कादम्बरी /701
This page has not been fully proofread.
६६८
कादम्बरी ।
[ कथाया
दोहा 'हा, हतास्मि मन्दपुण्या दुःखैकभागिनी । न जानाम्येव विस्मृतमरणा कियद्यावद-
हमनेनानेकप्रकार खलीकारदानैकपण्डितेन दग्धवेधसा परं दग्धव्या इत्यभिधानैव धा-
वित्वा हिया महाश्वेता गुहाभ्यन्तरमविशत्, चित्ररथतनयापि सत्वरोपसृत सखी कदम्बकाव-
लम्बितशरीरा तूष्णीमेव मोहान्धकारम् । तदवस्थयोश्च तयोः शुकनासावलम्वितशरीरो
राजा विवेशाश्रमपदम् । तदनु मनोरमावलम्बिता पुरः प्रधावितोत्लुतायततरदृष्टि: 'क मे वत्सः'
इति पृच्छन्ती विलासवती । प्रविश्य च सैह तयैव कान्त्याऽविरहितमुपरत सर्व प्रयत्न सुप्तमिव
तं पुत्रवत्सला तनयमालोक्य यावन्न परापतयेव तारापीडस्तावद्विलासंवती विधारयन्तीं
मनोरमामप्याक्षिण्य दूरत एव प्रसारितबाहुलताद्वया रयोन्मुक्तजर्जराभिर्नयनजलधाराभिः
प्रत्रवेण च सिञ्चन्ती महीतलम् 'एह्येहि जात दुर्लभक, चिरादृष्टोऽसि, देहि मे प्रतिवचनम् ।
आलोकय सकृदपि माम्, अनुचितं तात तवैतदवस्थानम् । उत्थायाङ्कोपगमनेन मे संपादय
तनयोचितं नेहम् । न चानाकर्णितपूर्ण वाल्येऽपि त्वया मद्वचनम् अद्य किमेवं विलपन्त्या
विधी नयनबिन्दुर्लोचन बिन्दुसंदोहो यस्याः सा तथा । हा अहं हतास्मि पीडितास्मि । कीदृशी । मन्दं स्वल्पं
पुण्यं यस्याः सा । पुनः कीदृशी । दुःखमेकं केवलं भजतीत्येवंशीला सा तथा । अहं न जानाम्येव नावबुध्ये एव ।
विस्मृतं विस्मरणतां गतं मरणं मृत्युर्यस्याः सा । कियद्यावदहमनेन दग्धवेधसा ज्वलितब्रह्मणानेकप्रकारं यथा
स्वात्तथा खलीकारस्य स्खलनविधेः प्रदान एकपण्डि तेनात्यन्तचतुरेण दग्धव्या दहनीया ज्वालनीया । इत्यभिद-
धानैवेति कथयन्त्येव हिया त्रपया धावित्वा धावनं कृत्वा महाश्वेता गुहाभ्यन्तरमविशद्दरीमध्यमाविवेश । चित्र-
रथतनयापि कादम्बर्यपि सत्वरं शीघ्रमुपसृतं पार्श्वे समीप आगतं सखीकदम्बकं तेनावलम्बितं स्तम्भितं शरीरं
यस्याः सा तूष्णीमेव मौनमेव मोहान्धकारमाविशन्मूर्च्छामगमत् । तदवस्थयोस्तादृशयोश्च तयोर्महाश्वेताकादम्ब-
र्योर्द्वयोः सत्योः, शुकनासेनावलम्बितं धृतं शरीरं यस्यैवंभूतो राजाश्रमपदं विवेश प्राविशत्प्रवेशं चकार । तदनु
पश्चान्मनोरमयावलम्बिता, पुरोऽये प्रधाविता चञ्चलायततरातिदीर्घा दृष्टिर्यस्याः सा क्व मे मम वत्स इति पृच्छन्ती
प्रश्नयन्ती विलासवती तथैवं मनोरमयैव सह प्रविश्य च प्रवेशं कृत्वैव सहजया स्वाभाविकया कान्त्याऽविरहितं
श्रीया सहितं ( कान्त्या सहित ) मुपरतो निवृत्तः सर्वः प्रयत्न उद्यमो यस्मात्स तम् । अत एवोत्प्रेक्षते । सुप्तमिव
कृतनिद्रमिव निद्रावशमिव, पुत्रे सुते सूनौ वत्सला हितकारिणी तनयं पुत्रं सुतमालोक्य यावन परापतत्येव पश्चा-
दागच्छत्येव तारापीडस्तावद्विलासवती विधारयन्ती देहावष्टभ्भं कारयन्तीं मनोरमामप्याक्षिप्याक्षेपणं कृत्वा दूरत
एव दविष्ठत एव प्रसारितं विस्तारितं बाहुलताद्वयं भुजवलीयुग्मं यया सा रयेण वेगेनोन्मुक्तात एव प्रान्ते
जर्जराः शिथिलास्ताभिर्नयनयोर्जलधाराभिरनुसंतानैः प्रस्रवेण स्तनोद्गतदुग्धेन च महीतलं सिञ्चन्ती सेकं कुर्वन्ती
सेचनं कुर्वन्ती --- हे जात हे पुत्र हे वत्स, एह्येत्यागच्छागच्छ । हे दुर्लभक हे दुष्प्राप, चिराच्चिरकालाद्वहुकालेन
दृष्टोऽस्यवलोकितोऽसि निरीक्षितोऽसि । मे मम प्रतिवचनं प्रत्युत्तरं देहि । मां सकृदपि चैकवारमप्यालोक
दृग्विषयी कुरु दृष्ट्यावलोकनं कुरु । हे तात हे पितः, तवैतदवस्थानमनुचितम न्याय्यम् । उत्थायोत्थानं कृत्वाङ्के
कोडे उत्सङ्गे यदुपगमनं तेन मे मम तनयोचितं पुत्रन्याय्यं तनययोग्यं स्नेहं प्रेम संपादय विधेहि । बाल्येऽपि
बाल्यावस्थायामपि त्वया भवता मद्वचनं मातृवचो न चानाकर्णितपूर्व न चाश्रुतपूर्वम् । अद्य किं जातम् । एव-
।
टिप्प० - 1 'प्रविश्य च सहजयैव कान्त्याऽविरहितम्' इत्येव पाठः । 2 निवृत्तसर्वचेष्टमित्यर्थः
3 उन्मुक्ताः अत एव, इति शुद्धं बोध्यम् । 4 मन्ये, टीकाकारस्य समये समये प्रमाद - वेतालावेशो
भवति यत् 'तातः पितरि पुत्रे च' इति स्थाने स्थाने स्वयं लिखन्नपि, अन्न विस्वरं गायति ।
पाठा०—१ प्रकार. २ गृहा. ३ सहजया ४ पुस्तमयमिव; प्रस्तरमयमिव ५ पुत्रवत्सलः ६ अनाक्रमित-
पूर्वम् ; अनवकर्णितपूर्वम्.