कादम्बरी /697
This page has not been fully proofread.
कादम्बरी ।
[ कथायाम्-
६६४
संस्तम्भमेवात्मनो न शक्नोमि कर्तुम् । यत्र च ममायमीदृशः प्रकारस्तत्र देव्याः परिबोधनं
दूरापेतमेव । तद्गमनादृतेऽन्य उपाय एष नास्ति जीवितसंधारणायेत्येवमवधारयत्वार्यः ।
इत्युक्तवति तारापीडे चिरात्तनयपीढया तैत्पुरः परित्याजितलज्जं विलासवती कृताञ्जलिरुयै-
जंगाद – 'आर्यपुत्र, यद्येवं तथापि किमपरं विलम्बितेन । निर्गता एव वयम् । दीयतां
प्रयाणम् । उत्ताम्यति मे हृदयं वत्सस्य दर्शनाय । दुःखापनोदार्थं स्फुटन मङ्गीकृतमासीत्
तदपि संप्रति दर्शनकाङ्क्षया न रोचत एव । जानामि, वैरं दीर्घकालमपि दुःखान्यनुभवन्ती
सकृदपि वत्संख्य दर्शनाय जीवितास्मि, न पुनरसह्यदुःखोपशान्तये संप्रत्येव मृतास्मीति ।
सदस्य पुनराशानिबॅन्धनस्य सर्वात्ययनिवारणोपायस्य वत्साननावलोकनोत्सुकस्य गमनमंपि
हृदयस्य ताबद्विनोदतां व्रजतु ।'
इति वदन्तीमेव विलासवतीमासाद्यान्यतमः शुकनासस्यात्मसमः परिणतवयाः पैंट्कर्मा
समुपसृत्य स्वैस्तिपूर्वकं व्यज्ञापयत् – 'देवि, सँर्वत ऍवापरिस्फुटेन वार्ताकलकलेनाकुलीकृत-
हृदया मनोरमा स्वयमेव धावन्त्यागता । राज्ञो लजमाना नोपगता स्थानमिदम् । तद्वेषा
-
प्रत्येक्षिते परोक्षे च वत्सस्य वदने सत्यात्मनः संस्तम्भमेव कर्तुं न शक्नोमि न समर्थो भवामि । यत्र च ममाय-
मीदृशः प्रकारस्तत्र देव्या विलासवत्याः परिबोधनं दूरापेतमेव मय्यप्रबुद्धे तस्याः प्रबोधः कुतः स्यादित्यर्थः ।
जीवितसंधारणाय तत्र गमनादृतेऽन्योऽपर उपायो नास्ति । इत्येवमार्योऽवधारयतु निश्चिनोतु । इत्युक्तवति
तारापीडे चिराद्वहुकालात्तनयपीडया सुतार्त्या तत्पुरस्तस्य राज्ञः पुरोऽग्रे परित्याजिता दूरीकृता लज्जा त्रपा यथा
स्यात्तथा विलासवती कृताज लिर्नियोजित करकमलोचैर्जगादोवाच । हे आर्यपुत्र, यद्येवं वर्तते तथापि किमपरं
विलम्बितेन विलम्बकरणेन । वयं निर्गता एवेतो निःसृता एव । यतः प्रयाणं प्रस्थानं दीयताम् । वत्सस्य दर्श
नायालोकनाथ मे मम हृदयं वक्ष उत्ताम्यति । उत्पत्तिदुःखस्यापनोदार्थ दूरीकरणार्थ स्फुटनमपि । हृदयस्येति
शेषः । अङ्गीकृतं स्वीकृतमासीत् । तदपि संप्रति दर्शनकाङ्क्षया विलोकन लिप्सया न रोचत एव न रुचिविषयी-
भवति इच्छा न भवति । अहमेतद्वरं जानाम्येवावबुध्ये दीर्घकालमपि दुःखान्यनुभवन्त्यनुभवविषयीकुर्वन्ती
सकृदप्येकघारमपि वत्सस्य दर्शनाय जीवितास्मि न पुनरसत्यं सोढुमशक्यं यद्दुःखं तस्योपशान्तये निवृत्तये संप्र-
त्येवाधुनैव मृतास्मीति । तदिति हेत्वर्थे अस्याशैव निर्बंन्धनं कारणं यत्र तत्तथा तस्य सर्वात्ययः सर्वविनाश-
स्तस्य निवारण उपायस्य कारणस्य वत्साननस्यावलोकन उत्सुकस्य निरीक्षण उत्कण्ठितस्य हृदयस्य गमनमपि
तावद्विनोदतां कौतुकतामाश्चर्यतां व्रजतु गच्छतु ।
इति वदन्तीमेवेति जल्पन्तीमेव विलासवतीमासाद्य प्राप्यान्यतमोऽपरोऽनिर्दिष्टनामा शुकनासस्यात्मसम आत्म-
तुल्यः परिणतवयाः परिपक्ववयाः षट्कर्मा विप्रः समुपसृत्य समागत्य स्वस्तिपूर्वकं यथा स्यात्तथा व्यज्ञापयत्
किं तदित्याह – देवीति । हे देवि, सर्वत एव परित एवापरिस्फुटेना प्रकटेनाव्यक्तेन वार्ताकलकलेन प्रवृत्तिको
लाहलेन किंवदन्तीकोलाहलेनाकुलीकृतं व्याकुलीभूतं हृदयं यस्याः सा तथा मनोरमा वैशम्पायनप्रसूः स्वयमेव
धावन्ती त्वरितगत्या शीघ्रगत्या आगच्छन्त्यागता । राज्ञस्तारापीडाल्लजमाना त्रपां कुर्वाणेदं स्थानं नोपगता ना-
टिप्प० - 1 म प्रत्यक्षीकृते सति इत्याशयः । 2 'पत्युः पुरः परित्यज्य लज्जाम्' इति पाठः ।
3 'दुराशानिबन्धनस्य' ( दुराशया नितरां बन्धनं स्थितिर्यस्थ ) इत्येव पाठः ।
पाठा० - १ पत्युः पुरः २ यदपि दुःखापनोदार्थ स्फुरितमस्याशंसितं हृदयमासीत् ३ चिरम् ४ दुराशा.
५ अभिमन्यनस्य ६ उन्मुखस्य ७ रुद्रन्तीम् ८ आगत्य ९ आत्मतमः, १० षट्कर्मवान् ११ स्वस्तीत्युक्त्वा.
१२ व्यशपयत्. १३ सर्वत्रैव. १४ अमुना. १५ आकुली क्रियमाण.