कादम्बरी /7
This page has not been fully proofread.
कादम्बरी ।
●नास्माकं मस्तिष्काव्यपयाति । अधुनापि हि पद्यानां प्रवाहः प्रकामं प्रसृतो विलोक्यते, कामं तानि पचानि
पद्याभासान्येव भवेयुः परं गद्यनिषद्यायां नामाकं मनो रमते । यानि किल गद्यकाव्यानि निर्मितानि
तान्यपि पद्यमयानि कृत्वा मन्ये प्रमादपरिशोधनमिव क्रियतेंऽस्माभिः । अत एव हि कादम्बर्या अपि
'पथकादम्बरी' नाना पुनःसंस्करणं पुनर्जन्म वा भवति । लोकबद्धं दशकुमारचरितमाविर्भूतमेव पुरा
जयपुरात् । अन्यत्किम्, या सिद्धान्तकौमुदी खच्छन्दगतिना गद्येन निबद्धाप्यन्तेवासिनां यथावहुद्धिगता
न भवति, नागेशाधाः प्रगाढपण्डिता यां टीकाशतैस्तुन्दिलयन्तोपि न तृप्यन्ति, सैव पुनः पद्येबन्ध
निगडयितुं काम्यते इति किं न्यूनाऽस्माकं पचभक्तिः ?
संस्कृतभाषायां गद्यसाहित्यं नासीदिति तु न कथञ्चिद्वक्तुं शक्यते । संहिता- ब्राह्यणकालादेवाऽस्यो.
द्भवो नाम । सूत्र-भाष्याणां काले तु प्राचुर्यमविन्दत गद्यलेख एव । किन्तु सा शैली दार्शनिकं प्रवा-
हमन्वसरत्, न काव्यसौन्दर्यम् । ततः पक्षधर मिश्र - गदाधर भट्टाचार्यादीनामनन्तरं समुजृम्भमाणे
शास्त्रार्थयुगेऽवच्छेदकताच्छिन्नैः समासाच्छन्नपदगुच्छकैरेवाच्छाद्यत संस्कृतगद्याङ्गणमिदम् । न केवलं
तर्कशास्त्रीया एव, व्याकरणादीनामपि ग्रन्थास्तमेव वीरवेषं वहन्तः पुरा प्रादुरभवन् । महाभारतसंबद्धाद्
गद्यभागात, महाभाष्ये दृष्टेभ्य: 'वासंबदत्ता' 'सुमनोत्तरा' 'भैमरथी' त्यादिकथाऽऽख्यायिकानामभ्यश्च
बहो: कालारपूर्वमेव यद्यपि गद्यकाव्यानां प्रादुर्भूतिरनुमातुं शक्या किन्तु साहित्यनियमानुसारी सर्वविदि-
तस्तद्विकासो दण्डिपण्डितादेव प्रारभ्यते । एवं तु खिष्टजन्मतः पूर्वं शतकद्वयमारभ्य ख्रिष्टीयषष्ठशतकपर्य
न्तमुपलब्धेषु शिलालेखेष्वपि काव्यशैलीभुक्तानि गधानि प्राप्यन्ते किन्तु गद्यकाव्यानां व्यवस्थितं रूपं
दुण्डिकवेरेव प्रारभ्यत इति वक्तव्यमापतति ।
दण्डी
कविर्दण्डी दशकुमारचरितं नाम गद्यकाव्यं निर्ममौ यद्धि सर्वत्र सुप्रसिद्धं नात्मपरिचयमपेक्षते । बाण-
भट्टस्य कादम्बर्या/ पदमाधुर्ये वर्णनाचातुर्ये सत्यपि, विशेषणानां बाहुल्यात् सुदीर्घदीधैर्बर्णनाऽऽटोपैः कथांशे
व्याघातो भवतीति बहूनां कथनम् । दशकुमारचरिते न तथा । परमन्त्र कथानामत्यन्तमेवाधिक्यं येन
हि तासां मनःस्थीकरणमत्यन्तं कठिनम् । दण्डिनः पदलालित्यमपि बहूनां मते प्रसिद्धम् [एतद्विषये पर
तादालोच्येत ] । अयं हि अनुमानतः खि. षष्ठशताब्द्यामजायत ।
सुबन्धुः
एतस्य किञ्चिदेवाऽनन्तरं सुबन्धुर्वासवदत्तां नाम 'कथां' निबबन्ध, या हि पदे पदे श्लेष - यमकादि-
भिर्विभूषिता । अत्र हि शब्दचमत्कारः कामं भवेरपरं विचारमार्मिक तायामर्थस्यौचित्यं बहुत्रैव विस्खलति ।
शब्दालंकारनिर्वाहे निमीलितनयनो ग्रन्थकृत् कथागतानामर्थाना मौचित्योल्लङ्घनमपि नावेक्षते । कथापि न
किञ्चित् । परस्परं स्वप्ने विलोकयन्तौ नायिका-नायकौ मिथोऽनुरज्यतः । तदनन्तरं मित्रसहचरो नायको.
ऽन्विष्य नायिकामवाप्नोति। न कथायामाकर्षकं किञ्चिद्वैचित्र्यम् । एकस्मिन्पृष्ठ एव सर्वापि कथा समापयितुं
शक्यते । केवलं शब्दचातुर्येणैव ग्रन्थाभोगः पूरितः कविना । किन्तु नेतः पूर्वमेवं विधशैली भुक्तं किचि
दपि 'कथा' काव्यमासीदिति भूयसी प्रशंसा समभूत्साहिये । एतस्य समयः खि. षष्ठशतकादुत्तरं सप्तमश-
तकस्य प्रथमः पादः । यतो हि वासवदत्तावर्णने- 'न्यायस्थितिमिव उद्योतकरस्वरूपाम्, बौद्धसंगति -
मिव अलंकारभूषितां ..... वासवदत्तां ददर्श' इति वाक्यमुपलभ्यते । अत्र हि न्यायवार्तिककार उद्घोत.
कराचार्यः, प्रसिद्धो बौद्धनैयायिको धर्मकीर्तिश्चापि निर्दिष्टोऽस्ति । अनयोः समयः खिष्टस्य षष्ठं शतकमेवै-
तिहासिकैः स्वीकृतः । अत एव ससमशतकस्यादिभाग एव सुबन्धुजत इति सामञ्जस्येनोपपद्यते ।
Q
१ देवीप्रसादकविचक्रवर्तिमहोदयेन प्रकटयितुमुपक्रान्ता 'सुप्रभात' पत्रे दृष्टा पुरा । २ नेयं सुबन्धोर्वासवदत्ता ।
अतिप्राचीनो हि महर्षिः पतञ्जलिः । सुबन्धुस्तु षष्ठशतकोत्पन्नः । ३ 'कवीनामगलद्दप नूनं वासवदत्तया' (हर्षचरितम्) ।