा मे वत्सस्य जीवित निबन्धनं वधूः' इत्यभिदध-
त्येव ससंभ्रममुपसृत्याप्रतिपन्नसंज्ञामेवाङ्केनादाय, कादम्बरी करेण, मूर्च्छानिमीलना
हितद्विगु-
णतरनयनशोभं वदनमालोक्य, अनवरतनयनसलिलस्नानार्द्रमिन्दुशकलशीतलं स्वकपोलं कपो-
लयोः, ललाटे ललाटम्, लोचनयोश्च लोचने निवेशयन्ती, चन्द्रापीडस्पर्श शिशिरेण च पाणिना
 
शोचनाई: शोचितव्यस्तस्य वृत्तान्त उदन्तः । अस्माकं शोके कृते न किंचिदपि भवति नाधिकं किमपि जायते ।
केवलं रटतो रुदतो गल एव निगरण एव स्फुटति स्फोटं प्राप्नोति न हृदयम् । वदनान्मुखान्निरर्थ व्यर्थं प्रलपितं
जल्पितमेव निर्यात बहिरायाति न जीवितं न प्राणितम् । निरासङ्गं निःसंबन्धं नयनजलमेवाश्रुपानीयमेव पतति
स्रंसते न शरीरं न देहः । अपि चेति । वत्सस्य चन्द्रापीडस्यादर्शन मात्रमेवानवलोकनमात्रमेवानिरीक्षणमा-
त्रमेवावयोः पीडाकरमार्तिजनकम् । अस्य चन्द्रापीडस्यैव मालोक्यमाने मुखे तद्दूरापेतं दविष्ठापेतं दूरापास्तम् ।
अपरमन्यदस्यामवस्थायां दशायामावाभ्यामपि दम्पतीभ्यामपि परममुत्कृष्टमवष्टम्भं प्रतिबन्धं कृत्वा मनोरमा
शुकनासश्च संधारणीयौ । मृत्यो रक्षणीयावित्यर्थः । ययोर्द्वयोर्मध्ये लोकान्तरितो वर्तते वैशम्पायनः । तिष्ठतां
वा तावदेतावपि मनोरमा शुकनासावपि तिष्ठतामित्यर्थः । यस्याः कादम्बर्याः प्रभावात्पुनर्वत्सस्य जीवितस्य प्रति-
लम्भः प्रकर्षेण लाभस्तस्याभ्युदयस्तस्य मह उत्सवोऽनुभवनीयोऽनुभवविषयीकरणीयः । सैवेयं गन्धर्वराजतनया
ते तव वधूरस्माकमागमनेन यः शोकः शुक् तस्योर्मयस्तरङ्गाः कल्लोलास्तेषां संक्रान्तिः संक्रमणं तेन मूढा अज्ञा
सामग्रहणं नामग्रहणपूर्वं यथा स्यात्तथोन्मुक्त आक्रन्दो याभिरेवंविधाभिः प्रियसखीभिग्रह्यमाणा ध्रियमाणा
अद्यापि सांप्रतमपि संज्ञां चेतनां न प्रतिलभते । तत्तस्माद्धेतोस्तावदादावेनामुत्थाप्याङ्क उत्सङ्गे कृत्वा चेतनां
संज्ञां लम्भय प्रापय । ततो यथेच्छं इच्छा यथा स्यात्तथा रोदिष्यसि रुदनं करिष्यसि ।
 
इति राज्ञाभिहिता कथिता विलासवती मे मम वत्सस्य जीवितनिबन्धनं कारणं वधूः केत्यभिदधत्येवेति
कथयन्त्येव ससंभ्रमं संभ्रमेण सहितं ससंभ्रमं सादरं सभयं वोपसृत्य समीपे निकटे गत्वाप्रतिपन्नसंज्ञामेवाप्राप्तचे-
तनामेवाङ्केनोत्सङ्गेनादाय कादम्बरीं मूर्च्छानिमीलनेनाहिता स्थापिता द्विगुणतरनयनशोभा यस्मिन्नेतादृशं वदनं
मुखमालोक्य निभाल्यानवरतं निरन्तरं नयनसलिलेन लोचनजलेन स्नानमाप्लवस्तेनार्द्रमुन्नमत एवेन्दुशकलवञ्चन्द्र-
खण्डवच्छीतलं शिशिरं स्वकपोलं कपोलयोर्ललाटं ललाटे, लोचनयोश्च लोचने, निवेशयन्ती स्थापयन्ती । 'अध-
टिप्प० - I अपूर्वोऽयमर्थः । ययोर्वर्तमानयोः, ययोर्वैशम्पायनः ( यरपुत्रो वैशम्पायनः, तथा च
संबन्धे षष्ठी ) इत्यर्थो वा योग्यः । 2 टीकाकारकरप विनिता दुस्मापाठान्नीचैर्वृतः पाठो रम्यः । व्याख्या
स्पष्टा, टीकयाऽनया सुगमा च ।
 
पाठा० -१ परं वदनात्. २ तिष्ठ; तिष्ठेताम्. ३ अस्य ४ गृह्यमाणापि ५ एताम्. ६ अङ्के कृत्वोत्थाप्य
७ विलासवती तु तच्छ्रुत्वा ससंभ्रमोन्मुक्तचन्द्रापीडचरणा तत्क सा मे जीवितप्रतिलम्भहेतुर्वत्सरय वधूरिति धावमाना
चोपसृत्य तदवस्थां तु तामुत्थाप्याके कृत्वा मूर्च्छानिमी लनाहितद्विगुणतरनयनशोमं वदनमालोक्य. ८ अप्रतिपत्तिसं-
शाम. ९ निमीलित १० ललाटेन.