2023-11-17 05:39:56 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

कादम्बरी ।
 
[ कथायाम्-
पयैर्दिवसैः परापताम:' इति मुहुर्मुहुस्तुरंगगारोपितं त्वरितक [^१]माहूय पृच्छ [^२]न्नविच्छिन्नकैः प्रयाण-
कैर्वहन्नबहुभिरेव दिवसैराससादाच्छोदम् । आसाद्य च विकल्पशतदोलाधिरोहण- दुःस्थितेनान्तरात्मना दूरस्थित एव प्रथममाप्ततमानश्ववारान्वार्तान्वे-
न्तरात्मना दूरस्थित एव प्रथममाप्ततमानश्ववारान्वार्तान्वे
षणाय त्वरितकेन [^३]सार्धं प्रहितवान् ।
 

 
अथ तैः सार्धमागच्छन्तम्, उज्झितात्म संस्कारमै [^४]मलिनक्ककृ- शरीरम् अवनितलनिवेशितों-
तोत्तमाङ्गम्, उद्वाबाष्पदीनतरदृष्टिम्, जीवितलज्जया रसातल मिव प्रवेष्टुमीहमानम्, अहमहमिकया

परस्परावरणेनैवात्मदर्शनमभिरक्षन्तम् अक्षतमपि तमिव, सपरि- च्छद्मपि मुषितमिव,
जीवन्तमपि मृतमिव, ससंभ्रम
कृतागमनमपि प्रतीपमाकृष्यमाणचरणमिव, अङ्गैरेव सह
गलितोत्साहम्, [^५]चा- पेनैव सह मुक्तात्मानम्, वैकुक्लव्येनैव सहोपसर्पन्तं मेघनादपुरःसरं सक-
लमेव चन्द्रापीडचरणतलनिबद्धजीवितं राजपुत्रलोकमालो-
क्योलॅ [^६]ल्लसितनॅ [^७]नयनः शोकोर्मिवेगा-
क्रान्तोऽप्युच्छ्सित इव दृढीभूतचन्द्रा पीडदेहाविनाशप्रत्ययेनान्तररात्मना निवृत्य सावरण- पर्या-
णवर्तिनीनीं विलासवतीमवादीत् - 'देवि, दिघ्ष्ट्या वर्धसे । प्ध्रियते सत्यमेव शरीरेण वत्सः ।
येन सकल एवायं तच्चरणकमलानुजीवी राजपुत्रलोकस्तत्पादमूलादागतः' इति ।
 

 
[ टि ]--
कियति मार्गे वयं स्मः, कतिपयैर्दिवसैः परापतामो गच्छाम इति च मुहुर्मुहुस्तुरंगमारोपितं न्यस्तमारूढं त्वरि॒त-
रितकनामानं सेवकमाहूयाह्वानं कृत्वा मन्त्रणं विधाय पृच्छन्प्रश्नं कुर्वन्नविच्छिन्नकै- र्निरन्तरैरन्तररहितैः प्रयाणकैर्गम-

नैर्वहन् चलन्नबहुभिरेव स्तोकैरेव दिवसैर्वासरैरच्छोदं सर आससाद प्राप्तवान् । आसाद्य च प्राप्य च विक-

ल्पानां संकल्पानां शतं तदेव दोला प्रेङ्खा तदधिरोहणमवस्थानं तेन दुःस्थितेन दुःखितेनैवविधेनान्तरात्मनान्तः-

करणेन दूरस्थितो दविष्ठस्थितः प्रथम मादावाप्ततमान तिशयेन यथार्थोपदेष्टृनश्ववारान्सादिनो वार्तान्वेषणाय वृत्ता-

न्तज्ञत्यर्थ त्वरितकेन सार्धं प्रहितवान्प्रेषितवान् ।
 

 
अथेति । तैः पूर्वप्रेषितैः सार्धं समागच्छन्तमायान्तमुज्झितस्यक्त आत्मसंस्कारः क्षालनादिरूपो येन स तम् ।

मलिनं कश्मलं कृशं क्षामं शरीरं यस्य स तम् । अवनितले निवेशितानि स्थापितान्युत्तमाङ्गानि शिरांसि येन स

तम् । उद्वाष्पेणोद्गतनेत्राश्रुणा दीनतरातिदुःखिता दृष्टिर्यस्य स तम् । जीवितलज्जया प्राणितत्रपया रसातलमिन

पातालमिव प्रवेष्टुं प्रवेशं कर्तुमीहमानं स्पृहमानम् । अहमहमिकयाहं पूर्वमहं पूर्वमिति स्वरूपया । 'अहमहमिका

तु सा स्यात्परस्परं यो भवाहंकारः' इत्यमरः । परस्परमन्योन्यमावरणमाच्छादनं तेनात्मदर्शनं स्वावलोकनम-

भिरक्षन्तं रक्षां कुर्वन्तम्, अक्षतमप्यखण्डमपि इतमिव कृतक्षतमिव, सपरिच्छदमपि सपरिवारमपि सपरिस्कन्द-

मपि मुषितमिव लुण्ठितमिन, जीवन्तमप्यसुमन्तमपि तमिवोपरतमित, ससंभ्रमं सादर दरेण भयेन सहितं सभयं

वा कृतं विहितमागमनं येनैवंविधमपि प्रतीपं विलोम । पश्चादिति यावत् । आकृष्यमाणौ चरणौ यस्य स तम् ।

सहा जैरेव गलितथ्युत उत्साहो यस्य स तमू । नापेन धनुषा सह मुक्तस्यक्त आत्मा येन स तम् । वैक्लव्येनैव

विह्वलत्वेनैव सहोपसर्पन्तं गच्छन्तम्, मेघनादः पुरःसरोऽमगाभी यस्य स तस् । सकलमेव समस्तमेव चन्द्रापीडस्

चरणतलं तत्र निबद्धं स्थापितं जीवितं येन स त । एवंविधं राजपुत्रलोकं नूपसुतजनमालोक्य वीक्ष्योल्लसिते नयने

लोचने यस्य सः । शोकस्य शोचनस्योर्मयस्तरंगाः काटोलाखेषां देगो रयस्तेनाक्रान्तोऽपि व्याप्तोऽप्युच्छ्वसित इवोल-

सित इव दृढीभूतः कठिनीभूतो निश्चितचन्द्रापीड देहसाविनाशप्रत्ययो यस्यैवंभूतेनान्तरात्मना निवृत्य सावरणं

यत्पर्याणं पल्ययनं तत्र वर्तिनीं विलासदतीमवादीत् । किं तदित्याह - हे देवि त्वं दिष्ट्या भाग्येनादृष्टेन वर्धस

एधसे । येन कारणेन बत्तः सत्यमेव शरीरेण प्रियते धार्यते । येन हेतुना सकल एव समग्र एवायं तस्य वत्सस्य

चरणकमलं पादसरोजमनुजीनतीत्येवंशीलो राजपुत्रलोको नृपसुतजनस्तस्य चन्द्रापीडस्य चरणमूलादागत इति ।

टिप्प० - 1 उद्वाष्पादन व टियतनित्यर्थो योग्यः । 2 भागच्छन्तमित्यर्थी योग्यः ।

पाठा ०१. आहूयाहूय. २ अविच्छिनैव. १ तह ४ मलिनीकृत, ५ बाष्पेण, ६ नवीन, ७ तनय