2023-11-18 03:00:51 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

कादम्बरी ।
 
[ कथायाम्-
६६४
संस्तम्भमेवात्मनो न शक्नोमि कर्तुम् । यत्र च ममायमीदृशः प्रकारस्तत्र देव्याः परिबोधनं
दूरापेतमेव । तद्गमनादृतेऽन्य उपाय ए नास्ति जीवितसंधारणायेत्येवमवधारयत्वार्यः
।' इत्युक्तवति तारापीडे चिरात्तनयपीढया तै[^१]तत्पुरः परित्याजितलज्जं विलास- वती कृताञ्जलिरुयै-
जं
च्चैर्जगाद – 'आर्यपुत्र, यद्येवं तथापि किमपरं विलम्बितेन । निर्गता एव वयम् । दीयतां
प्रयाणम् । उत्ताम्यति मे हृदयं वत्सस्य दर्शनाय । दुःखापनोदार्थं स्फुटन मङ्गीकृतमासीत्

[^२]
तदपि संप्रति दर्शनकाङ्क्षया न रोचत एव । जानामि, वै[^३]वरं दीर्घकालमपि दुःखान्यनुभवन्ती
सकृदपि वत्संख्सस्य दर्शनाय जीवितास्मि, न पुनरसह्यदुःखोपशान्तये संप्रत्येव मृतास्मीति ।
सदस्य

तदस्य [^४]
पुनराशानिबॅ [^५]बन्धनस्य सर्वात्ययनिवारणोपायस्य वत्साननावलोकनो [^६]त्सुकस्य गमनमंपि
हृदयस्य ताद्विनोदतां व्रजतु ।'
 

 
इति [^७]वदन्तीमेव विलासवती [^८]मासाद्यान्यतमः शुकनासस्या- स्या [^९]त्मसमः परिणतवयाः पैं[^१०]षट्कर्मा
समुपसृत्य स्वै[^११]स्वस्तिपूर्वकं [^१२]व्यज्ञापयत् – 'देवि, सँर्वत ऍ[^१३]सर्वत [^१४]एवापरिस्फुटेन वार्ताकलकले [^१५]नाकुलीकृत-
हृदया मनोरमा स्वयमेव धावन्त्यागता । राज्ञो लज्ज्माना नोपगता स्थानमिदम् । तद्वेदेषा
 

 
[ टि ]
-
 
- [^1]प्रत्येक्षिते परोक्षे च वत्सस्य वदने सत्यात्मनः संस्तम्भमेव कर्तुं न शक्नोमि न समर्थो भवामि । यत्र च ममाय-

मीदृशः प्रकारस्तत्र देव्या विलासवत्याः परिबोधनं दूरापेतमेव मय्यप्रबुद्धे तस्याः प्रबोधः कुतः स्यादित्यर्थः ।
जीवितसंधारणाय तत्र गमनादृतेऽन्योऽपर उपायो नास्ति । इत्येवमार्योऽवधारयतु निश्चिनोतु । इत्युक्तवति
तारापीडे चिराद्हुकालात्तनयपीडया सुतार्त्या तत्पुरस्तस्य राज्ञः पुरोऽग्रे [^2]परित्याजिता दूरीकृता लज्जा त्रपा यथा
स्यात्तथा विलासवती कृताञ् लिर्नियोजित करकर- कमलोच्चैर्जगादोवाच । हे आर्यपुत्र, यद्येवं वर्तते तथापि किमपरं

विलम्बितेन विलम्बकरणेन । वयं निर्गता एवेतो निःसृता एव । यतः प्रयाणं प्रस्थानं दीयताम् । वत्सस्य दर्श
नायालोकनाथ मे मम हृदयं वक्ष उत्ताम्यति । उत्पत्तिदुःखस्यापनोदार्थं दूरीकरणार्थं स्फुटनमपि । हृदयस्येति
शेषः । अङ्गीकृतं स्वीकृतमासीत् । तदपि संप्रति दर्शनकाङ्क्षया विलोकन लिप्सया न रोचत एव न रुचिविषयी-
भवति इच्छा न भवति । अहमेतद्वरं जानाम्येवावबुध्ये दीर्घकालमपि दुःखान्यनुभवन्त्यनुभवविषयीकुर्वन्ती
सकृदप्येकघावारमपि वत्सस्य दर्शनाय जीवितास्मि न पुनरसत्यं सोढुमशक्यं यद्दुःखं तस्योप- शान्तये निवृत्तये संप्र-
त्येवाधुनैव मृतास्मीति । तदिति हेत्वर्थे अस्या- शैव निर्बंन्धनं कारणं यत्र तत्तथा तस्य सर्वात्ययः सर्वविनाश-
स्तस्य निवारण उपायस्य कारणस्य वत्साननस्यावलोकन उत्सुकस्य निरीक्षण उत्कण्ठितस्य हृदयस्य गमनमपि
तावद्विनोदतां कौतुक- तामाश्चर्यतां व्रजतु गच्छतु ।
 

 
इति वदन्तीमेवेति जल्पन्तीमेव विलासवतीमासाद्य प्राप्यान्यत- मोऽपरोऽनिर्दिष्टनामा शुकनासस्यात्मसम आत्म-
तुल्यः परिणतवयाः परिपक्ववयाः षट्कर्मा विप्रः समुपसृत्य समागत्य स्वस्तिपूर्वकं यथा स्यात्तथा व्यज्ञापयत्
किं तदित्याह – देवीति । हे देवि, सर्वत एव परित एवापरिस्फुटेना प्रकटेनाव्यक्तेन वार्ताकलकलेन प्रवृत्तिको
-
लाहलेन किंवदन्तीकोलाहलेनाकुलीकृतं व्याकुलीभूतं हृदयं यस्याः सा तथा मनोरमा वैशम्पायनप्रसूः स्वयमेव
धावन्ती त्वरितगत्या शीघ्रगत्या आगच्छन्त्यागता । राज्ञस्तारापीडाल्लजमाना त्रपां कुर्वाणेदं स्थानं नोपगता ना-
टिप्प० -

 
 
[^
1]F. न प्रत्यक्षीकृते सति इत्याशयः ।
[^
2]F. 'पत्युः पुरः परित्यज्य लज्जाम्' इति पाठः ।

[^
3]F. 'दुराशानिबन्धनस्य' ( दुराशया नितरां बन्धनं स्थितिर्यस् ) इत्येव पाठः ।
 
पाठा० -

 
[^
]G. पत्युः पुरः .
[^
]G. यदपि दुःखापनोदार्थं स्फुरितमस्याशंसितं हृदयमासीत् .
[^
]G. चिरम् .
[^
]G. दुराशा.

[^
]G. अभिमन्यनस्य बन्धनस्य.
[^
]G. उन्मुखस्य .
[^
]G. रुद्रन्तीम् .
[^
]G. आगत्य .
[^
]G. आत्मतमः, .
[^
१०]G. षट्कर्मवान्
[^
११]G. स्वस्तीत्युक्त्वा.

[^
१२]G. व्यशपयत्. तज्ञपयत्.
[^
१३]G. सर्वत्रैव.
[^
१४]G. अमुना.
[^
१५]G. आकुली क्रियमाण.