This page has not been fully proofread.

शुककथारम्भः ]
 
पूर्वभागः ।
 
मात्यार्मिश्च सह तास्ताः कथा: कुर्वन्मुहूर्तमिवासांचक्रे । ततो नातिदूरवर्तिनीम् 'अन्तःपुरा -
द्वैशम्पायनमादायागच्छ' इति समुपजाततद्वृत्तान्तप्रश्नकुतूहलो राजा प्रतीहारीमादिदेश ।
सा क्षितितळनिहितजानुकरतला 'यथाज्ञापयति देवः' इति शिरसि कृत्वाज्ञां यथादिष्ट-
मकरोत् ।
 
अथ मुहूर्तादिव वैशम्पायनः प्रतीहार्या गृहीतपञ्जरः कनकवेत्रलतावलम्बिना किंचिद्रवनत-
पूर्वकायेन सितककावच्छन्नवपुषा जराधवलितमौलिना गद्गदस्वरेण मन्दमन्दसंचारिणा
विहङ्गजातिप्रीत्या जरत्कलहंसेनेव कबुकिनानुगम्यमानो राजान्तिकमाजगाम । क्षितितल-
निहित
करतलस्तु की राजानं व्यज्ञापयत् - 'देव, देव्यो विज्ञापयन्ति, देवादेशादेष वैशम्पा-
यनः जातः कृताहारश्च देवपादमूलं प्रतीहार्यानीतः' इत्यभिधाय गते च तस्मिन्राजा वैशम्पा-
यनमपृच्छत् - 'कैचिदभिमतमास्वादितमभ्यन्तरे भवता किंचिदशनजातम्' इति । से प्रत्यु-
वाच - 'देव, किं वा नास्वादितम् । आमत्तकोकिललोचनच्छविर्नीलपाटलः कषायमधुरः प्रकाम-
-
 
,
 
नातिव्यवधानेन वर्तते या सा ताम् । आज्ञाविषयमाह - अन्तःपुरेति । अन्तःपुरादवरोधात्तं वैशम्पायनं
शुकमादायागच्छेति । समुपेति । समुपजातं समुत्पन्नं तस्य शुकस्य वृत्तान्तप्रश्ने प्रवृत्तिपृच्छायां कुतूहलमाश्चर्यं
यस्य स तथेति राज्ञो विशेषणम् । सा प्रतीहारी क्षितितले निहितौ स्थापितौ जानू नलकीलकौ करतले
हस्ततले च यया सा । आसनविशेषेण विनयविशेषो व्यञ्जितः । आज्ञोत्तरं तस्याः कर्तव्यमाह - यथेति ।
यथा येन प्रकारेणाज्ञापयत्याज्ञां धत्ते देवो भवानित्यनूद्य शिरसि मस्तक आज्ञां पूर्वोक्तां कृत्वा । स्वशिरसि
करतलं निधायेति भावः । यथेति । येन प्रकारेण राज्ञादिष्टमा ज्ञापितं तथाकरोच्चकार ।
 
अथेति । अन्तःपुरप्रवेशानन्तरम् । मुहूर्तादिव तावन्मात्रविलम्बादिव वैशम्पायन: शुको राजान्तिकं
नृपसमीपमाजगामाययौ । शुकं विशिष्ट - प्रतीति । प्रतीहार्या पूर्वोतया गृहीतमात्तं पञ्जरं यस्य स तथा ।
कञ्चुकिनेति । कञ्चुकिना सौविदल्लकेनानुगम्यमानोऽनुव्रज्यमानः । केन । विहङ्गजातिप्रीत्या पक्षित्वजातिस्ने-
हेन जरत्कलहंसेनेव वृद्धराजहंसेनेव । अथ कबुकिनं विशेषयन्नाह – कनकेति । कनकस्य सुवर्णस्य या वेत्र-
लता वेतसयष्टिस्तामवलम्बत इत्येवंशीलः स तथा तेन । किंचिदिति । किंचिदीषदवनत आनम्रः पूर्वका यो
यस्य स तथा तेन । सितेति । सितः श्वेतो यः कबुकः कूर्पासस्तेनावच्छन्नमाच्छादितं वपुः शरीरं यस्य
स तथा तेन । जरेति । जरा विससा तया धवलितः शुश्रीकृतो मौलिर्यस्य स तथा तेन । गदिति । गद्गदः
शब्दविशेषः खरो यस्य स तथा तेन । मन्देति । मन्दमन्दं शनैः शनैः संचरतीत्यवंशीलः स तथा तेन ।
क्षितीति । क्षितितले निहितं स्थापितं करतलं येनैवंविधः कञ्चुकी पूर्वोक्तो राजानं नृपं व्यज्ञापयद्विज्ञापन -
मकरोत् । हे देव हे स्वामिन् देव्यो राजपत्यो विज्ञापयन्ति विज्ञप्तिं मन्मुखेन कारयन्ति । किं तदाह -
देवेति । देवादेशात्स्वामिनो नियोगादेष दृश्यमानो वैशम्पायनः शुकः पूर्वं स्नातः कृतस्नानः पश्चात्कृताहारो
विहिताशनः । अयं च देवस्य राज्ञः पादमूलं समीपं प्रतीहार्यानयानीतः । इत्यभिधायेत्युक्त्वा तस्मिन्कञ्चुकिनि
गते निवृत्ते सति राजा वैशम्पायनमपृच्छत् । कच्चिदिष्टप्रश्ने । भवता त्वयाभ्यन्तरेऽभिमतमिष्टं किंचिदशन-
जातं भक्ष्यसमूहमाखादितं जग्धम् । स इति । स शुकः प्रत्युवाच प्रत्यब्रवीत् । देवेति । हे नाथ,
किंवेयत्र नञि काकुः । तेन सर्वमास्वादितमित्यर्थः । तदेवोत्कर्षतया निरूपयति - प्रकामेति । प्रकाममति-
पाठा० .१ समुपयात. २ मुहूर्तादेव. ३ आनत. ४ अवच्छिन्न. ५ चारिणा. ६ विहित; निहितकरस्तु,
 
७ व्यजिज्ञापयत्. ८ पादमूले. ९ अपगते तस्मिन्. १० क्वचित. ११ स तु.