कादम्बरी /7
This page has been fully proofread twice.
नास्माकं मस्तिष्काद्व्यपथाति । अधुनापि हि पद्यानां प्रवाहः प्रकामं प्रसृतो विलोक्यते, कामं तानि पद्यानि पद्याभासान्येव भवेयुः परं गद्यनिषद्यायां नास्माकं मनो रमते । यानि किल गद्यकाव्यानि निर्मितानि तान्यपि पद्यमयानि कृत्वा मन्ये प्रमादपरिशोधनमिव क्रियतेऽस्माभिः । अत एव हि कादम्बर्या अपि 'पद्यकादम्बरी' नाम्ना पुनःसंस्करणं पुनर्जन्म वा भवति । श्लोकबद्धं दशकुमार- चरितमाविर्भूतमेव पुरा जयपुरात् । अन्यत्किम्, या सिद्धान्तकौमुदी स्वच्छन्दगतिना गद्येन निबद्धाप्यन्तेवासिनां यथावद्बुद्धिगता न भवति, नागेशाद्या: प्रगाढपण्डिता यां टीकाशतैस्तुन्दिलयन्तोपि न तृप्यन्ति, सैव पुनः [^१]पद्यबन्धे
निगडयितुं काम्यते इति किं न्यूनाऽस्माकं पद्यभक्तिः ?
संस्कृतभाषायां गद्यसाहित्यं नासीदिति तु न कथञ्चिद्वक्तुं शक्यते । संहिता- ब्राह्मणकालादेवाऽस्योद्भवो नाम । सूत्र-भाष्याणां काले तु प्राचुर्यमविन्दत गद्यलेख एव । किन्तु सा शैली दार्शनिकं प्रवा-
हमन्वसरत्, न काव्यसौन्दर्यम् । ततः पक्षधरमिश्र - गदाधरभट्टाचार्यादीनामनन्तरं समुज्जृम्भमाणे
शास्त्रार्थयुगेऽवच्छेदकताच्छिन्नैःसमासाच्छन्नपदगुच्छकैरेवाऽऽ-च्छाद्यत संस्कृतगद्याङ्गणमिदम् । न केवलं तर्कशास्त्रीया एव, व्याकरणादीनामपि ग्रन्थास्तमेव वीरवेषं वहन्तः पुरा प्रादुरभवन् । महाभारतसंबद्धाद्गद्यभागात्, महाभाष्ये दृष्टेभ्य: [^२]'वासवदत्ता' 'सुमनोत्तरा' 'भैमरथी' त्यादिकथाऽऽख्यायिकानामभ्यश्च
बहो: कालारत्पूर्वमेव यद्यपि गद्यकाव्यानां प्रादुर्भूतिरनुमातुं शक्या किन्तु साहित्यनियमानुसारी सर्वविदितस्तद्विकासो दण्डिपण्डितादेव प्रारभ्यते । एवं तु ख्रिष्टजन्मतः पूर्वं शतकद्वयमारभ्य ख्रिष्टीयषष्ठशतकपर्यन्तमुपलब्धेषु शिलालेखेष्वपि काव्यशैलीभुक्तानि गद्यानि प्राप्यन्ते किन्तु गद्यकाव्यानां व्यवस्थितं रूपं दण्डिकवेरेव प्रारभ्यत इति वक्तव्यमापतति ।
दण्डी
कविर्दण्डी दशकुमारचरितं नाम गद्यकाव्यं निर्ममौ यद्धि सर्वत्र सुप्रसिद्धं नात्मपरिचयमपेक्षते । बाणभट्टस्य कादम्बर्यां पदमाधुर्ये वर्णनाचातुर्ये सत्यपि, विशेषणानां बाहुल्यात् सुदीर्घदीर्घैर्व- नाऽऽटोपैः कथांशे व्याघातो भवतीति बहूनां कथनम् । दशकुमारचरिते न तथा । परमत्र कथानामत्यन्तमेवाधिक्यं येन
हि तासां मनःस्थीकरणमत्यन्तं कठिनम् । दण्डिनः पदलालित्यमपि बहूनां मते प्रसिद्धम् [एतद्विषये परस्तादालोच्येत ] । अयं हि अनुमानतः खि. षष्ठशताब्द्यामजायत ।
सुबन्धुः
एतस्य किञ्चिदेवाऽनन्तरं सुबन्धुर्वासवदत्तां नाम 'कथां' निबबन्ध, या हि पदे पदे श्लेष - यमकादिभिर्विभूषिता । अत्र हि शब्दचमत्कारः कामं भवेत्परं विचारमार्मिकतायामर्थस्यौचित्यं बहुत्रैव विस्खलति । शब्दालंकारनिर्वाहे निमीलितनयनो ग्रन्थकृत् कथागतानामर्थानामौचित्योल्लङ्घनमपि नावेक्षते । कथापि न
किञ्चित् । परस्परं स्वप्ने विलोकयन्तौ नायिका-नायकौ मिथोऽनुरज्यतः । तदनन्तरं मित्रसहचरो नायकोऽन्विष्यन् नायिकामवाप्नोति। न कथायामाकर्षकं किञ्चिद्वैचित्र्यम् । एकस्मिन्पृष्ठ एव सर्वापि कथा समापयितुं शक्यते । केवलं शब्दचातुर्येणैव ग्रन्थाभोगः पूरितः कविना । किन्तु नेतः पूर्वमेवं विधशैली भुक्तं किञ्चिदपि 'कथा' काव्यमासीदिति भूयसी [^३]प्रशंसा समभूत्साहित्ये । एतस्य समयः खि. षष्ठशतकादुत्तरं सप्तमशतकस्य प्रथमः पादः । यतो हि वासवदत्तावर्णने- 'न्यायस्थितिमिव उद्योतकरस्वरूपाम्, बौद्धसंगतिमिव अलंकारभूषितां ..... वासवदत्तां ददर्श' इति वाक्यमुपलभ्यते । अत्र हि न्यायवार्तिककार उद्घोतकराचार्यः, प्रसिद्धो बौद्धनैयायिको धर्मकीर्तिश्चापि निर्दिष्टोऽस्ति । अनयोः समयः ख्रिष्टस्य षष्ठं शतकमेवैतिहासिकैः स्वीकृतः । अत एव सप्तमशतकस्यादिभाग एव सुबन्धुर्जात इति सामञ्जस्येनोपपद्यते ।
[^१]G.देवीप्रसादकविचक्रवर्तिमहोदयेन प्रकटयितुमुपक्रान्ता 'सुप्रभात' पत्रे दृष्टा पुरा ।
[^२]G. नेयं सुबन्धोर्वासवदत्ता । अतिप्राचीनो हि महर्षिः पतञ्जलिः । सुबन्धुस्तु षष्ठशतकोत्पन्नः ।
[^३]G. 'कवीनामगलद्दर्पो नूनं वासवदत्तया' (हर्षचरितम्) ।
निगडयितुं काम्यते इति किं न्यूनाऽस्माकं पद्यभक्तिः ?
संस्कृतभाषायां गद्यसाहित्यं नासीदिति तु न कथञ्चिद्वक्तुं शक्यते । संहिता- ब्राह्मणकालादेवाऽस्योद्भवो नाम । सूत्र-भाष्याणां काले तु प्राचुर्यमविन्दत गद्यलेख एव । किन्तु सा शैली दार्शनिकं प्रवा-
हमन्वसरत्, न काव्यसौन्दर्यम् । ततः पक्षधरमिश्र - गदाधरभट्टाचार्यादीनामनन्तरं समुज्जृम्भमाणे
शास्त्रार्थयुगेऽवच्छेदकताच्छिन्नैःसमासाच्छन्नपदगुच्छकैरेवाऽऽ-च्छाद्यत संस्कृतगद्याङ्गणमिदम् । न केवलं तर्कशास्त्रीया एव, व्याकरणादीनामपि ग्रन्थास्तमेव वीरवेषं वहन्तः पुरा प्रादुरभवन् । महाभारतसंबद्धाद्गद्यभागात्, महाभाष्ये दृष्टेभ्य: [^२]'वासवदत्ता' 'सुमनोत्तरा' 'भैमरथी' त्यादिकथाऽऽख्यायिकानामभ्यश्च
बहो: काला