कादम्बरी /699
This page has not been fully proofread.
कादम्बरी ।
[ कथायाम्-
पयैर्दिवसैः परापताम:' इति मुहुर्मुहुस्तुरंगगारोपितं त्वरितकमाहूय पृच्छन्नविच्छिन्नकैः प्रयाण-
कैर्वहन्नबहुभिरेव दिवसैराससादाच्छोदम् । आसाद्य च विकल्पशतदोलाधिरोहणदुःस्थितेना-
न्तरात्मना दूरस्थित एव प्रथममाप्ततमानश्ववारान्वार्तान्वेषणाय त्वरितकेन सार्धं प्रहितवान् ।
अथ तैः सार्धमागच्छन्तम्, उज्झितात्म संस्कारमैलिनक्कशशरीरम् अवनितलनिवेशितों-
तमाङ्गम्, उद्वाष्पदीनतरदृष्टिम्, जीवितलजया रसातल मिव प्रवेष्टमीहमानम्, अहमहमिकया
परस्परावरणेनैवात्मदर्शनमभिरक्षन्तम् अक्षतमपि इतमिव, सपरिच्छद्मपि मुषितमिव,
जीवन्तमपि मृतमिव, ससंभ्रम
कृतागमनमपि प्रतीपमाकृष्यमाणचरणमिव, अङ्गैरेव सह
गलितोत्साहम्, चापेनैव सह मुक्तात्मानम्, वैकुव्येनैव सहोपसर्पन्तं मेघनादपुरःसरं सक-
लमेव चन्द्रापीडचरणतलनिबद्धजीवितं राजपुत्रलोकमालोक्योलॅसितनॅयनः शोकोर्मिवेगा-
क्रान्तोऽप्युच्छ्रसित इव दृढीभूतचन्द्रा पीडदेहाविनाशप्रत्ययेनान्तररात्मना निवृत्य सावरणपर्या-
णवर्तिनी विलासवतीमवादीत् - 'देवि, दिघ्या वर्धसे । प्रियते सत्यमेव शरीरेण वत्सः ।
येन सकल एवायं तच्चरणकमलानुजीवी राजपुत्रलोकस्तत्पादमूलादागतः' इति ।
कियति मार्गे वयं स्मः, कतिपयैर्दिवसैः परापतामो गच्छाम इति च मुहुर्मुहुस्तुरंगमारोपितं न्यस्तमारूढं त्वरि॒त-
कनामानं सेवकमाहूयाह्वानं कृत्वा मन्त्रणं विधाय पृच्छन्प्रश्नं कुर्वन्नविच्छिन्नकैर्निरन्तरैरन्तररहितैः प्रयाणकैर्गम-
नैर्वहन् चलन्नबहुभिरेव स्तोकैरेव दिवसैर्वासरैरच्छोदं सर आससाद प्राप्तवान् । आसाद्य च प्राप्य च विक-
ल्पानां संकल्पानां शतं तदेव दोला प्रेङ्खा तदधिरोहणमवस्थानं तेन दुःस्थितेन दुःखितेनैवविधेनान्तरात्मनान्तः-
करणेन दूरस्थितो दविष्ठस्थितः प्रथम मादावाप्ततमान तिशयेन यथार्थोपदेष्टृनश्ववारान्सादिनो वार्तान्वेषणाय वृत्ता-
न्तज्ञत्यर्थ त्वरितकेन सार्धं प्रहितवान्प्रेषितवान् ।
अथेति । तैः पूर्वप्रेषितैः सार्धं समागच्छन्तमायान्तमुज्झितस्यक्त आत्मसंस्कारः क्षालनादिरूपो येन स तम् ।
मलिनं कश्मलं कृशं क्षामं शरीरं यस्य स तम् । अवनितले निवेशितानि स्थापितान्युत्तमाङ्गानि शिरांसि येन स
तम् । उद्वाष्पेणोद्गतनेत्राश्रुणा दीनतरातिदुःखिता दृष्टिर्यस्य स तम् । जीवितलज्जया प्राणितत्रपया रसातलमिन
पातालमिव प्रवेष्टुं प्रवेशं कर्तुमीहमानं स्पृहमानम् । अहमहमिकयाहं पूर्वमहं पूर्वमिति स्वरूपया । 'अहमहमिका
तु सा स्यात्परस्परं यो भवाहंकारः' इत्यमरः । परस्परमन्योन्यमावरणमाच्छादनं तेनात्मदर्शनं स्वावलोकनम-
भिरक्षन्तं रक्षां कुर्वन्तम्, अक्षतमप्यखण्डमपि इतमिव कृतक्षतमिव, सपरिच्छदमपि सपरिवारमपि सपरिस्कन्द-
मपि मुषितमिव लुण्ठितमिन, जीवन्तमप्यसुमन्तमपि तमिवोपरतमित, ससंभ्रमं सादर दरेण भयेन सहितं सभयं
वा कृतं विहितमागमनं येनैवंविधमपि प्रतीपं विलोम । पश्चादिति यावत् । आकृष्यमाणौ चरणौ यस्य स तम् ।
सहा जैरेव गलितथ्युत उत्साहो यस्य स तमू । नापेन धनुषा सह मुक्तस्यक्त आत्मा येन स तम् । वैक्लव्येनैव
विह्वलत्वेनैव सहोपसर्पन्तं गच्छन्तम्, मेघनादः पुरःसरोऽमगाभी यस्य स तस् । सकलमेव समस्तमेव चन्द्रापीडस्
चरणतलं तत्र निबद्धं स्थापितं जीवितं येन स त । एवंविधं राजपुत्रलोकं नूपसुतजनमालोक्य वीक्ष्योल्लसिते नयने
लोचने यस्य सः । शोकस्य शोचनस्योर्मयस्तरंगाः काटोलाखेषां देगो रयस्तेनाक्रान्तोऽपि व्याप्तोऽप्युच्छ्वसित इवोल-
सित इव दृढीभूतः कठिनीभूतो निश्चितचन्द्रापीड देहसाविनाशप्रत्ययो यस्यैवंभूतेनान्तरात्मना निवृत्य सावरणं
यत्पर्याणं पल्ययनं तत्र वर्तिनीं विलासदतीमवादीत् । किं तदित्याह - हे देवि त्वं दिष्ट्या भाग्येनादृष्टेन वर्धस
एधसे । येन कारणेन बत्तः सत्यमेव शरीरेण प्रियते धार्यते । येन हेतुना सकल एव समग्र एवायं तस्य वत्सस्य
चरणकमलं पादसरोजमनुजीनतीत्येवंशीलो राजपुत्रलोको नृपसुतजनस्तस्य चन्द्रापीडस्य चरणमूलादागत इति ।
टिप्प० - 1 उद्वाष्पादन व टियतनित्यर्थो योग्यः । 2 भागच्छन्तमित्यर्थी योग्यः ।
पाठा ०१. आहूयाहूय. २ अविच्छिनैव. १ तह ४ मलिनीकृत, ५ बाष्पेण, ६ नवीन, ७ तनय