This page has not been fully proofread.

शुकनासस्य सान्त्वनम् ]
 
उत्तरभागः ।
 
६६३
 
पततः पुत्रत्वमुपगतस्य चन्द्रापीडनानान्तरितस्य लोकपालस्येव चन्द्रमसो दर्शनेनाजम्मकृत-
मेव संतापं परित्यक्ष्यति देवः । तयोरेवं शापोऽस्माकं पुनर्वर एव ।
 
तदस्मिन्वस्तुनि मनागपि न देवेन देव्या वा शोकः कार्य: । मङ्गलान्यभिधार्यन्ताम् ।
अभिमतदेवताराधनेन धनातिसर्जनेन चान्यजन्मोपार्जितं कुशलमभिवर्ध्यताम् । अकुशल-
मपि यमनियमकष्टव्रतोपवासादिना तपःक्वेशेन क्षयमुपनीयताम् । अपरमपि यद्यदेवंगते
श्रेयस्कर श्रूयते ज्ञायते वा तत्तदद्यैवारभ्य क्रियतां कार्यतां च कर्म । न खलु वैदिकां-
नामवैदिकानां वा कर्मणामसाध्यं नाम किंचिदपि । उत्पत्तिरपि च तयोः कृच्छ्रलब्धयोरी-
दृशेनैव प्रकारेणोपजाता ।'
 

 
इत्युक्तवति शुकनासे सशोक एव राजा प्रत्यवादीत्– 'सर्वमेतद्य दार्येणाभिहितं
कोऽन्योऽवबुध्यते ? केन वाऽपरेण वयं परिबोधनीया: ? कस्य वापरस्यास्माभिर्वचनं कर-
णीयम् ? किंतु तद्वत्सस्य मे वैशम्पायनदुःखात्स्फुटनं हृदयस्याप्रतो दृष्टिलमं सर्वमेवान्य
दैन्तरयति । तदेव पश्यामि । तदेव शृणोमि । तदेवोत्प्रेक्षे । तदेवमप्रत्यक्षिते वत्सस्य वदनें
 
नयनयोर्लोचनयोः पयों जलं यस्य स तस्य वध्वा सह पादयोश्चरणयोः पततोऽभिवादनं कुर्वतः पुत्रत्वं सुतत •
मुपगतस्य प्राप्तस्य चन्द्रापीडनाम्नान्तरितस्य व्यवहितस्य लोकपालस्येव सोमयमवरुणकुबेरस्येव चन्द्रमसश्चन्द्रस्य
दर्शनेनावलोकनेन निरीक्षणेनाजन्मनः कृतं जन्म मर्यादीकृत्य कृतमाजन्मकृतमेव संतापहेतुत्वात्संतापं पापं देवः
परित्यक्ष्यति दूरीकरिष्यति निष्पापो भविष्यति । विगतपापो भविष्यतीत्यर्थः । तयोर्द्वयोश्चन्द्रापीडपुण्डरीकयोरेवं
शापोऽस्माकं पुनर्बर एव ।
 
तदस्मिन्वस्तुनि मनागपीषदपि स्वल्पमपि देवेन देव्या वा न शोकः कार्यः । मङ्गलानि श्रेयांस्यभिधार्यन्ता-
मभिघ्रियन्ताम् । युष्मांभिरभिमतदेवताया इष्टवाञ्छितदेवताया आराधनेन सेवनेन धनस्य द्रव्यस्या सिर्जना
तिवितरणेन चान्य जन्मोपार्जितं परभवोपार्जितं गतभवनिष्पादितं कुशलमभिवर्ध्यताम् । यमा अहिंसा सत्यास्तेय.
ब्रह्माकंचनतालक्षणाः । 'अहिंसासत्यमस्तेय ब्रह्माकंचनता यमाः' इति हैमः । कष्टुव्रतं चान्द्रायणादि, उपवास
औपवस्तानि, एतान्यादौ यस्यैवंभूतेन तपःक्लेशेन कष्टेनाकुशलमप्यकल्याणमप्यशिवमपि क्षयं नाशमुपनीयत
प्राप्यताम् । अपरमप्यन्यदपि यद्यदेवंगते श्रेयस्करं कल्याणजनकं शुभकारणं श्रूयते आकर्ण्यते ज्ञायतेऽषबुध्यते
वा, तत्तदद्यैवारभ्याद्यदिनात्प्रभृति क्रियतां विधीयताम् । कार्यतां काराय्यतां च कर्म यज्ञादि शुभकर्मादि ।
खल्विति निश्चयेन निर्धारणेन । नामेति कोमलामन्त्रणे । वैदिकानामवैदिकानां वा कर्मणां किंचिदपि नासाध्यं
वर्तते कष्टतरं वर्तते । अपि चेति युक्त्यन्तरे । तयोः कृच्छ्रलब्धयोः कष्टप्राप्तयोरुत्पत्तिरपीदृशेनैव प्रकारेण पूर्वो
तहेतुना उपजातोत्पन्ना ।
 
इत्युक्तवति शुकनासे सशोक एव राजा तारापीड : प्रत्यवादीत्प्रत्यब्रवीत् । सर्वमेतद्यदार्येण भवताभिहित
प्रतिपादितं तत्कोऽन्योऽवबुध्यते जानाति । केन वापरेण त्वदन्येन वयं परिबोधनीयाः परिबोधयितुं योग्याः
समर्थाः । कस्य वापरस्य द्वितीयस्यास्माभिर्वचनं वाक्यं करणीयं निष्पादनीयम् । किंत्वित्यव्ययमङ्गीकारे स्वीकारे ।
तन्मे मम वत्सस्य वैशम्पायन दुःखा हृदयस्य स्फुटनमग्रतो दृष्टिलग्नमन्यत्सर्वमेवान्तरयत्याच्छादयति व्यवहितं
करोति । तदेव हृदयस्फुटनमेव पश्याम्यवलोकयामि । तदेव शृणोम्याकर्णयामि । तदेवोत्प्रेक्षे वितर्कयामि । तद
 
पाठा – १ एव. २ जन्म. ३ तत्तयोरयम् ४ मङ्गलान्यभिध्यायन्ताम् ५ अभिवर्धताम्; अभिवर्ध्यताम्.
६ उपार्जितेन कष्टतभेनोपवासादिधर्मनियमेन ७ यद्देवगते:; यद्यदवगतम्. ८ कर्मणां खलु वैदिका नाम वैदिक
बासाध्यं नाम किंचिदपि नास्ति ९ चोत्पत्ति: १० अन्तरपतितम्. ११ तदेवमप्रत्यक्षमेव महत्सस्य वदनम्.