2023-09-25 03:45:08 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

शुककथारम्भः ]
 
पूर्वभागः ।
 
मात्यार्मित्रैश्च सह तास्ताः कथा: कुर्वन्मुहूर्तमिवासांचक्रे । ततो नातिदूरवर्तिनीम् 'अन्तःपुरा -
द्वैशम्पायनमादायागच्छ' इति [^१]समुपजाततद्वृत्तान्तप्रश्नकुतूहलो राजा प्रतीहारीमादिदेश ।

सा क्षितितळनिहितजानुकरतला 'यथाज्ञापयति देवः' इति शिरसि कृत्वाज्ञां यथादिष्ट-
मकरोत् ।
 

 
अथ [^२]मुहूर्तादिव वैशम्पायनः प्रतीहार्या गृहीतपञ्जरः कनकवेत्रलता- वलम्बिना किंचिद्रवनत-
[^३]दवनतपूर्वकायेन सितकञ्चुका [^४]वच्छन्नवपुषा जराधवलितमौलिना गद्गदस्वरेण मन्दमन्द [^५]संचारिणा
विहङ्गजातिप्रीत्या जरत्कलहंसेनेव कबुञ्चुकिनानुगम्यमानो राजान्तिकमाजगाम । क्षितितल-

[^६]
निहित
करतलस्तु कञ्चुकी राजानं [^७]व्यज्ञापयत् - 'देव, देव्यो विज्ञापयन्ति, देवादेशादेष वैशम्पा-
यनः जास्नातः कृताहारश्च [^८]देवपादमूलं प्रतीहार्यानीतः' इत्यभिधाय [^९]गते च तस्मिन्राजा वैशम्पा-
यनमपृच्छत् - [^१०]'कैकच्चिदभिमतमास्वादित- मभ्यन्तरे भवता किंचिदशनजातम्' इति । से[^११]स प्रत्यु-
वाच - 'देव, किं वा नास्वादितम् । आमत्तकोकिललोचनच्छविर्नीलपाटलः कषायमधुरः प्रकाम-

 
[ टि ]
-
 
,
 
- नातिव्यवधानेन वर्तते या सा ताम् । आज्ञाविषयमाह - अन्तःपुरेति । अन्तःपुरादवरोधात्तं वैशम्पायनं
शुकमादायागच्छेति । समुपेति । समुपजातं समुत्पन्नं तस्य शुकस्य वृत्तान्तप्रश्ने प्रवृत्ति- पृच्छायां कुतूहलमाश्चर्यं
यस्य स तथेति राज्ञो विशेषणम् । सा प्रतीहारी क्षितितले निहितौ स्थापितौ जानू नलकीलकौ करतले

हस्ततले च यया सा । आसनविशेषेण विनयविशेषो व्यञ्जितः । आज्ञोत्तरं तस्याः कर्तव्यमाह - यथेति ।
यथा येन प्रकारेणाज्ञाप- यत्याज्ञां धत्ते देवो भवानित्यनूद्य शिरसि मस्तक आज्ञां पूर्वोक्तां कृत्वा । स्वशिरसि
करतलं निधायेति भावः । यथेति । येन प्रकारेण राज्ञादिष्टमा ज्ञापितं तथाकरोच्चकार ।
 

 
अथेति । अन्तःपुरप्रवेशानन्तरम् । मुहूर्तादिव तावन्मात्रविलम्बादिव वैशम्पायन: शुको राजान्तिकं
नृपसमीपमाजगामाययौ । शुकं विशिष्टि - प्रतीति । प्रतीहार्या पूर्वोक्तया गृहीतमात्तं पञ्जरं यस्य स तथा ।
कञ्चुकिनेति । कञ्चुकिना सौविदल्लकेनानुगम्य- मानोऽनुव्रज्यमानः । केन । विहङ्गजातिप्रीत्या पक्षित्वजातिस्ने-

हेन जरत्कलहंसेनेव वृद्धराजहंसेनेव । अथ कबुञ्चुकिनं विशेषयन्नाह – कनकेति । कनकस्य सुवर्णस्य या वेत्र-
लता वेतसयष्टिस्तामवलम्बत इत्येवंशीलः स तथा तेन । किंचिदिति । किंचिदीषदवनत आनम्रः पूर्वका यो
यस्य स तथा तेन । सितेति । सितः श्वेतो यः कबुञ्चुकः कूर्पासस्तेनावच्छन्नमाच्छादितं वपुः शरीरं यस्य
स तथा तेन । जरेति । जरा विस्रसा तया धवलितः शुश्भ्रीकृतो मौलिर्यस्य स तथा तेन । गदिति । गद्गदः
शब्दविशेषः स्वरो यस्य स तथा तेन । मन्देति । मन्दमन्दं शनैः शनैः संचरतीत्यवंशीलः स तथा तेन ।
क्षितीति । क्षितितले निहितं स्थापितं करतलं येनैवंविधः कञ्चुकी पूर्वोक्तो राजानं नृपं व्यज्ञापयद्विज्ञापन -
मकरोत् । हे देव हे स्वामिन्, देव्यो राजपत्न्यो विज्ञापयन्ति विज्ञप्तिं मन्मुखेन कारयन्ति । किं तदाह -
देवेति । देवादेशात्स्वामिनो नियोगादेष दृश्यमानो वैशम्पायनः शुकः पूर्वं स्नातः कृतस्नानः पश्चात्कृताहारो
विहिताशनः । अयं च देवस्य राज्ञः पादमूलं समीपं प्रतीहार्यानयानीतः । इत्यभिधायेत्युक्त्वा तस्मिन्कञ्चुकिनि
गते निवृत्ते सति राजा वैशम्पायनमपृच्छत् । कच्चिदिष्टप्रश्ने । भवता त्वयाभ्यन्तरेऽभिमत- मिष्टं किंचिदशन-
जातं भक्ष्यसमूहमाखास्वादितं जग्धम् । स इति । स शुकः प्रत्युवाच प्रत्यब्रवीत् । देवेति । हे नाथ,
किंवेत्यत्र नञि काकुः । तेन सर्वमास्वादितमित्यर्थः । तदेवोत्कर्षतया निरूपयति - प्रकामेति । प्रकाममति-
पाठा०

 
[^१]G
. समुपयात.
[^
]G. मुहूर्तादेव.
[^
]G., आनत.
[^
]G. अवच्छिन्न.
[^
]G. चारिणा.
[^
]G. विहित; निहितकरस्तु,
 
.
[^
]G. व्यजिज्ञापयत्.
[^
]G. पादमूले.
[^
]G. अपगते तस्मिन्.
[^
१०]G. क्वचित्.
[^
११]G. स तु.