कादम्बरी /695
This page has not been fully proofread.
६६२
कादम्बरी ।
[ कथायाम्-
ययातेस्तारुण्ये एव जरसा भङ्गः । त्रिशङ्कोच पितृशापाश्चाण्डालभावः । श्रूयते च स्वर्गवासी
महाभिषो नाम राजास्मिोके शन्तनुरुत्पन्नः । तत्पत्नीत्वमुपगताया गङ्गायाः शापदोषाद-
टानामपि वसूनां मनुष्येषूत्पत्तिः । तिष्ठतु तावदन्यः । अयमादिदेवो भगवानजः स एव
जैमनेरात्मजतार्मुपगतः । श्रूयते च पुनश्चतुर्धात्मानं विभज्य राजर्वेदंशरथस्य तथैव मथु-
रायां वसुदेवस्य । तम्मनुष्येषु देवतानामुत्पत्तिर्नैया संभाविनी । न च पूर्वमनुष्येभ्यो गुणैः
परिहीयते देवः । न चापि भगवतः कमलनाभादतिरिच्यते चन्द्रमाः । किमत्रीसंभावनी-
यम् । अपि च गर्भारम्भसंभवे देवेन देव्या बदने विशंश्चन्द्रमा एव दृष्टः, तथा ममापि स्वप्ने
पुण्डरीकस्य दर्शनं समुपजातम् । तदुत्पत्तिं प्रति तयोर्नास्त्येव संदेहः । विनष्टयोः शरीरस्या-
विनाशः कैथम्, कथं वा पुनर्जीवितंप्रतिलम्भ इत्यत्राखिललोकप्रत्याख्यातप्रभावममृतमेवैक
कारणमावेदितम् । तच्चन्द्रमसि विद्यत इत्येषास्त्येव वार्ता । तत्सर्वमेतदित्य मेवावगच्छतु देवः ।
अन्यच ताशाकारकान्तेरखिललोकाहादकारिणोऽन्यत्र संभव एव नास्ति । तत्कस्याणैर्न-
चिरौच्छापावसाने निर्वर्तितर्गन्धर्वसुतोद्वाहमङ्गलस्य गलन्नयनपयसो वध्वा सह पादयोः
सया कृत्वा भङ्गो हानिः । त्रिशकोश्च पितृशापाच्चाण्डालभावः । श्रूयते चाकर्ण्यते च स्वर्गवासी देवलोकवासी महा
भिषो नाम राजास्मिल्लोक इहलोके शन्तनुर्नाम राजोत्पन्नोऽवतरितोऽवतारं प्राप्तः । शापदोषाच्छापप्रभावात्तत्पत्नीत्वं
तत्स्त्रीत्वमुपगतायाः प्राप्ताया गङ्गायाः शापदोषादष्टानामष्टसंख्यानामपि वसूनां मनुष्येषूत्पत्तिर्जन्म प्रादुर्भावः प्रक-
टीभावः । तिष्ठतु तावदन्यः । अयमादिदेवो भगवानजः स एव जमदग्नेरात्मजतां पुत्रतां पुत्रभावमुपगतः प्राप्तो
जातः । श्रूयते चाकर्ण्यते च पुनरात्मानं चतुर्धा चतुःप्रकारेण विभज्य विभागीकृत्य राजर्षेर्दशरथस्य तनय-
त्वमुपगतः प्राप्तः । तथैव मथुरायां मधुपुरि वसुदेवस्य तनयत्वमुपागतः पुत्रत्वं प्राप्तः । तदिति हेत्वर्थे । मनु-
व्येषु नरेषु देवतानां देवानामुत्पत्तिर्निष्पत्तिर्नैवासंभाविनी नासंभाव्यैव । न च पूर्वमनुष्येभ्यो देवो गुणैः परि-
हीयते परिहीनो भवति सामस्त्येन न्यूनो भवति । न चापि भगवतः कमलनाभात्सका शाञ्चन्द्रमाः शशाङ्कश्चन्द्रो-
$तिरिच्यतेऽधिकीभवति । अतः किमत्रासंभावनीयमसंभाव्यम् । अपि चेति प्रकारान्तरे । गर्भस्यारम्भसंभवे च
प्रारम्भसमये देवेन भवता देव्या विलासवत्या वदने मुखे विशन्प्रवेशं कुर्वश्चन्द्रमा एव दृष्टोऽवलोकितः । तथा
ममापि खप्ने पुण्डरीकस्य दर्शनं समुपजातम् । ततस्तदुत्पत्तिं प्रति तयोर्द्वयोः पूर्वोक्तयोर्नास्त्येव संदेहो द्वापरः ।
विनष्टयोः कथं शरीरस्याविनाशः । कथं वा पुनर्जीवितस्य प्रतिलम्भः प्राप्तिरिति । अत्रापीहाप्यखिललोकेषु सम-
ग्रलोकेषु प्रत्याख्यातः प्रसिद्धः प्रभावो यस्यैवंभूतममृतमेव पीयूषमेव एकं कारणं निदानमावेदितं कथितम् ।
तदमृतं चन्द्रमसि चन्द्रे विद्यत इत्येषा वार्ता प्रवृत्तिः • किंवदन्त्यस्त्येव । तत्तस्मात्कारणादेतत्सर्वमित्थमेवेति देवो-
ऽवगच्छतु जानातु । अन्यच्च तादृशाकारकान्तेर्द्युतेरखिललोकस्य समग्रजनस्याह्लादकारिणः प्रमोदजननस्यानन्द-
कारकस्यान्यत्र संभव एव नास्ति । तदिति हेत्वर्थे । कल्याणैर्मङ्गलैर्नचिरादल्पकालेन शापस्याक्षेपवचनस्यावसाने
प्रान्ते सति विनिर्वर्तितं विहितं गन्धर्वसुतायाः कादम्बर्या उद्वाहमङ्गलं विवाहमाङ्गल्यं येन स तस्य गलत्क्षर-
।
टिप्प० -1 धन्यधन्यष्टीकाकारो यत्प्रत्याख्यातस्य प्रसिद्धार्थमुपदिशति । अस्तु. 'प्रख्यात' इत्येव
पाठः । 2 'संभव एव तस्य ( चन्द्रस्य )" इति पाठः ।
。
पाठा०-
-१ चण्डालभावः• २ महाधिष: ३ शान्तनुः; शान्तनुपत्नीत्वम् ४ उपागतायां च गङ्गायाम् ; उपाग
तायाः स्वर्गङ्गायाः, उपगतायां गङ्गायाम् ५ जामदग्भे: ६ उपागतः ७ असंभाविता. ८ संभावनीयम्. ९ कंथम्.
१० प्रलम्भः० ११ प्रख्यात १२ अमृतमनेककारणम्; अमृतमेव कारणम्. १३ सत्यमित्यमे, १४ ईदृशस्याकारस्य
कान्तेः; ईदुशाकारकान्ते: १५ अचिरात् १६ निवर्तित.
0.