2023-11-16 17:26:55 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

६६८
 
कादम्बरी ।
 
[ कथाया
 
दोहा 'हा, हतास्मि मन्दपुण्या दुःखैकभागिनी । न जानाम्येव विस्मृतमरणा कियद्यावद-
हमनेनानेक [^१]प्रकारं खलीकार- दानैकपण्डितेन दग्धवेधसा परं दग्धव्या' इत्यभिधानैव धा-
वित्वा हि
ह्रि
या महाश्वेता [^२]गुहाभ्यन्तरमविशत्, चित्ररथतनयापि सत्वरोपसृत सखी कदम्बकाव-
लम्बितशरीरा तूष्णीमेव मोहान्ध- कारम् । तदवस्थयोश्च तयोः शुकनासावलम्विबितशरीरो
राजा विवेशाश्रमपदम् । तदनु मनोरमावलम्बिता पुरः प्रधावितोत्प्लु- तायततरदृष्टि: 'क्व मे वत्सः'
इति पृच्छन्ती विलासवती । प्रविश्य च सै[^३]सह तयैव कान्त्याऽविरहितमुपरत सर्व प्रयत्न प्रयत्नं [^४]सुप्तमिव

तं [^५]पुत्रवत्सला तनयमालोक्य यावन्न परापतत्येव तारापीड- स्तावद्विलासंवती विधारयन्तीं
मनोरमामप्याक्षिण्प्य दूरत एव प्रसारितबाहुलताद्वया रयोन्मुक्तजर्जराभिर्नयनजलधाराभिः
प्रत्
प्रस्रवेण च सिञ्चन्ती महीतलम् 'एह्येहि जात दुर्लभक, चिरादृष्टोऽसि, देहि मे प्रतिवचनम् ।
आलोकय सकृदपि माम्, अनुचितं तात तवैतदव- स्थानम् । उत्थायाङ्कोपगमनेन मे संपादय
तनयोचितं स्नेहम् । न [^६]चानाकर्णितपूर्ण वावं बाल्येऽपि त्वया मद्वचनम्, अद्य किमेवं विलपन्त्या
 
विधी

 
[ टि ]-- विधो
नयनबिन्दुर्लोचन बिन्दुसंदोहो यस्याः सा तथा । हा अहं हतास्मि पीडितास्मि । कीदृशी । मन्दं स्वल्पं
पुण्यं यस्याः सा । पुनः कीदृशी । दुःखमेकं केवलं भजतीत्येवंशीला सा तथा । अहं न जानाम्येव नावबुध्ये एव ।
विस्मृतं विस्मरणतां गतं मरणं मृत्यु- र्यस्याः सा । कियद्यावदहमनेन दग्धवेधसा ज्वलितब्रह्मणानेक- प्रकारं यथा
स्वा
स्यात्तथा खलीकारस्य स्खलनविधेः प्रदान एकपण्डि- तेनात्यन्तचतुरेण दग्धव्या दहनीया ज्वालनीया । इत्यभिद-
धानैवेति कथयन्त्येव हिह्रिया त्रपया धावित्वा धावनं कृत्वा महाश्वेता गुहाभ्यन्त-
रमविशद्दरीमध्यमाविवेश । चित्र-
रथतनयापि कादम्बर्यपि सत्वरं शीघ्रमुपसृतं पार्श्वे समीप आगतं सखीकदम्बकं तेनावलम्बितं स्तम्भितं शरीरं
यस्याः सा तूष्णीमेव मौनमेव मोहान्धकारमावि- शन्मूर्च्छामगमत् । तदवस्थयोस्तादृशयोश्च तयोर्महाश्वेताकादम्ब-

र्योर्द्वयोः सत्योः, शुकनासेनावलम्बितं धृतं शरीरं यस्यैवंभूतो राजा- श्रमपदं विवेश प्राविशत्प्रवेशं चकार । तदनु
पश्चान्मनोरमयाव- लम्बिता, पुरोऽयेग्रे प्रधाविता चञ्चलायततरातिदीर्घा दृष्टिर्यस्याः सा क्व मे मम वत्स इति पृच्छन्ती
प्रश्नयन्ती विलासवती तथैवं[^1]तयैव मनोरमयैव सह प्रविश्य च प्रवेशं कृत्वैव सहजया स्वाभाविकया कान्त्याऽविरहितं
श्री
दीप्त्या सहितं ( कान्त्या सहित ) मुपरतो निवृत्तः सर्वः प्रयत्न [^2]उद्यमो यस्मात्स तम् । अत एवोत्प्रेक्षते । सुप्तमिव

कृतनिद्रमिव निद्रावशमिव, पुत्रे सुते सूनौ वत्सला हितकारिणी तनयं पुत्रं सुतमालोक्य यावन्न परापतत्येव पश्चा-
दागच्छत्येव तारापीडस्तावद्विलासवती विधारयन्ती देहावष्टभ्भं कारयन्तीं मनोरमामप्याक्षिप्याक्षेपणं कृत्वा दूरत
एव दविष्ठत एव प्रसारितं विस्तारितं बाहुलताद्वयं भुजवल्लीयुग्मं यया सा रयेण वेगेनो- [^3]न्मुक्तात एव प्रान्ते
जर्जराः शिथिलास्ताभिर्नयनयोर्जलधाराभि- रनुसंतानैः प्रस्रवेण स्तनोद्गतदुग्धेन च महीतलं सिञ्चन्ती सेकं कुर्वन्ती
सेचनं कुर्वन्ती --- हे जात हे पुत्र हे वत्स, एह्येत्यागच्छा- गच्छ । हे दुर्लभक हे दुष्प्राप, चिराच्चिरकालाद्हुकालेन
दृष्टोऽस्य- वलोकितोऽसि निरीक्षितोऽसि । मे मम प्रतिवचनं प्रत्युत्तरं देहि । मां सकृदपि चैकवारमप्यालोक
दृग्विषयी कुरु दृष्ट्यावलोकनं कुरु । हे तात हे पितः, तवैतदवस्थानमनुचितम न्याय्यम् । उत्थायोत्थानं कृत्वाङ्के
को
क्रोडे उत्सङ्गे यदुपगमनं तेन मे मम तनयोचितं पुत्रन्याय्यं तनययोग्यं स्नेहं प्रेम संपादय विधेहि । बाल्येऽपि
बाल्यावस्थायामपि त्वया भवता मद्वचनं मातृवचो न चानाकर्णितपूर्वं न चाश्रुतपूर्वम् । अद्य किं जातम् । एव-

 
टिप्प० -

 
 
[^
1]F. 'प्रविश्य च सहजयैव कान्त्याऽविरहितम्' इत्येव पाठः ।
[^
2]F. निवृत्तसर्वचेष्टमित्यर्थः

[^
3]F. उन्मुक्ताः अत एव, इति शुद्धं बोध्यम् ।
[^
4]F. मन्ये, टीकाकारस्य समये समये प्रमाद - वेतालावेशो

भवति यत् 'तातः पितरि पुत्रे च' इति स्थाने स्थाने स्वयं लिखन्नपि, अन्नत्र विस्वरं गायति ।
 
पाठा०—

 
[^
]G. प्रकार.
[^
]G. गृहा.
[^
]G. सहजया .
[^
]G. पुस्तमयमिव; प्रस्तरमयमिव .
[^
]G. पुत्रवत्सलः .
[^
]G. अनाक्रमित-
पूर्वम् ; अनवकर्णितपूर्वम्.