2023-11-17 05:03:18 by Lakshmainarayana achar
This page has been fully proofread once and needs a second look.
अच्छोदतीरे मेघनादस्याभिगमनम् ] उत्तरभागः ।
६६७
सा तु तदाकर्ण्य किंचिदात्मपाणिनैवोत्सारितावरणसिचयाञ्चला निश्चलया दृष्टट्या चिर-
मि [^१]वालोक्य तनयनिर्विशेषं राजपुत्रलोकर्
[^२]मविच्छिन्नाश्रुधारापि धैर्यमुन्मुच्योच्चैरारटितवती-
' हा वत्स, कथं सहपांसुक्क्रीडितस्यैतावतो राजपुत्रलोकस्य मध्ये त्वमेवैको न दृश्यसे' इति ।
तथा रदन्तीं तु तां समाश्वास्य, दूरत एव राजा समं सर्वलोकेनावनितलनिवेशितोत्तमाङ्गं
मेघनादम् 'इतो ढौकस्व' [^३]इत्यादिश्योद्दिश्याप्राक्षीत् - 'मेघनाद, कथय को वृत्तान्तो
वत्सस्य इति । स तु व्यज्ञापयत् - 'देव, चेतनाविरहाचेष्टामात्रक- मेवापगतम्, शरीरे
पुनर्ज्ञायते दिवसे दिवसेऽप्यधिका कान्तिः समुपजायते' इति । राजा तु तच्छ्रुत्वा जीवित-
प्रतिलम्भे समुपजात- प्रत्याशः 'श्रुतं देव्या मेघनादस्य वचनम्, तदेहि, चिरात्पुनः कृतार्थ- यामो
दर्शनेनात्मानम्, पश्यामो वत्सस्य वदनम्' इत्यभिधान एवा-
भिवर्धितगतिविशेषया
करेण्वा महाश्वेताश्रममगमत् ।
अथ सहसैव तच्चन्द्रापीडगुरुजनागमनमाकर्ण्य पुरैः प्रकीर्णतार- मुक्तानुकारिनयन [^६]बिन्दु सं
-
[ टि ]-- सा त्विति । सा विलासवती किंचिदात्मपाणिनैव स्वकीयकरेणैवोत्सारितमूर्ध्वंवीकृतमावरण सिचयस्याच्छाद-
नस्य वस्त्रस्यानस्य वस्त्रस्याञ्चलं प्रान्तं यया सा । 'सिचयो वसनं चीराच्छादौ सिक्चेल- वाससि । पटप्रान्ताञ्चलस्यान्ते' इति
हैमः । निश्चलया निर्निमेषया मेषोन्मेषरहितया दृष्ट्या दृशा चिरमिव बहुकालसदृशं तनयनिर्वि- शेषं यथा स्यात्त-.
थालोक्य निरीक्ष्याविच्छिन्नाऽत्रुटिताऽश्रुधारा य[^1]य- स्यामेवंविधापि धैर्ययं साहसमुन्मुच्य संत्यज्योच्चैर्गाढस्वरेणात्यर्थ
कथं
मा- रटितवती रोदनं कृतवती, तदेव दर्शयन्नाह
- हा इति । हा इति खेदे । हे वत्स हे पुत्र हे सुत,
सहपांसुक्क्रीडितस्य सार्धं रजःकालित- स्यैतावत इयतो राजपुत्रलोकस्य नृपसुतजनस्य मध्येऽन्तरा त्वमेव भवाने -
वैको न दृश्यसे त्वत्सदृशो न दृश्यसे न दृग्विषयीभवसि इत्यमुना प्रकारेणानेकप्रकारेण तथा रटन्तीं रुदन्तीं तु
तां विलासवतीं समाश्वास्याश्वासनां कृत्वा राजा तारापीडो दूरत एव दविष्ठ एव दूरस्थ एव सर्वलोकेन समं सर्व-
जनेन सार्धमवनितले वसुधातले निवेशितमुत्तमाङ्गं येनैवंभूतं मेघनादमितो ढौकस्खेति [^3]आनीहीत्यादिश्येत्युक्त्वो-
द्दिश्य नाममात्रग्रहणं कृत्वाप्राक्षी- दपृच्छत् । तदेव दर्शयन्नाह - मेघेति । हे मेघनाद, कथय ब्रूहि वत्सस्य
चेतनाविर-
पुत्रस्य कः कीदृशो वृत्तान्त इति । स तु मेघनादो
व्यज्ञापयद्विज्ञप्तिमकार्षीत् ।। हे देव हे स्वामिनन्,
चेतनाविरहाज्ज्ञाना- भावादज्ञानभावाच्चेष्टामात्रकमेव केवलं चलनादिक्रियामात्रं शरीरे [^5]देहे पुनरपगतं निवृत्तं ज्ञायते
दिवसे दिवसेऽप्यधिका कान्तिः प्रचुरद्युतिः समुपजायते समुत्पद्यत इति । राजा तु तच्छ्रुत्वा तदाकर्ण्य जीवित-
प्रतिलम्भे जीवितप्राप्तौ समुपजाता प्रत्याशा स्पृहा यस्य स मेघनादस्य वचनं देव्या श्रुतमाकर्णितम् । तदेहि ।
चिरा- चिरकालेन प्रचुरंरकालेन पुनरात्मानं दर्शनेनावलोकनेन निरीक्षणेन कृतार्थयामः कृतार्थीकुर्मः । वत्सस्य
वदनं पश्याम इत्यभिदधान एवेति कथयन्नेवेति वदन्नेवाभिवर्धितो वृद्धिधिं प्रापितो गतिविशेषो यस्याः सा तया
करेण्वा हस्तिन्या कृत्वा । तामारुह्येत्यर्थः । महा- श्वेताश्रममगमत् ।
अथेति । तद्गमनानन्तरं सहसैवाकस्मादेव तञ्च्चन्द्रापीडस्य गुरु- जनस्य मातृपितृजनस्यागमनमाकर्ण्य श्रुत्वा
प्रकीर्णा [^6]विक्षिप्तीता- स्तारा उज्ज्वलानि यानि मुक्ताफलानि ता अनुकरोतीत्येवंशीलः प्रकीर्णतारमुक्तानुकार्येवं
टिप्प॰—
[^1]F. 'यस्याः' इत्युचितम् ।
[^2]F. मार्गे गच्छतः पुनः प्रलापोयम् । सर्वे दृश्यन्ते, त्वमेवैको न
दृश्यसे, इत्येवार्थः ।
[^3]F. ढौकस्व भाआगच्छ । टीकाकारस्य तु लोकान्तरगतं व्याकरणम् ।
[^4]F. उद्दिश्येति पाठो
अ भ्रष्टैः परिगृहीत एव ।
[^5]F. चेष्टामात्रकमेवाऽपगतम्, शरीरे दिवसे दिवसेऽभ्यधिका- कान्तिः समुपजायते
इति ज्ञायते । अयमन्वयो योग्यः ।
[^6]F. प्रकीर्णानि इत्यादि क्लीबत्वं वाच्यम्, टीकाकारबुद्ध्या लेखकढ़ो
दोषाद्वा अत्र प्रमादो दृश्यते ।
पाठा० -
[^१]G. विलोक्य.
[^२]G. अवच्छिन्न .
[^३]G. उद्दिश्योद्दिश्य; इत्यादिश्य .
[^४]G. व्यज्ञपयत् .
[^५]G. पुनः .
[^६]G. संदोहम्.
'