2023-11-21 04:26:31 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

शुकनासस्य सान्त्वनम् ]
 
उत्तरभागः ।
 
६६१
 

 
भावाद्वा, स्वयमेवानेकप्रकार मुत्पद्यमानस्य तिष्ठतो विनश्यतो वाऽनियतवृत्तेः स्थावरजङ्गमस्य
न कदाचिदवस्था सा या न संभवति । त [^१]त्कुतोऽयं देवस्थायात्र वस्तुनि विमर्शः ? यदि [^२]युक्ते-
र्विचारात्कियन्त्यत्र युक्तिरहितान्यागमप्रामाण्यादेवा-
भ्युपगता [^३]न्यपि [^४]संवादीनि दृश्यन्ते ।
मुद्राबन्धाढ्द्ध्यानाद्वा विषप्रसुप्तस्योत्थापने कीदृशी युक्तिः । अयस्कान्तस्य चै।[^५]चायसः समांमा -
र्प
र्षणे [^६]भ्रमणे वा मन्त्राणां वैदिकानामवैदिकानां वानेक- प्रकारेषु कर्मसु सिद्धौ, नानाविषद्रव्य-
संयो [^७]गानां [^८]वामरणं मान्द्याद्युत्पादनापहरणवशीकरणविद्वेषणादिषु, शक्तेः समुत्पादनाद-
नादन्येषां बहुतराणामेवं विधानां च तं[^९]तत्र तत्र सर्वस्मिन्नेवा- [^१०]गमः प्रमाणम् । आगमेषु सर्वेष्वेव
[^११]पुराणरामायण- भारतादिषु सम्यगनेकप्रकाराः शापवार्ताः । तद्यथा । महेन्द्रपद- वर्तिनो [^१२]नहुषस्य
राजर्षेर गस्त्यशापादजगरता। सौदासस्य च वसिष्ठसुतशापान्मानुषादत्वम् । असुरगुरुशापाच्
 

 
[ टि ]--
नमेवानेकप्रकारं बहुधा बहुप्रकारं बहुविधमुत्पद्यमानस्य जायमानस्य निष्पद्यमानस्य तिष्ठतः स्थितिं कुर्वतो
विनश्यतो विनाशं प्राप्नुवतो वानियतवृत्तेरस्थिर वृत्तेर निश्चिवर्तनस्यैवंभूतस्य स्थावरजङ्गमस्य चराचररूपस्य न
कदाचित्कस्मिन्नपि काले सावस्था दशा या न संभवति न जायते न निष्पद्यते । तत्कुतोऽयं युक्तिविहितो दे-
वस्य
वस्य [^1]निर्जरैस्यास्मिन्वस्तुनि विमर्शो विचारो पिवितर्कः । यदि युक्तेर्विचारात्कियन्त्यत्र युक्तिरहितानि तर्कवार्जि-

तान्यागमप्रामाण्यादेवाभ्युपगतान्यप्यङ्गीकृतान्यपि संवादीन्यव्यभि- चारीणि दृश्यन्ते विलोक्यन्ते निरीक्ष्यन्ते ।
मुद्रा शरीरं तस्या बन्धान्मन्त्रेण बन्धप्रदानाद्ध्यानाद्वा तादृशनागमन्त्र [ सर्पमन्त्र ] चिन्तनाद्वा विषप्रसुप्तस्य गरल-
मूर्च्छितस्य विषधारितस्योत्थापने सज्जीकरणे निर्विषीकरणे कीदृशी युक्तिः । अयस्कान्तस्य दृषदश्चुम्बकप्रस्त-
रस्यायसो लोहस्य समाकर्षण आकृष्टौ भ्रमणे वा शक्तेः समुत्पादनान्निष्पादनात् । तथा वैदिकानां वेदोक्तानाम-

वैदिकानां शाबराणां वा मन्त्राणामनेकप्रकारेषु बहुविधेषु, बहुभेदेषु कर्मसु कृत्येषु सिद्धौ निष्पत्तौ, शक्तेः समु
त्पादनात् । तथा नानाविधा बहुप्रकारा बहुविधा ये द्रव्यसंयोगा द्रव्यसमुदायास्तेषां वामरणमामृत्युं मरणं मृत्युः,
मदो दर्पः, अहंकारो गर्वः, मान्द्यम-
पाटवमकुशलमादौ यस्य स मान्द्यादिस्तस्योत्पादनं निष्पादनम्, अप-
हरणमपहतिः, वशीकरणं संवननम् विद्वेषणं विद्वेषोत्पादनम् एतेषां द्वन्द्वः । एतान्यादौ येषां कर्मणां तेषु
शक्तेः समुत्पादन।ना-
न्निष्पादना देवंविधाना मे तादृशानामेवंप्रकाराणामन्येषां बहुतराणां तत्र तत्र स्थले सर्वस्मिन्नेवा-
गमः प्रमाणम् । पुराणरामायणमहा- भारतादिषु सर्वेष्वेवागमेषु शास्त्रेषु सम्यक्प्रकारेणानेकप्रकारा बहुभेदभिन्नाः
शापवार्ताः शापप्रदान किंवदन्त्यः । श्रूयन्त्य इति शेषः । तदेव प्रदर्शयति - तद्यथेति । महेन्द्रपदवर्तिन इन्द्र-
स्थानस्थायिनः शक्रस्थानस्थायिनो नहुषनाम्नो राजर्षे राज्यावस्थायां मुनिकल्पस्य साधुसदृशस्यागस्त्यमुनेः कुम्भ-
जन्मनः शापादाक्रोशवचनादजगरता पारीन्द्रता । जातेति शेषः । 'आक्रोशाभिषङ्गाक्षेपाः शापः साक्षारणा

मता' इति हैमः । सौदासस्य च वसिष्ठस्या रुन्धतीजानेः सुतस्य पुत्रस्य शापान्मानुषादत्वं मनुष्यभक्षकत्वं नराद-
नत्वम् । असुरगुरुः शुक्रस्तस्य शापादाक्रोशाद्ययाते राज्ञस्तारुण्य एव यौवन एव यौवनावस्थायामेव जरसा विस्र-
2
 
टिप्प० -

 
[^
1]F. अहह धन्या बुद्धिः ! भवत इत्यर्थीथो विद्यार्थिसिर्वोभिर्बोध्यः ।
[^
2]F. नानाविधद्रव्य संयोगा
नां ( संयोगस्य वैचित्र्यावहत्वात् ) मरणमदमान्याधुद्याद्युत्पादनादिषु या शक्तिः समुत्पद्यते एतस्मात् - कार -
णात् च, एवंविधानामन्येषां च बहुतराणामाश्चर्यकर्मणाम् तत्र तत्र स्थले भागमा: ( शास्त्राणि )
प्रमाणभूतानि सन्तीत्याशयः ।
 
पाठा० -

 
[^
तकि]G. तकिं कुतोऽयम्.
[^
]G. मुक्ते:.
[^
]G. एव.
[^
]G. अविसंवादीनि; विसंवादरहितानि.: .
[^
वा. ]G. वा.
[^
]G. भ्रामणे,
.
[^
]G. संयोगद्द्रव्याणाम्.
[^
]G. मरणामरणमदनादि; मरणमदमान्द्य.
[^
तत्र. ]G. तत्र.
[^
१०]G. आगमाः, .
[^
११]G. रामायणमहाभारतादिषु.

[^
१२ नडु]G. नहुषस्य.