2023-11-17 15:25:00 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

सपरिकरस्य राज्ञो गमनम् ]
 
उत्तरभागः ।
 
मातृगृहस्य पृष्ठतस्तिष्ठति । पृच्छति च देवीम् – 'किमेभि: कथितम् ? जीवति मे वत्सो
वैशम्पायन: ? स्वस्थशरीरो वा ? ढौकितो वा पुनर्युवराजस्य । के[^१]क्व वर्तते । तावागमिष्यतो
वा कियद्भिर्दिवसैः' इति । राजा तु तदुपरतिवार्ताया अपि कष्टतममाकर्ण्य दीर्ण इव

शुचा, शतगुणीभूतशोकोत्ताजी [^२]त्प्लुताङ्गी विलासवतीमवादीत् - 'देवि, न श्रुतं किंचि [^३]दपि वत्सयोः
प्रियसख्या ते । अन्यतश्च श्रुत्वा कंदाचिजीवितेनैव वियुज्यते । तदुत्तिष्ठ । स्वयमेव धैर्य-
मालम्ब्य सर्ववृत्तान्तानुकथनेन संस्थापय प्रियसखीं तथा यथार्यशुकनासेन सह यातव्यम्'
इत्येवमुत्थाप्य सपरिजनां विलासवतीं व्यसर्जयत् । आत्मनापि शुकनासेन सह गमन-
संविधानमकारयत् ।
 
अथ तथा प्रस्थिते राजनि राजानुरागाच्चन्द्रापीड
नेहेन चाश्चर्य दर्शनकुतूहलाय प्रथमगतपितृ-
पुत्र भ्रातृमित्रस्वजनदर्शनाय च गृहरक्षकवर्जमुज्जयिन्याः सकल एव लोको गन्तुमुद चलत्। राजा
तु शीघ्रगमन विघातहेतून्समस्तानेव निवर्त्य प्रलघुपरिकरः पिबन्निव पन्थानम्, एक दिवसेनैव प-
रापतितुमीहमानः स्तोकत एवाध्वनः प्रभृत्युत्ताम्यता हृदयेन 'किय त्यध्वन्यद्यापि वर्तामहे, कति-

 
-
 
गता न प्राप्ता । तदेषा मनोरमा मातृगृहस्य पृष्ठतः सदनस्य पृष्ठिविभागतस्तिष्ठति स्थितास्ते । देवीं विलासवतीं च
पृच्छति प्रश्नं करोति । एभिर्लेखहारिभिः किं कथितं किं प्रतिपादितं संदेशहारकैः किमुक्तम् । मे मम वत्सो
वैशम्पायनो जीवति प्राणिति स्वस्थं नीरुजं शरीरं यस्यैवंभूतो वा ढौकितो वा मिलितो वा पुनर्युवराजस्य
चन्द्रापीडस्य । क्व वर्तते तिष्ठति । कियद्भिर्दिवसैस्तौ द्वौ चन्द्रापीडवैशम्पायनावागमिष्यत आगमनं करिष्यत
इति । राजा तु तदुपरतिवार्ताया मृत (ति) वार्तायाः किंवदन्त्या अपि केष्टतममतिकष्टं समाकर्ण्य शुचा दीर्ण इव
शीर्ण इव शतगुणीभूतो यः शोकस्तेनोद्भुतं व्याप्तमङ्गं यस्याः सैवंविधां विलासवतीमवादीदब्रवीत् । हे देवि, ते
तव प्रियसख्या मनोरमया वत्सयोः पुत्रयोश्चन्द्रापीडवैशम्पायनयोः किंचिदपि न श्रुतं नाकर्णितम् । अन्यतः
परेभ्यः श्रुत्वाकर्ण्य
कदाचिज्जीवितेनैव वियुज्यते । तदुत्तिष्ठ । स्वयमेव धैर्यमालम्ब्य सर्ववृत्तान्तानुकथनेन [^४]संस्थापय प्रियसखीं [^५]तथा यथार्यशुकनासेन सह यातव्यम्' इत्येवमुत्थाप्य सपरिजनां विलासवतीं व्यसर्जयत् । आत्मनापि शुकनासेन सह गमनसंविधानमकारयत् ।
 
अथ तथा प्रस्थिते राजनि राजानुरागाच्चन्द्रापीडस्नेहेन चाश्चर्यदर्शन- कुतूहलाय प्रथमगतपितृपुत्र भ्रातृमित्रस्वजनदर्शनाय च गृहरक्षक- वर्जमुज्जयिन्याः सकल एव लोको गन्तुमुदचलत्। राजा तु शीघ्रगमनविघातहेतून्समस्तानेव [^६]निवर्त्य प्रलघुपरिकरः पिबन्निव पन्थानम्, एक दिवसेनैव परापतितुमीहमानः स्तोकत एवाध्वनः प्रभृत्युत्ताम्यता हृदयेन 'कियत्यध्वन्यद्यापि वर्तामहे, कति-
 
[ टि ]-- गता न प्राप्ता । तदेषा मनोरमा मातृगृहस्य पृष्ठतः सदनस्य पृष्ठिविभागतस्तिष्ठति स्थितास्ते । देवीं विलासवतीं च
पृच्छति प्रश्नं करोति । एभिर्लेखहारिभिः किं कथितं किं प्रतिपादितं संदेशहारकैः किमुक्तम् । मे मम वत्सो वैशम्पायनो जीवति प्राणिति स्वस्थं नीरुजं शरीरं यस्यैवंभूतो वा ढौकितो वा मिलितो वा पुनर्युवराजस्य चन्द्रापीडस्य । क्व वर्तते तिष्ठति । कियद्भिर्दिवसैस्तौ द्वौ चन्द्रापीडवैशम्पायनावागमिष्यत आगमनं करिष्यत इति । राजा तु तदुपरतिवार्ताया मृत (ति) वार्तायाः किंवदन्त्या अपि [^1]कष्टतममतिकष्टं समाकर्ण्य शुचा दीर्ण इव शीर्ण इव शतगुणीभूतो यः शोकस्तेनोद्भुतं व्याप्तमङ्गं यस्याः सैवंविधां विलासवतीमवादीदब्रवीत् । हे देवि, ते तव प्रियसख्या मनोरमया वत्सयोः पुत्रयोश्चन्द्रापीडवैशम्पायनयोः किंचिदपि न श्रुतं नाकर्णि- तम् । अन्यतः परेभ्यः श्रुत्वाकर्ण्य कदाचिज्जीवितेनैव
प्राणितेनैव वियुज्यते मुच्यते । तत्तस्मात्कारणादुत्तिष्ठोत्थानं कुर्वभ्युत्थानं

निष्पादय । स्वयमेवात्मनैव धैर्यमालम्ब्य सर्ववृत्तान्तस्य समग्रो- दन्तस्यानुकथनेन पश्चात्कथनेन प्रियसखीं तथा
संस्थापय संस्थापनां कुरु यथार्यशुकनासेन सह यातव्यं गन्तव्यं भवति । इत्येवंप्रकारे- णोत्थाप्य सपरिजनां
सपरिच्छदां सपरिवारां विलासवतीं व्यसर्ज- यत्तत्र गमनायाज्ञां दत्तवान् । आत्मनापि शुकनासेन सह गमन संवि
धानं प्रयाणसामग्रीमकारयञ्च्चलनविधिं व्यधापयन्निष्पादयत् ।
 

 
अथ तथा प्रस्थिते तेन प्रकारेण चलिते राजनि नृपे, राज्ञोऽनुरा- गात्स्नेहास्त्प्रीतेः, चन्द्रापीडस्य स्लेनेहेन प्रेम्णा
चाश्चर्यस्य दर्शनमव- लोकनं तस्मिन्कुतूहलं कौतुकं तस्मै, प्रथममादौ गता ये पितरो जनकाः, पुत्राः सुताः,
भ्रातरो बान्धवाः, मित्राणि सुहृदः, स्वजना ज्ञातयः, तेषां दर्शनायावलोकनाय च गृहरक्षकवर्जं सद्मरक्षका-

न्विहायोज्जयिन्या विशालायाः सकल एव लोको गन्तुं गमनायो- दचलदुदपतत् । राजा तु नृपोऽपि शीघ्रं
यद्गमनं तस्य विघात- हेतून्गमन प्रतिबन्धकारिणः समस्तानेव सर्वानेव निवर्त्य विसर्ज्य, प्रलघुपरिकरः स्वल्पपरि-
.
वारः पन्थानं मार्गं पिबन्निव पानं कुर्वन्निव । एकदिवसेनैव परापतितुं प्राप्तमीहमानोऽभिलषमाणोऽभिवाञ्छ-

मानः स्तोकत एवाध्वनो मार्गात्प्रभृति च हृदयेनोत्ताम्यतोत्तपता वक्षसोत्तपताद्यापि कियत्यध्वनि वर्तामहे
 
टिप्प० -

 
[^
1]F. मरणवार्तातोऽपि अतिकष्टकरं मनोरमाया वाक्यं समाकर्-
कर्ण्
येत्यर्थः । उत, न केवलं वैश-
स्
म्पायनस्य मरणमेव, परं ततोपि कष्टतरं महाश्वेतोपसर्पणादिकं समाकर्ण्येत्यर्थः ।
 
पाठा -

 
[^
]G. का वार्ता क् वा वर्तते.
[^
]G. उत्प्लुताक्षीम् .
[^
]G. वत्सयोः कृते किंचिदपि, .
[^
]G. संस्तम्भय .
[^
]G. तथापि,
.
[^
]G. निर्वर्त्य,
 
.
का० ८४