This page has not been fully proofread.

अच्छोदतीरे मेघनादस्याभिगमनम् ] उत्तरभागः ।
 
६६७
 
सा तु तदाकर्ण्य किंचिदात्मपाणिनैवोत्सारितावरणसिचयाञ्चला निश्चलया दृष्टया चिर-
मिवालोक्य तनयनिर्विशेषं राजपुत्रलोकर्मविच्छिन्नाश्रुधारापि धैर्यमुन्मुच्योचैरारटितवती-
' हा वत्स, कथं सहपांसुक्क्रीडितस्यैतावतो राजपुत्रलोकस्य मध्ये त्वमेवैको न दृश्यसे' इति ।
तथा रदन्तीं तु तां समाश्वास्य, दूरत एव राजा समं सर्वलोकेनावनितलनिवेशितोत्तमाङ्गं
मेघनादम् 'इतो ढौकस्व' इत्यादिश्योद्दिश्याप्राक्षीत् - 'मेघनाद, कथय को वृत्तान्तो
वत्सस्य इति । स तु व्यज्ञापयत् - 'देव, चेतनाविरहाचेष्टामात्रकमेवापगतम्, शरीरे
पुनर्ज्ञायते दिवसे दिवसेऽप्यधिका कान्तिः समुपजायते' इति । राजा तु तच्छ्रुत्वा जीवित-
प्रतिलम्भे समुपजातप्रत्याशः 'श्रुतं देव्या मेघनादस्य वचनम्, तदेहि, चिरात्पुनः कृतार्थयामो
दर्शनेनात्मानम्, पश्यामो वत्सस्य वदनम् इत्यभिधान एवाभिवर्धितगतिविशेषया
करेण्वा महाश्वेताश्रममगमत् ।
 
अथ सहसैव तच्चन्द्रापीडगुरुजनागमनमाकर्ण्य पुरैः प्रकीर्णतारमुक्तानुकारिनयन बिन्दु सं
 
सात्विति । सा विलासवती किंचिदात्मपाणिनैव स्वकीयकरेणैवोत्सारितमूर्ध्वंकृतमावरण सिचयस्याच्छाद-
नस्य वस्त्रस्याचलं प्रान्तं यया सा । 'सिचयो वसनं चीराच्छादौ सिक्चेलवाससि । पटप्रान्ताञ्चलस्यान्ते' इति
हैमः । निश्चलया निर्निमेषया मेषोन्मेषरहितया दृष्ट्या दृशा चिरमिव बहुकालसदृशं तनयनिर्विशेषं यथा स्यात्त-.
थालोक्य निरीक्ष्याविच्छिन्नाऽत्रुटिताऽश्रुधारा यस्यामेवंविधापि धैर्य साहसमुन्मुच्य संत्यज्योच्चैर्गाढस्वरेणात्यर्थ
कथं
मारटितवती रोदनं कृतवती, तदेव दर्शयन्नाह
- हा इति । हा इति खेदे । हे वत्स हे पुत्र हे सुत,
सहपांसुक्क्रीडितस्य सार्धं रजःकालितस्यैतावत इयतो राजपुत्रलोकस्य नृपसुतजनस्य मध्येऽन्तरा त्वमेव भवाने -
वैको न दृश्यसे त्वत्सदृशो न दृश्यसे न दृग्विषयीभवसि इत्यमुना प्रकारेणानेकप्रकारेण तथा रटन्तीं रुदन्तीं तु
तां विलासवतीं समाश्वास्याश्वासनां कृत्वा राजा तारापीडो दूरत एव दविष्ठ एव दूरस्थ एव सर्वलोकेन समं सर्व-
जनेन सार्धमवनितले वसुधातले निवेशितमुत्तमाङ्गं येनैवंभूतं मेघनादमितो ढौकस्खेति आनीहीत्यादिश्येत्युक्त्वो-
द्दिश्य नाममात्रग्रहणं कृत्वाप्राक्षीदपृच्छत् । तदेव दर्शयन्नाह - मेघेति । हे मेघनाद, कथय ब्रूहि वत्सस्य
चेतनाविर-
पुत्रस्य कः कीदृशो वृत्तान्त इति । स तु मेघनादो व्यज्ञापयद्विज्ञप्तिमकार्षीत् । हे देव हे स्वामिन,
हाज्ज्ञानाभावादज्ञानभावाचेष्टामात्रकमेव केवलं चलनादिक्रियामात्रं शरीरे देहे पुनरपगतं निवृत्तं ज्ञायते
दिवसे दिवसेऽप्यधिका कान्तिः प्रचुरद्युतिः समुपजायते समुत्पद्यत इति । राजा तु तच्छ्रुत्वा तदाकर्ण्य जीवित-
प्रतिलम्भे जीवितप्राप्तौ समुपजाता प्रत्याशा स्पृहा यस्य स मेघनादस्य वचनं देव्या श्रुतमाकर्णितम् । तदेहि ।
चिराचिरकालेन प्रचुरंकालेन पुनरात्मानं दर्शनेनावलोकनेन निरीक्षणेन कृतार्थयामः कृतार्थीकुर्मः । वत्सस्य
वदनं पश्याम इत्यभिदधान एवेति कथयन्नेवेति वदन्नेवाभिवर्धितो वृद्धि प्रापितो गतिविशेषो यस्याः सा तया
करेण्वा हस्तिन्या कृत्वा । तामारुह्येत्यर्थः । महाश्वेताश्रममगमत् ।
 
अथेति । तद्गमनानन्तरं सहसैवाकस्मादेव तञ्चन्द्रापीडस्य गुरुजनस्य मातृपितृजनस्यागमनमाकर्ण्य श्रुत्वा
प्रकीर्णा विक्षिप्तीस्तारा उज्ज्वलानि यानि मुक्ताफलानि ता अनुकरोतीत्येवंशीलः प्रकीर्णतारमुक्तानुकार्येवं
 
टिप्प॰—1 'यस्याः' इत्युचितम् । 2 मार्गे गच्छतः पुनः प्रलापोयम् । सर्वे दृश्यन्ते, त्वमेवैको न
दृश्यसे, इत्येवार्थः । 3 ढौकस्व भागच्छ । टीकाकारस्य तु लोकान्तरगतं व्याकरणम् । 4 उद्दिश्येति पाठो
अटैः परिगृहीत एव । 5 चेष्टामात्रकमेवाऽपगतम्, शरीरे दिवसे दिवसेऽभ्यधिका कान्तिः समुपजायते
इति ज्ञायते । अयमन्वयो योग्यः । 6 प्रकीर्णानि इत्यादि क्लीबत्वं वाच्यम्, टीकाकारबुद्ध्या लेखकढ़ो
षाद्वा अत्र प्रमादो दृश्यते ।
 
पाठा० -१ विलोक्य. २ अवच्छिन्न ३ उद्दिश्योद्दिश्य; इत्यादिश्य ४ व्यज्ञपयत् ५ पुनः ६ संदोहम्.
 
'