कादम्बरी /696
This page has been fully proofread once and needs a second look.
पततः पुत्रत्वमुपगतस्य चन्द्रापीडनानान्तरितस्य लोकपाल [^१]स्येव चन्द्रमसो दर्शने [^२]नाजन्मकृतमेव संतापं परित्यक्ष्यति देवः । [^३]तयोरेवं शापोऽस्माकं पुनर्वर एव ।
तदस्मिन्वस्तुनि मनागपि न देवेन देव्या वा शोकः कार्य: [^४]मङ्गला [^५]न्यभिधार्यन्ताम् । अभिमतदेवताराधनेन धनातिसर्जनेन चान्यजन्मोपार्जितं कुशलमभिवर्ध्यताम् । अकुशल- मपि [^६]यमनियमकष्टव्रतोपवासादिना तपःक्लेशेन क्षयमुपनीय- ताम् । अपरमपि [^७]यद्यदेवंगते श्रेयस्कर श्रूयते ज्ञायते वा तत्त- दद्यैवारभ्य क्रियतां कार्यतां च कर्म । न खलु वैदिकानामवैदिकानां वा कर्मणामसाध्यं नाम किंचिदपि । [^९]उत्पत्तिरपि च तयोः कृच्छ्रलब्धयोरीदृशेनैव प्रकारेणोपजाता ।'
इत्युक्तवति शुकनासे सशोक एव राजा प्रत्यवादीत्– 'सर्वमेतद्य- दार्येणाभिहितं कोऽन्योऽवबुध्यते ? केन वाऽपरेण वयं परिबोध- नीया: ? कस्य वापरस्यास्माभिर्वचनं करणीयम् ? किंतु तद्वत्सस्य मे वैशम्पायनदुःखात्स्फुटनं हृदयस्याग्रतो दृष्टिलग्नं सर्वमेवान्य-
[^१०]दन्तरयति । तदेव पश्यामि । तदेव शृणोमि । तदेवोत्प्रेक्षे । [^११]तदेवमप्रत्यक्षिते वत्सस्य वदने
[ टि ]-- न्नयनयोर्लोचनयोः पयोंयो जलं यस्य स तस्य वध्वा सह पादयोश्चरणयोः पततोऽभिवादनं कुर्वतः पुत्रत्वं सुतत •
तामुपगतस्य प्राप्तस्य चन्द्रापीडनाम्नान्तरितस्य व्यवहितस्य लोकपालस्येव सोम- यमवरुणकुबेरस्येव चन्द्रमसश्चन्द्रस्य
दर्शनेनावलोकनेन निरीक्षणे- नाजन्मनः कृतं जन्म मर्यादीकृत्य कृतमाजन्मकृतमेव संतापहेतु- त्वात्संतापं पापं देवः
परित्यक्ष्यति दूरीकरिष्यति निष्पापो भविष्यति । विगतपापो भविष्यतीत्यर्थः । तयोर्द्वयोश्चन्द्रापीडपुण्डरीकयोरेवं
शापोऽस्माकं पुनर्बवर एव ।
तदस्मिन्वस्तुनि मनागपीषदपि स्वल्पमपि देवेन देव्या वा न शोकः कार्यः । मङ्गलानि श्रेयांस्यभिधार्यन्ता-
मभिघ्ध्रियन्ताम् । युष्मांमाभिरभि- मतदेवताया इष्टवाञ्छितदेवताया आराधनेन सेवनेन धनस्य द्रव्यस्या सितिसर्जना
तिवितरणेन चान्य जन्मोपार्जितं परभवोपार्जितं गतभवनिष्पादितं कुशलमभिवर्ध्यताम् । यमा अहिंसा सत्यास्तेय.-
ब्रह्माकंकिंचनतालक्षणाः । 'अहिंसासत्यमस्तेय ब्रह्माकंकिंचनता यमाः' इति हैमः । कष्टुटव्रतं चान्द्रायणादि, उपवास
सा औपवस्तानि, एतान्या- दौ यस्यैवंभूतेन तपःक्लेशेन कष्टेनाकुशलमप्यकल्याणमप्यशिव- मपि क्षयं नाशमुपनीयत
प्राप्यताम् । अपरमप्यन्यदपि यद्यदेवंगते श्रेयस्करं कल्याणजनकं शुभकारणं श्रूयते आकर्ण्यते ज्ञायतेऽषव- बुध्यते
वा, तत्तदद्यैवारभ्याद्यदिनात्प्रभृति क्रियतां विधीयताम् । कार्यतां काराय्यतां च कर्म यज्ञादि शुभकर्मादि ।
खल्विति निश्चयेन निर्धारणेन । नामेति कोमलामन्त्रणे । वैदिकानामवैदिकानां वा कर्मणां किंचिदपि नासाध्यं
वर्तते कष्टतरं वर्तते । अपि चेति युक्त्य- न्तरे । तयोः कृच्छ्रलब्धयोः कष्टप्राप्तयोरुत्पत्तिरपीदृशेनैव प्रकारेण पूर्वो
क्तहेतुना उपजातोत्पन्ना ।
इत्युक्तवति शुकनासे सशोक एव राजा तारापीड : प्रत्यवादीत्प्रत्य- ब्रवीत् । सर्वमेतद्यदार्येण भवताभिहित
तं प्रतिपादितं तत्कोऽन्योऽव- बुध्यते जानाति । केन वापरेण त्वदन्येन वयं परिबोधनीयाः परिबो- धयितुं योग्याः
समर्थाः । कस्य वापरस्य द्वितीयस्यास्माभिर्वचनं वाक्यं करणीयं निष्पादनीयम् । किंत्वित्यव्ययमङ्गीकारे स्वीकारे ।
तन्मे मम वत्सस्य वैशम्पायन दुःखा द्हृदयस्य स्फुटनमग्रतो दृष्टि-
लग्नमन्यत्सर्वमेवान्तरयत्याच्छादयति व्यवहितं
करोति । तदेव हृदयस्फुटनमेव पश्याम्यवलोकयामि । तदेव शृणोम्याकर्णयामि । तदेवोत्प्रेक्षे वितर्कयामि । तद
पाठा –-
[^१]G. एव.
[^२]G. जन्म.
[^३]G. तत्तयोरयम् .
[^४]G. मङ्गलान्यभिध्यायन्ताम् .
[^५]G. अभिवर्धताम्; अभिवर्ध्यताम्.
[^६]G. उपार्जितेन कष्टतभेमेनोपवासादिधर्मनियमेन .
[^७]G. यद्देवगते:; यद्यदवगतम्.
[^८]G. कर्मणां खलु वैदिका नाम नामवैदिक
बाकान् वासाध्यं नाम किंचिदपि नास्ति .
[^९]G. चोत्पत्ति: .
[^१० ]G.अन्तरपतितम्.
[^११]G. तदेवमप्रत्यक्षमेव महद्वत्सस्य वदनम्.
तदस्मिन्वस्तुनि मनागपि न देवेन देव्या वा शोकः कार्य: [^४]मङ्गला [^५]न्यभिधार्यन्ताम् । अभिमतदेवताराधनेन धनातिसर्जनेन चान्यजन्मोपार्जितं कुशलमभिवर्ध्यताम् । अकुशल- मपि [^६]यमनियमकष्टव्रतोपवासादिना तपःक्लेशेन क्षयमुपनीय- ताम् । अपरमपि [^७]यद्यदेवंगते श्रेयस्कर श्रूयते ज्ञायते वा तत्त- दद्यैवारभ्य क्रियतां कार्यतां च कर्म । न खलु वैदिकानामवैदिकानां वा कर्मणामसाध्यं नाम किंचिदपि । [^९]उत्पत्तिरपि च तयोः कृच्छ्रलब्धयोरीदृशेनैव प्रकारेणोपजाता ।'
इत्युक्तवति शुकनासे सशोक एव राजा प्रत्यवादीत्– 'सर्वमेतद्य- दार्येणाभिहितं कोऽन्योऽवबुध्यते ? केन वाऽपरेण वयं परिबोध- नीया: ? कस्य वापरस्यास्माभिर्वचनं करणीयम् ? किंतु तद्वत्सस्य मे वैशम्पायनदुःखात्स्फुटनं हृदयस्याग्रतो दृष्टिलग्नं सर्वमेवान्य-
[^१०]दन्तरयति । तदेव पश्यामि । तदेव शृणोमि । तदेवोत्प्रेक्षे । [^११]तदेवमप्रत्यक्षिते वत्सस्य वदने
[ टि ]-- न्नयनयोर्लोचनयोः प
शापोऽस्माकं पुनर्
तदस्मिन्वस्तुनि मनागपीषदपि स्वल्पमपि देवेन देव्या वा न शोकः कार्यः । मङ्गलानि श्रेयांस्यभिधार्यन्ता
ब्रह्मा
इत्युक्तवति शुकनासे सशोक एव राजा तारापीड
तन्मे मम वत्सस्य वैशम्पायन
लग्नमन्यत्सर्वमेवान्तरयत्याच्छादयति व्यवहितं
पाठा –
[^१]G. एव.
[^२]G. जन्म.
[^३]G. तत्तयोरयम्
[^४]G. मङ्गलान्यभिध्यायन्ताम्
[^५]G. अभिवर्धताम्; अभिवर्ध्यताम्.
[^६]G. उपार्जितेन कष्टत
[^७]G. यद्देवगते:; यद्यदवगतम्.
[^८]G. कर्मणां खलु वैदिका
बा
[^९]G. चोत्पत्ति:
[^१०
[^११]G. तदेवमप्रत्यक्षमेव म