कादम्बरी /702
This page has not been fully proofread.
विलासवस्याः शोकः ]
उत्तरभागः ।
अपि न शृणोषि ? जात, केन रोषितोऽसि ? एषा तोषयामि वत्सं पादयोर्निपत्य । पु
चन्द्रापीड, प्रणम तावत्प्रत्युद्गम्य त्वत्स्नेहादेवातिदूरमागतस्यापि पितुः पादौ । क सा गया
ते गुरुभक्तिः ? क ते गुणाः ? क स स्नेहः ? क सा धर्मज्ञता ? क तत्पितृपक्षपातित्वम् १ ?
क सा बन्धुप्रीतिः ? क सा परिजनवत्सलता ? कथमभाग्यै सर्वमेकपद एवोत्सृज्यैवमी-
दासीन्यमवलम्ब्याव स्थितोऽसि । अथवा यथा ते सुखं तथा तिष्ठ । वैयमुदासीनहृदु-
यास्त्वयि' इति कृतार्तप्रलापा समुपसृत्य पुनः पुनर्गाढमालिङ्याङ्गानि, शिरः समाधाय,
कपोलौ चुम्बित्वा, चन्द्रापीडस्य चरणावुत्तमाङ्गे कृत्वोन्मुक्तकण्ठमरोदीत् ।
तथा रुदन्तीं तु तामन्तरित निजपीडस्तारापीडश्चन्द्रा पीडमपरिष्वज्यैव सर्वप्रजापीडापड़ -
रणक्षमाभ्यां भुजाभ्यामवलम्ब्याब्रवीत् – 'देवि, यद्यथाऽऽवयोः सुकृतैरेंपत्यतामुपगतस्तथापि
देवतामूर्तिरेवायमशोचनीयः । तमुच्यतामय मिदानीं मनुष्यलोकोचितः शोचितव्यवृत्तान्तः ।
ॲमोके कृते न किंचिदपि भवति । केवलं गल एव स्फुटति, रटतो न हृदयम् ।
ममुना प्रकारेण विलपन्त्या प्रलपन्त्या अपि न शृणोषि नाकर्णयसि । हे जात, केन रोषितः क्रोधं प्रापितोऽस्य-
सूयां प्रापितोऽसि । एषा विलासवती पादयोश्चरणयोर्निपत्य निपतनं कृत्वा प्रणामं कृत्वा वत्सं पुत्रं तोषयामि
संतोषयामि तुष्टिमुत्पादयामि । हे पुत्र हे वत्स हे सूनो चन्द्रापीड, प्रत्युद्गम्य संमुखमागम्याभिमुखमागत्य
तावदादौ त्वत्स्नेहात्तव प्रेम्णस्त्वत्प्रीतेरेवातिदूरमागतस्यातिदविष्ठमागतस्य पितुस्तारापीडस्य पादौ चरणी प्रणम
नमस्कुरु । सा ते तव गुरुभक्तिः पितर्याराध्यत्वेन ज्ञानं श्रद्धा वा वासना वा क्व गता कुत्र याता । ते तव गुणा
भवद्गुणाः शौर्यादयः क्व । स प्राक्तनः स्नेहः प्रेम क्व । सानिर्वचनीया वक्तुमशक्या धर्मज्ञता वृषवेत्तृता धर्मज्ञा-
तृतक । तत्सर्वप्रसिद्धं पितृपक्षपातित्वं व जनकमताश्रयित्वं क्व । सा बन्धुप्रीतिः व स्वजनेषु स्नेहः व स्वज-
नेषु प्रेमक्क । सा परिजने परिच्छदे वत्सलता हितकारिता क । ममाभाग्यदुर्देवैर्मे ममैकपद एव सर्वमुत्सृज्यैव
त्यक्त्वैव कथमौदासीन्यं माध्यस्थ्यमवलम्ब्यालम्बनीकृत्यावस्थितोऽसि अथवेति पक्षान्तरे । यथा ते तव सुखं
तथा तेन प्रकारेण तिष्ठावस्थानं कुरु । वयं तूदासीनमुदासतां गतं हृदयं चेतो येषां ते तथोक्तास्त्वयि विषये ।
इति कृत आर्तप्रलापो यया सैवंविधा विलासवती समुपसृत्य समीपे गत्वा पुनः पुनर्वारंवारमङ्गानि हस्तादी नि
गाढं दृढमालिङ्ग्याश्लिष्य शिर उत्तमाङ्ग समाप्रायाघ्राणं कृत्वा कपोलौ प्रसिद्धौ चुम्बित्वा चुम्बनं कृत्वा चन्द्रापी-
डस्य चरणौ पादावुत्तमाङ्गे शिरसि कृत्वोन्मुक्तकण्ठं यथा स्यात्तथारोदीदनं चकार ।
तथा प्रकारेण रुदन्तीं तु तामन्तरिता व्यवहिता निजपीडा येने स एवंभूतस्तारापीडश्चन्द्रापीडमपरिष्वज्यैवा-
नालिङ्गयैव सर्वप्रजायाः समप्रलोकस्य सर्वप्रकृतेः सकलजनस्य पीडार्तिस्तस्या अपहरणे दूरीकरणे क्षमाभ्यां
समर्थाभ्यां भुजाभ्यां बाहुभ्यामवलम्ब्यालम्बनीकृत्याब्रवीदभ्यधादवोचत् । किं तदित्याह — देवेति । हे देवि,
यदिति हेत्वर्थे । यथा येन प्रकारेणावयोस्तारापीडविलासवत्योः सुकृतैः पुण्यैरपत्यतां प्रसूतितामुपगतः प्राप्तः ।
'सुकृती पुण्यवान्धन्यः' इति कोशः । तथाप्ययं देवतामूर्तिरेव देवस्वरूप एवाशोचनीयो न शोचनीयः शुचं कर्तु-
मयोग्यः । तत्तस्माद्धेतोरिदानीं सांप्रतमयं मुच्यतां यज्यताम् मनुष्यलोकस्योचितो योग्यः शोचितव्यवृत्तान्तः
टिप्प० – 1 यस्य, स्त्रां पीडामगणयनित्यर्थः । 2 'यद्यप्यावयोः सुकृतैरपत्यतामुपगतः' इति पाठो
मनोरमः ।
गाठा०—१ औदासीन्य; अनुदासीन. २ दोर्भ्याम् ३ यद्यप्यावयोः ४ उपगतोऽपत्यताम्. ५. तन्मुच्यताम्.
.
६ मनुष्यस्नेहो त्चित शोचितव्य वृत्तान्तस्य; मनुष्यलोकोचितः परिशोचितव्यवृत्तान्तः ७ न शोके कृते.